सोलर् इम्पल्स्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सोलर् इम्पल्स्
Solar Impulse
सोलर इम्पल्स् २ (HB-SIB) विहङ्गं चित्रम्
प्रकारः प्रयोगात्मकं सौरूर्जया चलत् विमानम्
मूलदेशः स्विझ्
निर्माता सोलार् इम्पल्स्
प्रारूपदाता सोलार् इम्पल्स्
प्रथमं प्रयाणम् ३/१२/२००९
उत्पादनसंख्या २ (काश्चन सूचनाः स्थापिताः)

सोलर् इम्पल्स् ( /ˈslər ɛmpls/) (हिन्दी: सौर आवेग, आङ्ग्ल: Solar impulse) उत सौरावेगः एकम् उत्कृष्टं सौरविमानम् अस्ति । तत् विमानं यूरोपदेशस्य बृहत्तमसौरोर्जया चालितस्य विमानस्य परियोजना अस्ति । सा परियोजना 'इकोले पॉलीटेक्निक फेडरल डी लॉजेन्' इत्यनया संस्थया सञ्चाल्यते । परियोजनायाः आरम्भः 'बर्ट्रेण्ड् पिकार्ड्-इत्याख्येन कृतः । सः पुरा संयुक्तरीत्या प्रप्रथमवारं वागोलेन विश्वस्य सततं परिक्रमम् अकरोत् [१] । सौरोर्जया चालितं तत् प्रप्रथमं विमानम् अस्ति । तस्य सौरविमानस्य स्विस-देशे विमानपञ्जीकरणस्य कूटसङ्ख्या HB -SIA अस्ति । तस्मिन् याने एकस्य जनस्य कृते स्थातुं व्यवस्था अस्ति । तद्विमानं स्वशक्तेः उड्डयते, तथा च सततं षड्त्रिंशत् (३६) घण्टां यावत् डयितुं समर्थम् अस्ति [२]

२०१० तमस्य वर्षस्य जुलाई-मासस्य सप्तमे (७/७/२०१०) दिनाङ्के पश्चिमदेशस्य स्विट्झर्ल्याण्ड्-देशस्य पेयर्न-महानगरस्य विमानस्थानकात् तत् सौरविमानं प्रप्रथमवारं सफलतया उदडयत । तदा विमानं सततं षड्विंशतिः (२६) घण्टाः डयमानम् आसीत् । तासु षड्विंशतिघण्टासु नव (९) घण्टायाः यात्रा रात्रिकाले आसीत् । २०१० तमस्य वर्षस्य जुलाई-मासस्य अष्टमे (८/७/२०१०) दिनाङ्के तत् विमानं तस्मिन्नेव विमानस्थानके प्रत्यवातरत् ।

स्विट्झर्ल्याण्ड्-देशस्य वायुसेनायाः युद्धविमानस्य सप्तपञ्चाशत् (५७) वर्षीयः विमानचालकः एण्ड्रे बॉशबर्ड्-इत्याख्यः सौरविमानस्य चालकः आसीत् । सः विमानम् अत्यधिकशीतवातावरणे उदडीडयत् । एण्ड्रे इत्ययं चत्वारिंशत् (४०) वर्षेभ्यः विमानचालकत्वेन दायित्वं वहन् आसीत् । परन्तु तस्य जीवनस्य तत् प्रप्रथमं उड्डयनम् आसीत्, यस्मिन् पर्यावरणप्रदूषणेन अयुक्तं, तथा च उत्कृष्टरोमाञ्चयुक्तम् उड्ड्यनम् आसीत् [३] । तस्य विमानस्य वाजयोः (on wings) बहुमूल्ये सौरपट्टिके (Solar Panel) स्तः । ते सौरपट्टिके ६३.४ मी. लम्बमाने स्तः । विमानचालकः तद्विमानं दिवसकाले उदडीडयत् । तदा तस्य सौरविमानस्य औन्नत्यं ८,५०० मी. आसीत् । अतः सूर्यकिरणैः सौरपट्टिकयोः ऊर्जायाः सङ्ग्रहः अभवत् । ततः तस्याः ऊर्जायाः उपयोगेनैव तत् सौरविमानं रात्रिकाले १,५०० मी. उन्नते अडयत [४]

सोलर् इम्पल्स् २[सम्पादयतु]

सोलर् इम्पल्स् २
आहत्यप्रवासः ४०,००० कि. मी.
गतिः ९० तः १४० कि.मी.
महत्तमम् औन्नत्यम् २८,००० फिट्
विमानचालकः
विमानस्य लम्बमानः ७३.५ फिट्
फलम् ७३.५ फिट्
उपरितनं तलम् २९००० चो. फिट्
लम्बमानः २३६ फिट्
औन्नत्यम् २०.९ फिट्
भारः २,३०० कि. ग्रा.
स्रोतः अधिकृतजालस्थानम्

निर्माणेतिहासः[सम्पादयतु]

२०११ तमे वर्षे स्विट्झर्ल्याण्ड्-देशे HB-SIB पञ्जीकरणारणानन्तरं द्वितीयसौरविमानस्य निर्माणकार्यम् आरब्धम् । आरम्भिके काले सौरविमाननिर्माणस्य कार्यं २०१३ तमे वर्षे पूर्णं भविष्यति इति अनुमानम् आसीत् । परन्तु ततः परीक्षकार्ये विलम्बे सति २०१२ तमे वर्षे सौरविमानस्य परीक्षणं प्रारब्धम् । ततः अनेकेषां परिवर्तनानाम् अनन्तरं २०१४ तमस्य वर्षस्य जून-मासस्य द्वितीये (२/६/२०१४) दिनाङ्के द्वितीयसौरविमानस्य प्रप्रथमम् उड्डयनम् अभवत् [५]

इम्पल्स् २

सम्बद्धाः लेखाः[सम्पादयतु]

स्विट्झर्ल्याण्ड्

बोयिङ्ग् ७८७

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. FAI entry of the 1999 record
  2. Solar Impulse Project. "HB-SIA Mission". आह्रियत 2009-12-05. 
  3. सौरूर्जया २६ घण्टाः आकाशयात्राम् अकरोत् ‘इम्पल्स्’
  4. "प्रदूषणरहिता विमानयात्रा". Archived from the original on 2016-03-05. आह्रियत 2015-03-10. 
  5. "First सोलर् इम्पल्स् द्वितीयस्य प्रप्रथम् उड्डयनम्". Sport Aviation: 14. July 2014. 
"https://sa.wikipedia.org/w/index.php?title=सोलर्_इम्पल्स्&oldid=481112" इत्यस्माद् प्रतिप्राप्तम्