सेनोत्सवः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(सेनादिनम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भारतदेशे भूदलं, नौकादलं वायुदलम् इति त्रिविधा रक्षकसेना कार्यं कुर्वती अस्ति । साधारणतया भूसेना भूप्रदेशे, नौकासेना सागरेषु, वायुसेना च पर्वतप्रदेशेषु तथा विमानोड्डुयनकार्यादिषु कार्यं कुर्वन्ति । किन्तु नैसर्गिकप्रवाहः चण्डमारुतः युध्दादिसन्दर्भेषु देशरक्षणार्थं जनरक्षणार्थं च त्रिविधा सेना उत्तमं कार्यं करॊति। त्रिविधानामपि प्रत्येकतः समानम् अस्तित्वमस्ति । कार्ययोजनाः च सन्ति । बाह्यशत्रुभ्यः देशरक्षणं सीमारक्षणं भारतीयानां रक्षणं च सेनाजनानां प्रमुखं कार्यमस्ति ।

भूसेनादिनम्[सम्पादयतु]

सेनासु प्रत्येकतया स्थापनादिनम् आचरन्ति । भूसेनायाः दिनं सैनिकानां दिनमिति जनवरीमासस्य १५ पञ्चदशे दिने आचरन्ति । देशरक्षणाविषये भूसेनायाः महत्वम् अधिकम् अस्ति । सीमासुरक्षा भूकम्पप्रवाह-नैसर्गिकप्रकोपाः इत्यादिकार्येषु सेना सदा जागरिता तिष्ठति । आङ्गलानां सर्वकारसमये एव योध्दृणां सङ्घटना विषये विचारविनिमयः अभवत् । सैनिकविद्यालयाः स्थापिताः अभवन् । विदेशीयेभ्यः संरक्षणं, सीमासुरक्षा, नियमपालनं, शान्तिस्थापना, सागरतीरे रक्षणाव्यवस्था, सम्पर्कव्यवस्था इत्यादिविषयाः सैनिककार्यक्षेत्रे मिलिताः अभवन् । द्वीतीयविश्वयुध्देऽपि भारतीय सैनिकाः इङ्गलेण्ड देशपरतः युध्दे रताः आसन् । १९५२ तमे वर्षे समग्रे भारतदेशे एका सम्योजिता सेना कार्यं कर्तुम् आरम्भं कृतवती । १९७२ तमे वर्षे भारतीय भूसेना विश्वे चतुर्थं स्थानं प्राप्तवती । साम्प्रदायिकरीत्या सैनिकाः सशस्त्रसेना च अत्र कार्यं कुर्वन्ति । चीना युध्द पाकिस्तानयुध्द प्रसङ्गयोः सेनायाः कार्यम् अतिमहत्तरम् आसीत् । भारतीयसेनासु ये युवकाः कार्यं कुर्वन्तः सन्ति तेषां प्रतिवर्षं विविधाः प्रशस्तयः दास्यन्ते । शौर्यपुरस्काराः परमवीरचक्रपुरस्काराः इत्यादि दत्वा वीरसैनिकान् प्रशंसन्ति । युध्दादिषु मृतानां मरणानन्तरमपि प्रशस्तिदानेन प्रशंसया च सत्कुर्वन्ति ।

प्रतिवर्षं नूतनाः युवजनाः सेनासु प्रविश्य् प्रशिक्षिताः भवन्ति । भारतीय सर्वकारः रक्षण विषये सेनाविषये च कोटिकोटिधनं उपयुज्य देशरक्षणाय, जनानां रक्षणाय च उत्तमकार्यं करोति । इदानीन्तनकाले सैनिकानां विविधाः आधुनिकाः यन्त्रविशेषाः दत्ताः सन्ति । सम्पर्कव्यवस्था आहारवसति आरोग्यादयः काल्पिताः सन्ति । भारतीयसेना अतीव बलयुता अस्ति । भूसेनायाः महादण्डनायकः एव त्रिविधसेनासु प्रमुखः भवति । भूसेना आन्तरिकशान्तिपालनामपि करोति ।

नौसेनादिनम्[सम्पादयतु]

नौसेनादिनं प्रतिवर्षं डिसेम्बरमासस्य चतुर्थे दिने आचरन्ति । तस्मिन् दिने नौकादलस्य अभिवृध्दि विषये, कार्याणां विषये च चर्चाः कुर्वन्ति । नवीनविष्काराणां उपयोगविषये च् चिन्तनं कुर्वन्ति । नौकादलं विशेषतः सागरतीरे कार्यं करोति । भारते दश महानौकास्थानानि, २२ मध्यमगात्रस्थानानि, ३०० अल्पगात्रनौकास्थानानि, १२८४ द्वीपाः, ४१८ द्वीपकल्पानि नौकासेनायाः कार्यक्षेत्रम् अस्ति । ‘सर्वतो जयमिच्छामि’ इति नौकादलस्य ध्येयवाक्यमस्ति । स्वातन्त्र्यप्राप्तेः अनन्तरम् उपनौकाधिपति (वैस एड्मिरल्) कार्यालयः देहलीनगरे स्थापितः अस्ति । भारतदेशे ५ सह्स्र किलोमीटर विस्तारः सागरतीरप्रदेशः अस्ति पूर्वकालतः अपि विदेशीयाः जलमार्गद्वारा आगच्छन्तः सन्ति । अतः सागरतीरे विदेशीयानाम् आक्रमणनियन्त्रणं नौसेनायाः मुख्यं कार्यमस्ति । एतत्कारणात् सागरे एव नौसेनायाः एकः विभागः सदा कार्यरतः अस्ति । नौसेनाम् अनेके युवजनाः प्रतिवर्षं प्रविशन्ति । तेषां प्रशिक्षणार्थं मुम्बै विशाखा पट्टनं कोच्ची जातनगर गोवा स्थलेषु च प्रशिक्षणकेन्द्राणि स्थापितानि । देशरक्षणार्थं जलान्तर्गामिन्यः नौकाः सिध्दाः सन्ति । आधुनिकशस्यास्त्राणि अपि सेनायै पूरितानि सन्ति । विदेशैः ये आगत्य देशे विस्फोटान् कुर्वन्ति तेषां नियन्त्रणार्थमपि व्यवस्था कृतास्ति । आधुनिककाले नौसेनायाः कार्यम् अधिकं सञ्जातम् अस्ति । अतः एव क्षाधिकसैनिकाः सततं कार्यं कुर्वन्तः सन्ति । नौसेना आपद् ग्रस्तानां नौकानां संरक्षणार्थम् अपि कार्यं करोति । मुख्यतः विदेशिव्यापारेणः वस्तुनः देशे विदेशे च नयनं नौकाभिः कुर्वन्ति । एवं विविधरीत्या भारतदेशे नौसेना सततं कार्यं कुर्वती अस्ति ।

वायुसेनादिनम्[सम्पादयतु]

भारतदेशे वायुसेनादिनं अक्तोबरमासस्य अष्टमे-दिने आचरन्ति । आधुनिककाले विमानयानव्यवस्था अतीव कार्यं करोति । देशे तथा विदेशयाने च विमानानि सततं कार्यप्रवृत्तानि सन्ति । विमानयानेन शीघ्रतया गमनंसाध्यम् अस्ति । विदेशीयाः विमानैः आगत्य यत्र कुत्रापि विस्फोटं कर्तुं समर्थाः भवन्ति । अतः वायुदलम् अतीव जागरुकतया कार्यं करोति । वैरिणां आक्रमणनियन्त्रणे तथा प्रतिकार्यं कर्तुं विमानानि लघुविमानानि हेलिकाफ्टरा दीनि सन्नध्दानि सन्ति । नैसर्गिकप्रकोपेषु विमानापघातेषु च वायुदलस्य कार्यम् अतिशीघ्रतया परिहारकार्यार्थं महत्वं प्राप्नोति । भारतदेशे बेङ्गलूरु नासिक प्रदेशेषु च विमाननिर्माणयन्त्रागाराणि स्थापितानि सन्ति । आकस्मिकापघात कार्यार्थं हेलिकाफ्र्टर्व्यवस्था सन्नध्दा अस्ति । देशे आगतानां देशतः गच्छतां विमानानां परिवीक्षणार्थं शडारव्यवस्या अस्ति । वायुसेना उत्तमान्तर्जालव्यवस्थां स्थापयित्वा उत्तमं कार्यं करोति । वायुसेनायाः प्रमुखं एर् चीफ् मार्षल् इति कथयन्ति । वायुसेनां प्रविष्टानां देहली डेहराडून् कडकवास्ला प्रदेशेषु विद्यालयेषु प्रशिक्षणं दाददन्ति । एतेषु प्रशिक्षणेषु विमानचालनप्रशिक्षणं, वैमानिकप्रशिक्षणं विमान चालकबोधकानां प्रशिक्षणम् इत्यादि कुर्वन्ति ।

भारतदेशे प्रकृतिकोपः, भूकम्पः, प्रवाहः, चण्डमारुतः अतिवृष्टिः सागरविकोपः इत्यादि सम्भवति । तदा शीघ्रतया परिहारकार्थं कर्तुं वायुसेना सन्नध्दा तिष्ठति । तेन शीघ्रमेव जनानां संरक्षणं साध्यं भवति । वायुसेनादिनाचरणॆ सामूहिकव्यायामः, बलप्रदर्शनं, सभा, चर्चा, प्रशस्ति वितरणं सन्ध्यासमये भोजनोत्सवः इत्यादि प्रचलति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=सेनोत्सवः&oldid=270377" इत्यस्माद् पुनः प्राप्तिः