सिन्धुतायी सप्काल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Sindhutai Sapkal
जन्म 14 नवम्बर् 1948
वर्धा, महाराष्ट्रा, भारतम्
मृत्युः ४ जनवरी २०२२ Edit this on Wikidata (आयुः ७३)
निवासः हडप्सर् , पुणे
देशीयता भारतम्
अन्यानि नामानि अनाथानां माता
वृत्तिः सामाजिक कार्यकर्ता&Nbsp;edit this on wikidata
कृते प्रसिद्धः समाजसेवा
धर्मः हिन्दु
भार्या(ः) श्रीहरिः सप्काल्
अपत्यानि 3[उद्धरणं वाञ्छितम्]
1042 दत्रिम्

सिन्धुतायी सप्काल् 

अनाथबालानां सुरक्षायै उन्नत्यै च यतमाना भारतीय-समाज-सेविका अस्ति सिन्धुतायी सप्काल्| सा 'अनाथानां माता' इति नाम्ना अपि विख्याता अस्ति| 2016 वर्षे  डि.वै.पाटिल ईन्स्टिट्यूट् ओफ़् टेकनोलजि एण्ड् रिसर्च् संस्थया सा डी.लिट्ट्. पदवीं प्रदत्ता |  

आदिकालं जीवनं शिक्षणं च 

1948 नवम्बर 14 दिनाङ्के महाराष्ट्रस्य वर्धा जनपदस्य पिम्परि-मेघे ग्रामे निर्धनकुटुम्बे सिन्धुतायी जाता| तस्याः पिता अभिमानजी साठे कश्चन गोपालकः आसीत्| तस्याः मातुः इच्छायाः विपरीतं पिता तां विद्यालयं प्रेषितवान्| प्रतिदिनं धेनुचारणस्य व्याजेन सा विद्यालयं गच्छति स्म| तस्याः लेखफलकं क्रेतुं धनं नासीत् अतः सा वृक्षाणां पत्रेषु लिखति स्म| परन्तु दारिद्र्य-बालविवाह-कुटुम्बपालनादि-कारणात् सा चतुर्थ्याः कक्षायाः पश्चात् विद्यालगमनं त्यक्तवति|

विवाहः समाजसेवायाः आरम्भ: च 

दशवर्षस्य वयसि सिन्धुताय्याः विवाहः अभवत्| तस्याः पतिः त्रिंशतवर्षीयः श्रीहरिः सप्काल् वर्धाजनपदस्य नवर्ग्रामवासि गोपालकः आसीत्| विंशतिवर्षस्य वयः यावत् सिन्धुतायी त्रयाणां पुत्राणां माता अभवत्|

"https://sa.wikipedia.org/w/index.php?title=सिन्धुतायी_सप्काल्&oldid=460527" इत्यस्माद् प्रतिप्राप्तम्