सीमानियन्त्रणरेखा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


The areas shown in green are the two Pakistani-controlled areas— Gilgit-Baltistan in the north and Azad Jammu and Kashmir (AJK) in the south. The area shown in orange is the Indian-controlled state of Jammu and Kashmir, and the diagonally-hatched area to the east is the Chinese-controlled area known as Aksai Chin.
United Nations map of the Line of Control.


सीमानियन्त्रणरेखा (एल्.ओ.सी ) साधारणतया द्वयोः देशयोः अथवा सैन्यनियन्त्रितप्रदेशयोः मध्ये विद्यमाना विभजनरेखा । किन्तु सामान्यतः काश्मीरप्रदेशे भारत पाकिस्तानयोः मध्ये स्थितां सैन्यनियन्त्रितसीमां 'सीमानियन्त्रणरेखा’ इति कथयन्ति । पूर्वम् युध्दविरामसीमा इति प्रसिद्धस्य अस्य प्रदेशस्य १९७२तमे वर्षे डिसेम्बरमासे प्रचलितस्य शिम्लासन्धानानन्तरं सीमानियन्त्रणरेखा (एल्, ओ, सि) इति नामाङ्कनम् अभवत् । भारतदेशः स्वदेशे स्थितं काश्मिरप्रदेशं जम्मू-काश्मीरम् इति, तथा पाकिस्तानवशेस्थितं काश्मीरप्रदेशं पाकिस्तानाक्रमितकाश्मीरम् (पि. ओ. के) इति वदति । पाकिस्तानदेशः स्ववशे स्थितं काश्मीरप्रदेशं स्वतन्त्रकाश्मीरम् (आझाद् कश्मीर्) इति तथा भारतस्य वशे स्थितं काश्मीरप्रदेशं 'भारताक्रान्तकाश्मीरम्’ (ऐ, ओ, के) इति नाम्ना निर्दिशति । सीमानियन्त्रणरेखां भारतपाकिस्तानयोः मध्ये स्थिता अन्ताराष्ट्रियसीमारूपेण परिगणनीयम् इति प्रस्तावः अस्ति । किन्तु भारतपाकिस्तानसर्वकारौ एतं प्रस्तावं विरोधयतः । सीमानियन्त्रणरेखायां केषुचित् भागेषु तन्त्रिकन्टकवृतिः निर्मिता अस्ति । भारतपाकिस्तानयोः मध्ये बहुवारं सीमानियन्त्रणरेखादेशे युद्धं प्रवृत्तम् । सद्यः तावत् १९९९ तमे वर्षे कार्गिल् युध्दं प्राचलत् । सदा अस्मिन् प्रदेशे भारतपाकिस्तानसैन्ययोः मध्ये परस्परं गोलिका प्रहारः यदा तदा प्रवर्तते । अक्टोबर् अष्ट्मे दिनाङ्के २००४तमे वर्षे अस्मिन् प्रदेशे घटितस्य भुकम्पस्य अनन्तरं सन्त्रसानां साहाय्यं कल्पयितुं, मानवीयदृष्ट्या च भारतपाकिस्तानसर्वकारौ ६०वर्षेभ्यः अनन्तरं सीमां निष्कासितवन्तौ । सीमां पञ्चस्थलेषु एव निष्कासितवन्तः । अनेनसन्तप्तानां परिहारकार्यं सुकरम् अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=सीमानियन्त्रणरेखा&oldid=406530" इत्यस्माद् प्रतिप्राप्तम्