सोमनाथः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
सोमनाथः is located in India
सोमनाथः
मल्लिकार्जुनस्वामी
महाकालेश्वरः
ॐकारेश्वरः
वैद्यनाथः
भीमश्ङ्करः
रामेश्वरम्
नागेश्वरः
विश्वनाथः
त्रयम्बकेश्वरः
केदारनाथः
ग्रिनेश्वरः
१२ ज्योतिर्लिङ्गानां स्थानानि.

इदं प्रभासपत्तनम् अथवा देवपत्तनमिति अभिधीयते । एतद् नगरं गुजरातस्य काथीयावाडास्थपर्यायद्वीपस्य दक्षिणाग्रे वर्तते । समुद्रतीरे स्थितमिदं पत्तनम् । प्राचीनकालस्य त्रिवेणी क्षेत्रमित्यपि वदन्ति । अत्रैव कपिला सरस्वती हिरण्या इति तिसॄणां नदीनां सङ्गमः भवति । अत्र अर्जुनेन तीर्थयात्रा सन्दर्भे सन्दर्शनं कृतम् आसीत् । एतदतिरीच्य चन्द्रः तपः कृत्वा सिद्धिं प्राप्तवानिति इदं स्थलं सोमनाथः इति प्रसिद्धम् । बलिचक्रवर्तिना अत्र अश्वमेधयागः कृतः इत्यपि कथयन्ति । श्रीकृष्णेन स्वावतारस्य अवसानकाले अन्तिमानि दिनानि अत्रैव यापितानि इति पुराणानां वचनम् । कृष्णस्य अवतारस्य परिसमाप्तिकाले यदा जराव्याधेन मुक्तः बाणः कृष्णस्य पादम् अघातयत् ।तदा अयं अत्र अन्तर्धानोभूदिति कथयन्ति । अपि च अत्रैव सर्वेषां यादवानां संहारः अभवदिति कथा श्रूयते । सोमनाथः भरतखण्डस्य अत्यन्तं पवित्रम् क्षेत्रम् । कालभैरवस्य लिङ्गमत्रास्ति । अन्त्ये राजा भीमदेवः एतं देवालयम् शिलया निर्मीय शिवप्रतिष्ठापनां कृतवान् । पुरा र्स्णफलकैः आच्छाद्य नवरत्नैः अलङ्कृतम् आसीत् । तस्मात् कारणात् यवनानां राजा महम्मद् गझनी लुण्ठनम् कृत्वा समग्रां सम्पदां उष्ट्रानामुपरि स्थापयित्वा राजधानीं गझनिम् अगच्छत् । तावान् वैभोगः एकदा आसीदिति, कालक्रमेण इतिहासकालस्य लुण्ठनेन हानिरभूत् (क्रि.श.१०२५, १३९०, १५३०, १७०१)। तदनन्तरम् अहल्याबायी होळकर सरदार् वल्लभभायी पटेलः इत्येतयोः परिश्रमेण नूतनतया निर्मितम् । तस्य अन्यौ प्रमुखौ कारणीभूतौ शिल्पिः प्रभुशङ्करसोम्पुरे तथा नवनगरस्य अध्यक्षः जामसाहेब च । इदानीन्तनमन्दिरम् पुरातन शिल्पादर्शैः वैभमवोपेतैश्च च यथावत् पूर्ववत् समुद्रतीरे निर्मितमस्ति । एवम् आधुनिकशिवमन्दिरं द्वादश ज्योतिर्लिङ्गेषु, अन्यतममिति परिगणय्य तीर्थयात्रा स्थलमित्यपि शोभते । श्री वादिराजस्वामिना सन्दर्शितेषु, स्थलेषु, अन्यतमम् । एतेन क्षेत्रेण ‘प्रपञ्चाय प्रभा दत्ता” इति एतेन उक्तम् । अतः एतद् क्षेत्रं प्रभासक्षेत्रमिति ख्यातम् । देशस्य नित्यस्मरणीयक्षेत्रेषु अन्यतमम् । द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् अस्ति सोमनाथक्षेत्रम् । अत्र भगवान् शिवः एव सोमनाथरूपेण निवसति इति । एतत् प्राचीनं शैवक्षेत्रम् । एतत् क्षेत्रं वेरावळ्, प्रभासं, सोमनाथम्, आनर्त इत्यपि वदन्ति । एतत् नगरं सौराष्ट्रस्य दक्षिणभागे समुद्रतीरे अस्ति । स्कान्दपुराणे “प्रभासखण्डः” इति पृथक् विभागः एव अस्ति । तत्र प्रभासतीर्थस्य एव वर्णनं कृतम् अस्ति । वेरावलतः प्रभासक्षेत्रं मैलत्रयदूरे अस्ति । ऋग्वेदस्य खिलसूक्ते अपि सोमनाथक्षेत्रस्य उल्लेखः अस्ति । ऋग्वेदे – “यत्र गङ्गा च यमुना यत्र प्राची सरस्वती । यत्र सोमेश्वरो देवस्तत्र माममृतं कृधीन्द्रायिन्दो परिस्रव ॥“ (ऋग्वेदः, खिलसूक्ते ९.२०.५) इति उक्तम् अस्ति । सोमलिङ्गस्य दर्शनेन भक्तानां सर्वाणि पापानि नश्यन्ति । अपेक्षितं फलं प्राप्य मरणानन्तरं स्वर्गं प्राप्नुवन्ति इति विश्वासः अस्ति ‘। प्रभासक्षेत्रस्य परिभ्रमणेन पृथ्वीप्रदक्षिणफलं प्राप्यते इति शिवपुराणस्य कोटिरुद्रसंहितायाम् उक्तम् अस्ति ।


एतत् क्षेत्रं पाशुपतमतस्य प्रधानकेन्द्रत्वेन प्राचीनकालतः अपि प्रसिद्धम् अस्ति । श्रीकृष्णस्य महानिर्वाणस्थानम् अपि अत्रैव समीपे अस्ति । एतत्क्षेत्रसम्बद्धा काचित् कथा अस्ति पुराणे । दक्षप्रजापतेः २७ पुत्र्यः । ताः सर्वाः चन्द्रस्य पत्न्यः । कालान्तरे चन्द्रः तासु रोहिणीम् एव अधिकतया प्रीणाति स्म । तस्मात् कुपिताः अन्याः पितुः समीपं गत्वा आक्षिपन्ति । कुपितः दक्षः चन्द्राय शापं दत्तवान् “क्षयं गच्छतु” इति । स्वापराधं ज्ञातवान् चन्द्रः दक्षं क्षमाम् अयाचत् । तदा ब्रह्मणा सह चर्चितवान् दक्षः । सः प्रभासक्षेत्रे भगवतः शङ्करस्य उपासनां कर्तुम् असूचयत् चन्द्रम् । तथा कृतवान् चन्द्रः शापमुक्तः अपि सञ्जातः । अत्रत्यं शिवलिङ्गं ब्रह्मा अपि अर्चितवान् आसीत् इति ।

शापमुक्तेः अनन्तरं चन्द्रः अत्र एकं स्वर्णमन्दिरं निर्मितवान् । कालान्तरे तत् मन्दिरं नष्टम् अभवत् । अनन्तरं रावणः अत्र एकं रजतमन्दिरं निर्मितवान् । कालान्तरे तदपि मन्दिरं नष्टम् अभवत् । अनन्तरं श्रीकृष्णः अत्र श्रीगन्धकाष्ठेन मन्दिरं निर्मितवान् । तत् मन्दिरं यदा शिथिलावस्थाम् अगच्छत् तदा प्रथमे शतके अत्र एकं शिलामन्दिरं निर्मितम् । ६ शतकानाम् अनन्तरं तदपि मन्दिरं यदा जीर्णं सञ्जातं तदा क्रि. श. ६४९तमे वर्षे मैत्रकवंशस्य महाराजः धर्मसेनः तस्य जीर्णोद्धारम् अकरोत् । तत् मन्दिरं स्थापत्यकलादृष्ट्या वैभवयुतम् आसीत् । ८ शतके जातात् अरब्जनानाम् आक्रमणात् एतत् मन्दिरं भग्नम् अभवत् । पुनः ९ शतकस्य आरम्भे रक्तशिलायाः भव्यं मन्दिरं निर्मितम् अत्र ।

सौराष्ट्रे विद्यमानं सोमनाथमन्दिरम्

क्रि.श.९४१तमे वर्षे सौराष्ट्रे चालुक्यानां शासनम् आरब्धम् । चालुक्यमहाराजः भीमसेनः महान् शिवभक्तः आसीत् । तस्य शासनावसरे क्रि.श.१०२५तमे वर्षे गझनिमहम्मदः अस्य मन्दिरस्य उपरि आक्रमणम् अकरोत् । सोमनाथमन्दिरं सम्पूर्णतया नाशयित्वा अत्रत्यां समग्रां सम्पत्तिम् अपहृतवान् सः । भग्नानां शिवलिङ्गानां शिलाभिः सह मन्दिरस्य द्वारम् अपि अनयत् सः । अनुक्षणम् एव गुजरातस्य मालवस्य च महाराजौ भीमः भोजः च एतत् मन्दिरं पुनः निर्मितवन्तौ । १३०० तमे वर्षे अल्लावुद्दीनखिल्जेः सेनानायकः अफजलखानः पुनः एतत् मन्दिरम् अनाशयत् । १३२५तमे वर्षे जुनागढस्य राजा महीपालः अस्य मन्दिरस्य जीर्णोद्धारम् अकारयत् । तदनन्तरं किञ्चित्कालं यावत् वैभवयुतं जीवनम् आसीत् अस्य मन्दिरस्य । तथापि विधर्मीयाणाम् आक्रमणात् मुक्तं न जातम् एतत् मन्दिरम् । मुजाफरशा-१, महम्मदबेगडा, मुजाफरशा-२, औरङ्गजेबः च क्रमेण क्रि.श.१३९०तमे, १४९०तमे, १५३०तमे, १७०१तमे वर्षे च अस्य मन्दिरस्य उपरि आक्रमणं कृत्वा अनाशयन् । महम्मदबेगडा मन्दिरं नाशयित्वा तस्य एव अवशेषेभ्यः मस्जिद् अपि निर्मितवान् । राज्ञी अहल्याबायी होळकर क्रि.श.१७८३तमे वर्षे पुनः अत्र एकं नूतनं मन्दिरं निर्मितवती । कालान्तरे तदपि मन्दिरं भग्नम् अभवत् ।

स्वातन्त्र्यानन्तरं सरदार् वल्लभभायी पटेलः यदा गृहमन्त्री आसीत् तदा अस्य सोमनाथमन्दिरस्य जीर्णोद्धारम् अकारयत् । मूलस्थाने पुनः वैभवयुतं मन्दिरं शिरः उन्नीय स्थितम् । पालिताणस्य प्रसिद्धस्य शिल्पी|शिल्पिनः प्रभुशङ्करसोमपुरस्य मार्गदर्शनेन एतत् मन्दिरं निर्मितम् । महाराष्ट्रस्य सुप्रसिद्धस्य वैदिकपण्डितस्य तर्कतीर्थस्य लक्षमणशास्त्रिजोशी इत्येतस्य पौरोहित्ये अत्र देवताप्रतिष्ठापनं कृतम् । तस्य गुरुः श्री केवलानन्दसरस्वती अपि अस्मिन् कार्यक्रमे भागम् अवहत् । १९५१तमे वर्षे मेमासस्य ११ दिनाङ्के राष्ट्रपतिः श्रीबाबुराजेन्द्रप्रसादः अत्र लिङ्गप्रतिष्ठापनम् अकरोत् । तत् मन्दिरम् अद्य अत्यन्तं सुन्दरम् अपूर्वशिल्पकलामन्दिरं सञ्जातम् । सहस्रशः यात्रिकाः अत्र भगवतः सोमनाथस्य दर्शनार्थम् आगच्छन्ति । प्राचीनस्य सोमनाथमन्दिरस्य अवशेषाः अट्टोपरि सङ्गृहीताः सन्ति । एतत् मन्दिरं प्राचीनकालादारभ्य अपि प्रसिद्धम् अस्ति । इरान्-तः भारतं प्रति आगन्तारः वणिजः भारततः गन्तारः च यात्रासुविधार्थं सोमनाथं प्रार्थयन्ति स्म । लाभांशे कञ्चित् भागं सोमनाथाय समर्पयन्ति स्म च । तस्मात् कारणात् सर्वदा सोमनाथस्य पुरतः मौक्तिक-रत्न-वज्राणां राशिः एव भवति स्म । अनेके राजानः अपि मन्दिरस्य निर्वहणार्थं सहस्रशः रूप्यकाणाम् उत्पन्नस्य व्यवस्थां कृतवन्तः आसन् । मुख्यमन्दिरस्य पुरोभागे २०० किलोभारयुता स्वर्णशृङ्खलायुता महाघण्टा आसीत् । कर्मकराणां कार्यसमयस्य परिवर्तनावसरे एतां घण्टां वादयन्ति स्म । मन्दिरस्य पूजादिकार्यनिर्वहणाय १००० ब्राह्मणाः नियुक्ताः आसन् । यात्रिकाणां क्षौरकार्यार्थम् एव ३०० नापिताः नियुक्ताः आसन् । देवालयस्य नित्यनैमित्तिक-गायनवादननिमित्तं ३०० गायकानां, ५०० कलाविदां च नियुक्तिः कृता आसीत् । मन्दिरस्य निर्वहणार्थं १०,०००ग्रामेभ्यः ३० कोटिमितानां रूप्यकाणां निधिः सङ्गृहीतः भवति स्म तस्मिन् काले एव । समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति । नूतनमन्दिरं परितः प्राचीनमन्दिरस्य अवशेषाः अद्यापि दृश्यन्ते महता प्रमाणेन ।

अस्मिन् नगरे अनेकानि मन्दिराणि सन्ति । नूतनमन्दिरसमीपे एव राज्ञ्या अहल्यादेव्या निर्मितं मन्दिरम् अपि अस्ति । अत्र शिवलिङ्गं परितः पार्वत्याः, लक्ष्म्याः, गङ्गायाः, सरस्वत्याः, नन्दिनः इतरेषां देवानां च विग्रहाः सन्ति । लिङ्गस्य उपरिभागे अहल्येश्वरनामकः शिवविग्रहः अस्ति । अत्र सुन्दरं लक्ष्मीनारायविग्रहयुक्तं मनोहरमन्दिरम् अपि अस्ति । उद्यमी बिर्ला अस्य मन्दिरस्य निर्माणम् अकारयत् । अत्र भित्तिषु गीताश्लोकाः, देवदेवतानां सुन्दराणि चित्राणि च सन्ति । अमृतशिलया निर्मितम् एतत् मन्दिरं ध्यानयोग्यम् अस्ति । अस्य गीतामन्दिरस्य समीपे एव प्राचीनं बलराममन्दिरम् अस्ति । तत्र बलरामस्य महामूर्तिः अस्ति । तत्पार्श्वे एव बलरामेण |महाशेषरूपेण पातालं गतः गुहामार्गः अपि अस्ति । अनतिदूरे एव भगवतः श्रीकृष्णस्य देहोत्सर्गस्थानम् अस्ति । तत्र कश्चन प्राचीनः अश्वत्थवृक्षः अस्ति । तत्समीपे पादद्वयम् अस्ति । भालुकक्षेत्रे केनचित् व्याधेन प्रयुक्तः बाणः श्रीकृष्णं व्रणितम् अकरोत् । तदेव निमित्तीकृत्य श्रीकृष्णः प्रभासक्षेत्रम् आगत्य देहत्यागम् अकरोत् । तस्य देहोत्सर्गस्थाने हिरण्यानद्याः तीरे यादवस्थली नामकं क्षेत्रम् अस्ति । अत्रैव यादवाः अन्तःकलहेन नाशं प्राप्नुवन् इति ।


बाह्यसंपर्कतन्तुः [सम्पादयतु]

Commons logo
वीकिमीडियाकोषे अनेन सम्बद्धमाध्यमाः सन्ति ।
"http://sa.wikipedia.org/w/index.php?title=सोमनाथः&oldid=232152" इत्यस्माद् उद्धृतम्