स्त्रीशिक्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विद्याः समस्ताः तव देवि भेदाः ।
स्त्रियः समस्ताः सकला जगत्सु ॥

दुर्गासप्तशत्यां विद्यमानः अयं श्लोकः । अनेन स्त्रीणां विद्यायाश्च महिमा ज्ञायते । प्राचीनकाले शिक्षणं कथमासीत् इति चिन्तयन्तः वयं तदानीन्तनमहिलानां मातृणां शिक्षाया विषये चिन्तयामः । “ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” इति मनुस्मृतिः । यत्र स्त्रियः भवन्ति तत्र देवताः वसन्ति इत्यर्थः । भारतीयमहिलाः प्राचीनकालतः अपि ज्ञाने, शौर्ये च अग्रेसराः एव आसन् । महिलानमपि उत्तमं शिक्षणं प्रदीयमानमासीत् । माता एव शिशूनां प्रथमः गुरुः इत्युच्यते ।

यमस्मृतौ एवमुक्तमस्ति –

पुरा कल्पेतु नारीणां मौञ्जीबन्धनमीष्यते
अध्यापनं च वेदानां सावित्रीवचनं तथा
पितापितृव्यो भ्राता वा नैनामध्यापयेत् परः ।

पुराणेतिहासेषु साक्षरमहिलाः[सम्पादयतु]

बालकानां बाल्ये उपनयनसंस्कारः दीयते, तदनन्तरमेव गुरुकुलप्रवेशः अध्ययनस्य आरम्भः भवति इति वयं जानीमः न केवलं बालकानां, बालिकानामपि उपनयनसंस्कारं दत्त्वा तासामपि वेदाभ्यासः कार्यते स्म । स्त्रीणां विशेषशिक्षणप्रदानसमये सर्वाः स्त्रियः वेदादिविशेषशास्त्रेषु न प्रवर्तन्ते स्म । अतः निसर्गतः एव तासु ब्रह्मवादिनी, सद्योवधु इति द्विविधं परिकल्पितम् । वेदाध्ययनम् अध्यापनमेव यासां महिलानां जीवने प्रमुखं, ताः ब्रह्मवादिन्यः इति आहूयन्ते स्म । ब्रह्मवादिनीनाम् अग्निहोत्रं, वेदाध्ययनं तथैव स्वगृहे भिक्षास्वीकरणाधिकारः इत्यादिकम् आसीत् । वेदकाले गार्गी, मैत्रेयी, सुलभा, विश्ववारा, वागम्भ्रणी इत्यादिब्रह्मवादिन्यः आसन् । काश्चन स्त्रियः वेदमन्त्राणाम् आविष्कारमपि कृतवत्यः । एवमासीत् तदानीन्तनमहिलाशिक्षणम्, ताः विद्यासु कुशलाः अपि आसन् इति ज्ञायते । गार्गी तु विदर्भस्य राज्ञः जनकस्य आस्थाने महर्षियाज्ञवल्क्येन सह आध्यात्मिकविषये चर्चां कृतवती । मैत्रेयी पतिना एव मोक्षार्थं यत् ज्ञानमावश्यकं तत् ज्ञानं प्राप्तवती । ब्रहदारण्यकोपनिषदि एतादृशाः कथाः लभ्यन्ते । मेधातिथिमहर्षिः सुतायाः अरुन्धत्याः शिक्ष्णमुद्दिश्य महर्षिब्रह्मणा सह एवं वदति, बालिकानां शिक्षा पुरुषद्वारा न भवेत् । स्त्री एव स्त्रीणां शिक्षा दातुं शक्नोति । भवतां सकाशे तादृश्यः पाठयितुं योग्याः स्त्रियः यदि न सन्ति, तर्हि स्वकन्यां सावित्रीबहुलयोः समीपं प्रेषयतु । भवतां पुत्री ताभ्यां सह उषित्वा शिघ्रम् उत्तमा गुणवती च भवति ।

एवं स्त्रीणां शिक्षणस्य विषये पितरौ अपि चिन्तयतः स्म । त्रेतायुगेऽपि स्त्रीणाम् उत्तमं शिक्षणं दीयते स्म । विवाहात्पूर्वमेव समीचीनां शिक्षां प्राप्नुवन्ति स्म । यतः धार्मिककार्येषु अपि ताभिः स्वयम् अथवा पत्या सह वा पूर्णरुपेणभागः गृहीतव्यः आसीत् । एतत् अनिवार्यमपि आसीत् । अतः विवाहात्पूर्वं वैदिकक्रियाकलापाः तथा तेषु उपयुज्यमाणाः मन्त्राः अपि पाठ्यन्ते स्म । वाल्मीकिरामायणे सीता वैदिकप्रार्थनां करोति स्म । रामस्य माता कौसल्या प्रतिदिनं मन्त्रपूर्वकम् अग्निहोत्रं निर्वहति स्म । रामस्य वनगमनसमयेऽपि सा अग्नौ मन्त्रसहिताम् आहुतिं यच्छन्ती आसीत् इति वाल्मीकिरामायणस्य अनेन श्लोकेन ज्ञायते

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।
अग्नौ जुहोति स्म तदा मन्त्रवत्कृतमङ्गला ॥
॥ वाल्मीकि रा. अरण्यकाण्डः ॥

वानरस्त्रियोऽपि वैदिकक्रियाकलापान् जानन्ति स्म । वानरराजः वालिः, तस्य पत्नी तारा च मन्त्रविदौ आस्तांम् । यदा वाली सुग्रीवेणा योध्दुं प्रस्थितः तदा पत्युः प्रस्थानमङ्गलं कृतवती ।

ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ।
अन्तः पुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥
॥ वा. रा. किष्किन्धाकाण्डः ॥

महिलाभ्यः विशेषतः कर्मकाण्डस्य शिक्षणं दीयते स्म । तथापि कर्मकाण्डशिक्षणेन सह कुत्रचित् युध्दविद्यायामपि निपुणाः आसन् । त्रेतायुगे सूर्यवंशस्य राज्ञः दशरथस्य पत्नी कैकेयी देवासुरसङ्ग्रामे पत्या सह रथे उपविश्य पत्युः साहाय्यार्थं गतवती । दशरथस्य रथस्य चक्रस्य कीलकं यदा भग्नं जातं तदा स्वस्य अङ्गुली साहाय्येन तस्य विजयस्य कारणीभूता जाता इति रामायणे स्मर्यते । द्वापरयुगे सुलभा नाम प्रख्याता ब्रह्मवादिनी आसीत् । अस्याः असाधारणं ज्ञानमासीत् । शङ्कराचार्याणां ब्रह्मसूत्रभाष्ये अस्याः उल्लेखः लभ्यते । स्वस्य पाण्डित्यानुसारं पतिः न प्राप्तः इति हेतोः सा आमरणं तपस्विनी (ब्रह्मचारिणी) अभवत् । एकाकिनी ज्ञानार्जनार्थं देशसञ्चारं कृतवती ।

‘द्वापरयुगे श्रीकृष्णस्य पत्नी सत्यभामा गरुडनामके वाहने देवासुरयुध्दार्थं गतवती, अर्जुनस्य पत्नी सुभद्रा युध्दे सारथिः भूत्वा अर्जुनस्य रथं चालितवती । प्राचीनकाले, स्त्रीणां शिक्षणं विशेषतः अनौपचारिकरुपेण भवति स्म । एका बालिका विवाहं कृत्वा पतिगृहं प्रविशति चेत् तत्र ये भवन्ति, तत्र गृहीयैः सह कथं भवेत् इति शिक्षणं दीयते स्म । माता गृहे एव बहून् अंशान् ज्ञापयति स्म । एवम् अनौपचारिकरुपेणैव बहवः विचाराः बोध्यन्ते स्म ।

बह्व्यः मातरः अनेकान् सत्पुरुषान् महापुरुषान् देशाय प्रादुः । स्वपुत्राय स्वाभिमानिनः स्वावलम्बिनः शिक्षणस्य ज्ञानमपि स्वयं माता ददाति स्म । स्वयं यादृशं शिक्षणं (अनौपचारिकं ) प्राप्तवत्यः तदाधारेण स्वपुत्रेभ्योऽपि शिक्षणं प्रयच्छन्ति स्म । मातृणाम् उत्तमशिक्षायाः कारणेनैव भारते महावीराः महापुरुषाः वीरमहिलाः च जन्म प्राप्तवन्तः । रामायणे सीता वने दुःखी आसीत्, परं तु स्वयं स्वपुत्राभ्यां लवकुशाभ्यां स्वाभिमानित्वम् अशिक्षयत् । इतिहासे तौ द्वावपि शौर्ये प्रसिध्दौ जातौ । द्वापरयुगे वीरः अभिमन्युः अपि स्वमात्रा सुभद्रया एव उत्तमां शिक्षां प्राप्तवान् ।

वेदे वेदान्ते रामायणे महाभारते च स्त्रीशिक्षणं कथं आसीदिति ज्ञातवन्तः, न केवलं वेदे वेदान्ते व्याकरणाध्ययने अपि महिलाः उत्कृष्टतां प्रापुः । क्रि.शक पञ्चमे शतमाने अपि वैदिककालस्य शिक्षा आसीत् । तदा याः ब्रह्मवादिन्यः स्वयम् अध्यापिकारुपेण भवन्ति स्म, ताः उपाध्यायी, आचार्या इति कथ्यन्ते स्म । याः गुरुपत्न्यः सद्योवध्वः भवन्ति स्म, ताः उपाध्यायानी इति व्यपदिश्यन्ते स्म । महर्षिपाणिनिः स्वस्य ग्रन्थे एतासां ब्रह्मवादिनीनां उल्लेखमपि कृवतान् । या महिला अपिशलिव्याकरणाध्ययनं करोति सा आपिशली इति आहूयते । कशकृत्स्नायाः मीमांसाध्यायी या सा काशकृत्स्ना इति नाम्ना एव व्यपदिश्यते स्म । एवं व्याकरणाध्ययने अपि महिलाः अग्रगण्याः आसन् ।

अर्वाचीन भारते महिलाशिक्ष्णम्[सम्पादयतु]

क्रि. श. नवमे शतमाने बहवः महिलाः संस्कृत भाषायां कविताः अपि लिखितवत्यः । रामभद्राम्बा इति नामिका कवयित्री ‘रघुनाथाभ्युदयः’ नामकं ग्रन्थं लिखितवती । तिरुमलाम्बा इति नामिका एका कवयित्री प्रसिध्दा आसीत् । विजयनगरसाम्राज्ये १६ तमे शतमाने ‘वरदाम्बिका’ इति नामकं चम्पूकाव्यं रचितवती ।

गङ्गादेवी विजयनगरस्य शासनकाले आसीत् । महाराष्ट्रप्रान्ते सुप्रसिध्दः शिवाजिमहाराजः हैन्दवसाम्राज्यं स्थापयित्वा च्छत्रपतिः इति नाम्ना अङ्कितः अभवत् । सः कुतः, केन शिक्षणं प्राप्तवान् इति विचार्यमाणे स्पष्टम् अवगम्यते यत् तस्य माता जीजाबाई तस्य औन्यत्यस्य मूलम् अभूत् इति । बाल्ये एव रामायणे महाभारते विद्यमानानां महावीराणां कथाः उक्त्वा अस्मिन् मार्गे प्रेरितवती । प्रतिदिनमपि एवमुक्त्वा तस्य मनसि हिन्दुत्वस्य शौर्यस्य च बीजावापं कृतवती इति विज्ञायते । यदि जीजाबाई उत्तमरीत्या संस्कारिता शिक्षिता न स्यात्, तर्हि शिवाजिसदृशः केसरी कुतो वा छत्रपतिः भूत्वा देशं उध्दर्तुं शक्नुयात् । इतिहासकाले राजकुमार्याः अपि सर्वासु विद्यासु प्रावीण्यं प्राप्नुवन्ति स्म । कित्तूरु राज्ञी चेन्नम्मा, झान्सी राज्ञी लक्ष्मीबाई, अहल्याबाई होल्कर्-प्रभृतयः अद्यापि पूर्वोक्तविषये निदर्शनानि भवन्ति ।

एवं प्राचीनकाले महिलानां शिक्षाप्रदानव्यवस्था अपि उत्कृष्टा एव आसीत् । तेनैव कारणेन प्रत्येकं परिवारः अपि सुसंस्कृतमासीत् । यतः तदा महिलानाम् अथवा पुरुषाणां शिक्षणं स्वावलम्बि, स्वाभिमानि जीवनाय प्रेरणादायि च आसीत् । तत्र स्वार्थस्य लेशोपि न आसीत् ।

एवं भारते प्राचीनकालतः शिक्षाप्रक्रिया निरन्तररुपेण आगता । एतेन शिक्षणेन भारते जनानाम् आत्मविश्वासस्य वर्धनमभवत् । प्रजानामपि मम देशः मातृभूमिः इत्यादिविषये आदरः श्रध्दा च आसीत् । तेन कारणेन एव देशे प्रजाः अपि धीराः धर्मनिष्ठाः, देशभक्ताश्च आसन् । अत एव देशोपि समृध्दमासीत् । कालक्रमेण समाजे (जगति) परिवर्तनं जातम् । परिवर्तनमेव जगतः नियमः इति उक्तिरेव अस्ति । तस्मिन् एव समये भारतदेशेऽपि किञ्चन परिवर्तनम् अभवत् ।

भारते इदानींतन स्थितिः[सम्पादयतु]

सामान्यतः क्रि.पू. तृतीये चतुर्थे (३-४) च शतमाने भारतस्योपरि अपि विदेशीयानाम् आक्रमणम् आरब्धम् । भारते सः कालः राज्ञां शासनकालः आसीत् । राजसु परस्परम् अन्तः कलहाः उत्पन्नाः । ये आक्रमणकारिणः अत्रागताः ते तु एतम् अवसरं तेषां स्वार्थार्थमेव सम्यक् उपयुक्तवन्तः । आक्रमणकारेषु ग्रीक् अरब्, अफघन्, मोघलाः डच्, प्रेञ्च, आङ्ल इत्यादयः विदेशीयाः सहस्रेभ्यः वर्षेभ्यः पर्यन्तं भारतस्योपरि आक्रमणं कुर्वन्तः एव् आसन् । ते अनेकानि कारणानि अवलम्ब्य भारतदेशम् आगतवन्तः । केचन सम्पत्तेः लुण्ठनं कर्तुम्, अन्ये केचन व्यापारार्थम् आगतवन्तः । तेषु अन्ते आगताः आङ्लाः । ते इदान्तीनकालस्यापेक्षया द्विशतात् वर्षेभ्यः पूर्वम् आगताः । एते व्यापारार्थम् आगताः । अन्ये सर्वे इतः पलायिताः । आङ्ग्लाः भारतदेशे शासनं कर्तुम् इच्छन्ति स्म । भारतदेशं स्वायत्तीकर्तुं प्रयतमानाः आसन् । परन्तु भारतीयाः आत्मविश्वासिनः इति कारणतः ते स्वीयं उद्देश्यं सफलीकर्तुं न अशक्नुवन् । अतः अस्य कारणीभूता शिक्षणपध्दतिरेव अस्मभ्यं समस्या इति ज्ञातवन्तः । भारतस्य हृदयसम्पत्तिरिव आसीत् अत्रत्यं शिक्षणम् । तस्य मूलोत्पाटनादेव भारत्ं स्वायत्तीकर्तुं शक्यते इति मत्वा तस्य नाशाय कङ्कणबध्दाः अभवन् । तस्मिन् कर्मणि निरतेषु प्रमुखः नाम आङ्ग्लाधिकारी लार्ड मेकाले महाशयः । सः इङ्ग्लेण्डदेशे निवसत्यै स्वपत्न्यै पत्रं लिखितवान् – “कानिचन वर्षेषु एव भारतीयचर्ममांसैर्युक्तान् आङ्लहृदययुक्तान् मनुष्यान् सज्जीकुर्मः” इति ।

तस्य वाक्यं अधुना सत्यमित्येव दृश्यते यतः स्वातन्त्रं प्राप्य षष्टिः वर्षाणि अतीतानि तथापि तेषामेव शिक्षणम् अनुसरन्तः स्मः । प्राचीनकालस्य शिक्षणेन निस्वार्थभावस्य जागरणं प्रत्येकं मनुष्ये भवति स्म इति ज्ञातवन्तः । स्वस्थसमाजस्य निर्माणं स्वस्थशिक्षणेनैव साध्यम् । देशस्य बहूनां समस्यानां परिहारः केवलं उत्तमशिक्षणया एव शक्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=स्त्रीशिक्षणम्&oldid=481115" इत्यस्माद् प्रतिप्राप्तम्