सुविधिनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुविधिनाथः
नवमः जैनतीर्थङ्करः
सुविधिनाथस्य प्रतिमा
विवरणम्
अन्यनाम पुष्पदन्तः
ऐतिहासिककालः १ × १०२१८ वर्षाणि पूर्वम्
परिवारः
पिता सुग्रीवः
माता रामादेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म काकन्दी
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः श्वेतः
चिन्हम् मकरः
औन्नत्यम् १०० धनुर्मात्रात्मकम् (३०० मीटर्)
आयुः २,००,००० पूर्वम् (१४.११२ × १०१८ वर्षाणि)
शासकदेवः
यक्षः अजितः
यक्षिणी सुतारा
जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

सुविधिनाथः ( /ˈsʊvɪðɪnɑːθəhə/) (हिन्दी: सुविधिनाथ,आङ्ग्ल: Suvidhinath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु अष्टमः तीर्थङ्करः अस्ति । भगवतः सुविधिनाथस्य वर्णः श्वेतः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं मकरः (Crocodile) च अस्ति ।

कौमारावस्थायां सुविधिनाथस्य शरीरस्य औन्नत्यं शतं (१००) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “अजितः” इत्याख्यः यक्षः, “सुतारा” इत्याख्या शासनदेवी च आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

त्रयस्त्रिंशत्सागरोपमानन्तरं भगवतः जीवः काकन्दी-नामिकायां नगर्याम् अवतीर्णः । तस्यां नगर्यां कार्त्तिक-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ मूल-नक्षत्रे मध्यरात्रौ भगवतः सुविधिनाथस्य जन्म अभवत् [२]

सुविधिनाथस्य पिता सुग्रीवः, माता च रामादेवी आसीत् । सुग्रीवः काकन्दीनगर्याः राजा आसीत् । एकदा फाल्गुन-मासस्य कृष्णपक्षस्य नवम्यां तिथौ मूल-नक्षत्रे रात्रौ रामादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव रामादेवी राज्ञे सुग्रीवाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः सुविधिनाथस्य जीवः पृथ्वीदेव्याः गर्भे समतिष्ठत् [३]

आगामि-दिवसे राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रं स्वप्नानां फलादेशाय वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा रामादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशः कृतः यत् – “रामादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टश्च बालकः अस्ति । सः तीर्थङ्करत्वं प्राप्स्यति” इति ।

गर्भकालस्य नवमासानन्तरं भगवतः सुविधिनाथस्य जन्म अभवत् । प्रसवः अपि पीडारहितः जातः । भगवतः जन्मसमये सम्पूर्णं विश्वं शान्तम् आसीत्, केवलं दिशः एव शान्ताः नासन् । राज्ञा पुत्रप्राप्त्या प्रसन्नस्सन् सर्वेभ्यः दानं कृतम् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् जन्मोत्सवः आचरितः ।

लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च भगवतः सुविधिनाथस्य जन्मोत्सवे समुपस्थिताः आसन् । लोकान्तिकदेवानां, इन्द्राणां च उपस्थितिः आवश्यकी वर्तते स्म ।

पूर्वजन्म[सम्पादयतु]

अर्धपुष्करद्वीपस्य पूर्वविदेहस्य पुष्कलावतीविजये पुण्डरीकिनीनगरी आसीत् । तस्याः नगर्याः राजा महापद्मः आसीत् । महापद्मः एव भगवतः सुविधिनाथस्य पूर्वजन्म आसीत् । महापद्मस्य स्वभावः सात्विकः आसीत् । तस्य साम्राज्यं विशालम् आसीत् तथापि किञ्चित् अपि अभिमानः नासीत् ।

महापद्मः राजकीयवैभवसम्पन्नः आसीत् । सः राज्ञीनाम् अपि संसर्गे आसीत् । तथापि वासनाहीनम् एव तस्य जीवनम् आसीत् । सः योग्यसमये स्वस्मै पुत्राय राज्य दायित्वम् अदीयत । अनन्तरं सः जगन्नन्दमुनेः दीक्षां प्राप्तवान् ।

विविधाः तपस्याः, साधनाः च सः करोति स्म । एताभिः साधनाभिः, तपस्याभिः च महापद्मः तीर्थङ्करगोत्रबन्धनं कृतवान् । अन्ते अनशनं कृत्वा मोक्षपदं प्रापत् ।

नामकरणम्[सम्पादयतु]

बालकस्य जन्मनः एकादश दिनानि अनन्तरं नामकरणसंस्कारविधिः करणीयः भवति । अतः भगवतः सुविधिनाथस्य जन्मनः कानिचित् दिनानि अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । बहवः देवाः स्वर्गलोकात् अपि समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । तीर्थङ्करस्य सर्वेषु उत्सवेषु देवाः उपस्थिताः भवन्ति एव ।

राज्ये जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणस्य चर्चा जाता । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । किन्तु देवैः गर्भकाले घटितानां घटनानाम् उल्लेखं कर्तुं राजा उक्तः । अतः राज्ञा गर्भकालस्य घटनाः श्राविताः यत् – “यदा रामादेवी गर्भवती आसीत्, तदा सर्वान् विधीन् अजानात् ।

गर्भकालस्य अन्तराले यदा यदा सन्देहात्मकानि कार्याणि अभवन्, तदा तदा राज्ञ्या ये उपायाः उक्ताः, तैः उपायैः सन्देहानां समाधानं भवति स्म । मन्ये गर्भस्थस्य बालकस्य एवायं प्रभावः आसीत् । अतः अस्य बालकस्य नाम सुविधिकुमारः इति करणीयम्” ।

अपरा एका घटना आसीत् यत् – “यदा राज्ञी गर्भवती आसीत्, तदा राज्ञी पुष्पाणि इच्छन्ति स्म । अतः पुष्पदन्तः अपि अस्य बालकस्य नाम कर्तुं शक्यते” इति राजा उक्तवान् । सर्वाः, जनाः, देवाः च राज्ञः निर्णयात् सन्तुष्टाः अभवन् । तावत् एव सुविधिनाथः, पुष्पदन्तः च इति नाम अस्ति ।

विवाहः[सम्पादयतु]

रामदेव्या भगवतः सुविधिनाथस्य पालनं कृतम् । समयान्तरे भगवतः सुविधिनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । भगवतः किशोरावस्थायां प्रवेशे सति राजा सुग्रीवः राजकन्याभिः सह सुविधिनाथस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः सुग्रीवस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः सुविधिनाथस्य राज्याभिषेकं कृतवान्, सुविधिनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं सुग्रीवः दीक्षां प्रापत् ।

राज्यम्[सम्पादयतु]

सुविधिनाथेन राजा्पदं प्राप्तम् । तेन मातृवत् राज्यस्य विरक्तिपूर्वकं पालनं कृतम् आसीत् । सुविधिनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः ।

प्रजाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा सुविधिनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बः इव प्रतिभाति स्म । राज्ये प्रजाः सुखं जीवन्ति स्म । सः गान्धर्वदेवाः इव पञ्चेन्द्रियसुखानां भोगं करोति स्म । समयान्तरे तस्य मनः विरक्तः जातः ।

राजत्यागः, दीक्षा च[सम्पादयतु]

भगवता सुविधिनाथेन अष्टाविंशतिपूर्वाङ्गाधिकः पञ्चाशत्सहस्रं वर्षाणि यावत् राज्यसञ्चालनं कृतम् । यदा तेन दीक्षायाः समयः ज्ञातः, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् ।

सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र आगतवन्तः । ततः परं भगवान् सुविधिनाथः वार्षिकीदानं कृतवान् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि जनाः अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

तेजस्विनः, शान्तचित्तस्य च राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा कार्त्तिक-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ मूल-नक्षत्रे भगवान् सुविधिनाथः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं गतवान् आसीत् । तत्र लोकान्तिदेवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता सुविधिनाथेन दीक्षा स्वीकृता ।

दीक्षानन्तरं चतुर्मासं यावत् भगवान् सुविधिनाथः रहसि आसीत् । भगवता सुविधिनाथेन चतुर्मासान् यावत् विविधाः तपस्याः, साधनाः च कृता । सः विचरन् विचरन् पुनः काकन्दी-नगरीं प्राप्तवान् ।

काकन्दी-नगर्यां कार्त्तिक-मासस्य शुक्लपक्षस्य तृतीयायां तिथौ मूल-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तदा लोकान्तिकदेवाः, चतुष्षष्ष्टिः इन्द्राः, नगरजनाः च अपि तत्र उपस्थिताः आसन् । सर्वे मिलित्वा केवलमहोत्सवस्य आयोजनं कृतवन्तः, उत्सवम् आचरितवन्तः च ।

ततः परं भगवता सुविधिनाथः प्रथमं प्रवचनं कृतवान् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः निवृत्तिं प्राप्तवन्तः । भगवतः सुविधिनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवता सुविधिनाथेन चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापना कृता, तदा सुविधिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]

  1. ८८ गणधराः
  2. ७,५०० केवलज्ञानिनः
  3. ७,५०० मनःपर्यवज्ञानिनः
  4. ८,४०० अवधिज्ञानिनः
  5. १३,००० अवैक्रियलब्धिधारिणः
  6. १,५०० चतुर्दशपूर्विणः
  7. ६,००० चर्चावादिनः
  8. २,००,००० साधवः
  9. १,२०,००० साध्व्यः
  10. २,२९,००० श्रावकाः
  11. ४,७१,००० श्राविकाः

निर्वाणम्[सम्पादयतु]

यदा भगवान् सुविधिनाथः स्वस्य निर्वाणकालं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गत्वा एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वाणि कर्माणि नष्टानि जातानि । अनन्तरं सः सिद्धत्वं प्राप्तवान् ।

अनन्तरम् एकमासस्य अनशनान्ते मार्गशीर्ष-मासस्य कृष्णपक्षस्य नवम्यां तिथौ मूल-नक्षत्रे सम्मेदशिखरे भगवतः सुविधिनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्राप्तवन्तः [५]

सुविधिनाथेन कौमारावस्थायां पञ्चाशत्सहस्रवर्षाणां, राज्ये पञ्चाशत्सहस्रवर्षाणां, दीक्षायाम् अष्टाविंशति पूर्वाङ्गं च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने द्विलक्षं वर्षाणि भुक्तानि आसन् [६]

जैनतीर्थङ्कराः
पूर्वतनः
चन्द्रप्रभुः
सुविधिनाथः अग्रिमः
शीतलनाथः

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 84
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 82
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 84
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 62
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 85

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुविधिनाथः&oldid=481861" इत्यस्माद् प्रतिप्राप्तम्