सेरसिपमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Serchhip district
मण्डलम्
मिझोरामराज्ये सेरसिपमण्डलम्
मिझोरामराज्ये सेरसिपमण्डलम्
देशः  India
मण्डलम् सेरसिपमण्डलम्
विस्तारः १४२१.६० च.कि.मी.
जनसङ्ख्या(२०११) ६४,९३७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://serchhip.nic.in/glance.html
प्राकृतिकं सेरसिपमण्डलम्


सेरसिपमण्डलं (आङ्ग्ल: Serchhip District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं ‌सेरसिप इत्येतन्नगरम् । १५ सेप्टेम्बर् १९९८ दिनाङ्के अस्य मण्डलस्य स्थापना कृता । अतः नूतनमिदं मण्डलम् ।

भौगोलिकम्[सम्पादयतु]

सेरसिपमण्डलस्य विस्तारः १४२१.६० चतुरस्रकिलोमीटर्मितः अस्ति । मण्डलमिदं मिजोरामराज्ये विद्यमानेषु मण्डलेषु विस्तारदृष्ट्या लघुतमं मण्डलम् । अस्य मण्डलस्य पूर्वदिशि चम्पायमण्डलम्, आग्नेयदिशि म्यानमारदेशः, दक्षिणदिशि लुङ्गलैमण्डलं, वायव्य तथा उत्तरदिशि ऐजोलमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

सेरसिपमण्डलस्य जनसङ्ख्या(२०११) ६४,९३७ अस्ति । अस्मिन् ३२,८५१ पुरुषाः, ३२,०८६ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७७ अस्ति । अत्र साक्षरता ९७.९१% अस्ति । मण्डलेऽस्मिन् ५०.६९% जनाः ग्रामेषु निवसन्ति ।

कृषिः[सम्पादयतु]

मण्डलेऽस्मिन् जल-पर्वत-सम्पदाकारणात् वनानां बाहुल्यं दृश्यते । वनेषु वंशवृक्षाः, काष्ठानि च उपलभ्यन्ते । कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -

  • सेरसिप
  • पूर्व लुङ्गदर

वीक्षणीयस्थलानि[सम्पादयतु]

अस्य मण्डलस्य प्रसिद्धानि वीक्षणीयस्थलानि । यथा -

  • सेरसिप-नगरम्
  • सेरसिप-नगरानन्तरं प्रगतं तेनजोल इत्येतन्नगरम् प्रेक्षणीयम् ।
  • तेनजोल-नगरे Vantawng Khawhthla जलप्रपातः ।
  • Khawnglung अभयारण्यम् ।


Vantawng Khawhthla जलप्रपातः

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=सेरसिपमण्डलम्&oldid=268481" इत्यस्माद् प्रतिप्राप्तम्