सुश्रुतः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सुश्रुतः
Shushrut statue.jpg
हरिद्वारनगरे 'पतञ्जलीयोगपीठे' सुश्रुतमहर्षेः प्रतिमा
जन्म ८०० ई.पू.
भारतम्
वृत्तिः चिकित्सा
ख्यातः आयुर्वेदः, शल्यचिकित्सा
पूर्वपुरुषः धन्वन्तरी
उत्तराधिकारी चरकः
धर्मः हिन्दूधर्मः


(कालः – क्रि.पू. ६००)

सुश्रुतः (Sushruta) भारतीय आयुर्वेदस्य प्रवर्तकः सुप्रसिद्धः वैध्यश्च । अद्यतने जगति “प्लास्टिक् सर्जरि” इति यत् उच्यते तस्याः शस्त्रचिकित्सायाः प्रवर्तकः । प्रायः २००० वर्षेभ्यः पूर्वम् एव “प्लास्टिक् सर्जरि” (सरूपचिकित्सा) सदृशीं शस्त्रचिकित्सां यशस्वितया अकरोत् । तदवसरे विच्छिन्नं कर्णं समीकर्तुं शरीरस्य अन्यस्मात् भागात् चर्म स्वीकृतवान् आसीत् सुश्रुतः ।

सुश्रुतः हिन्दुधर्मे विद्यमानायाः शस्त्रवैद्यपद्धतेः सुभद्रम् आधारं कल्पयित्वा तां पद्धतिं विश्वविख्याताम् अकरोत् तदानीन्तने काले एव । एषः रोगनिदानस्य, चिकित्सापद्धतेः च सम्बद्धानि पुस्तकानि संस्कृतेन अरचयत् । तादृशेषु पुस्तकेषु सः शस्त्रचिकित्सां, प्रसूतिविज्ञानं, स्नानम्, औषधम्, पथ्याहारं, बालानाम् आहारं, नैर्मल्यं, वैद्यविद्यां च सुदीर्घरूपेण विवृतवान् । सुश्रुतः सस्यसम्बद्धानां, प्राणिसम्बद्धानां, खनिजसम्बद्धानां च असंख्यानाम् औषधानाम् उपयोगं जानाति स्म । सः ७६० सस्यानां मूलानि, त्वक्, पर्णं, तैलं च रोगपरिहारकाणि इति लिखितवान् अस्ति । दत्तूरस्य, कर्पूरस्य, एलायाः, आद्रकस्य (शुण्ठी), लशुनस्य, मरीचस्य च उपयोगम् अपि समीचीनतया जानाति स्म । सः १२१ विधानां शस्त्रक्रियायाः उपकरणानां विवरणं कृतवान् अस्ति स्वीयेषु ग्रन्थेषु । मानवशरीरस्य अङ्गानां रचनायाः अभ्यासार्थं तदा एव सुश्रुतः विभिन्नां विशिष्टां च काञ्चित् पद्धतिम् अनुसरति स्म । तृणानाम् आवरणेन बद्धं शवं सप्ताहं यावत् जले निमज्जति स्म । अनन्तरं शवं जलात् बहिः स्वीकृत्य मृदु चर्म निष्कासयति स्म सावधानेन । अनन्तरं स्वीयान् प्रयोगान्, परीक्षाः करोति स्म । सुश्रुतः स्वीयेषु ग्रन्थेषु अस्थिविषये, स्नायुविषये, अङ्गानां विषये यत् विवृतवान् अस्ति तत् इदानीम् अपि स्पष्टं शुद्धं च वर्तते । मनुष्याणां शरीरस्य इव प्राणिनाम् अपि (मृतानाम्) चर्म निष्कास्य पुनः सीवनस्य क्रमम् अपि अभ्यस्तवान् आसीत् सुश्रुतः । तदर्थम् एव सुश्रुतः बहुविधानां सूचीनाम् उपयोगं करोति स्म । सः शस्त्रक्रियायाः पूर्वं करणीयानां सिद्धतानां विषये अपि सविवरणं नियमान् लिखितवान् अस्ति । सुश्रुतेन आरब्धः व्रणानाम् उपरि भाष्पं प्रसार्य स्वच्छीकरणस्य क्रमः एव इदानीन्तनस्य पूतिनाशकक्रमस्य प्रथमं सोपानम् । सुश्रुतः गलग्रन्थिरोगस्य उपशमने, अस्थिरोगस्य निवारणे, चर्मणः अन्तर्भागे जायमानस्य पाषाणस्य निवारणे, दुर्मांसस्य अपकरणे, भग्नस्य अस्थिनः पुनः योजने, शस्त्रचिकित्सासहितायां प्रसूतौ रक्तनालानाम् अवरोधे च बहूनि विभिन्नानि तन्त्राणि यशस्वितया प्रयुज्य, तानि तन्त्राणि सविवरणं लिखितवान् अस्ति ।


आयुर्वेदस्य तत्त्वानि वेदेषु अन्यान्येषु स्थानेषु निहितानि आसन् । सुश्रुतः तानि सर्वाणि तत्त्वानि एकत्रीकृत्य, स्वानुभवान् अपि योजयित्वा “सुश्रुतसंहिता” इत्याख्यं ग्रन्थम् अलिखत् । तस्मिन् ग्रन्थे ११२० रोगाः, तेषां रोगाणां कारणानि, तदनुगुणं करणीयाः औषधोपचाराः च विभागशः विवृताः सन्ति । सः “सुश्रुतसंहिता” ग्रन्थः इदानीं बहुभिः भाषाभिः अनूदितः अस्ति । सुश्रुतस्य विद्याभ्यासः अयुर्वेदस्य आद्यप्रवर्तकस्य धन्वन्तरेः गुरुपीठस्थाने काश्यां सम्पन्नः इति ज्ञायते । काश्यां नरेशदेवदासः शस्त्रविद्याम् अबोधयत् सुश्रुतम् । “कोपः, द्वेषः, रूक्षता, उद्रेकः, कार्पण्यम्, आलस्यम्, असत्यं, दुराशा च दूरीकरणीयाः । ब्रह्मचर्यं पालनीयम् । ज्येष्ठाः गुरवः च आदरणीयाः । नखाः, केशाः च सदा कर्तयित्वा स्वच्छता रक्षणीया ।“ इति सुश्रुतः शिष्यान् बोधयति स्म । तेन लिखितायां सुश्रुतसंहितायाम् एतादृशाः नीतिविषयाः अपि निहिताः सन्ति ।

रोगाणां निवारणस्य कलाकौशलस्य वृत्तिषु शस्त्रविद्या एव प्रप्रथमा, श्रेष्ठा, पवित्रा, परिशुद्धा च । एषा विद्या भूलोके कीर्तिसम्पादनस्य साधनम् अपि । तादृश्याः वृत्तेः प्रवर्तकः आचार्यः सुश्रुतः भारतीयस्य वैद्यविज्ञानस्य मार्गे सदा ज्वलन् नन्दादीपः ।

"

"http://sa.wikipedia.org/w/index.php?title=सुश्रुतः&oldid=278512" इत्यस्माद् पुनः प्राप्तिः