स्वामी नारायणः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
स्वामी नारायणः

विक्रमसंवत्सरस्य चैत्रशुक्लनवमी अर्थत् क्रि.श.१७८१तमवर्षः ।
जन्मतिथिः क्रि.श.१८३० तमवर्षः,
जन्मस्थानम् छपिया अयोध्या उत्तरप्रदेशरज्यम्, भारतम्
पूर्वाश्रमनाम घनश्यामः


घनश्याम पाण्डे अथवा स्वामीनारायण अथवा सहजानन्द स्वामी (जीवितकालः क्रि.श. १७८१तमवर्षस्य एप्रिल् द्वितीयदिनतः क्रि.श. १८३०तमवर्षस्य जून् प्रथमदिनपर्यन्तम्) सनातनधर्मस्य स्वामीनारयणसम्प्रदायस्य प्रवर्तकः । अस्य सम्प्रदायस्य अनुयायिनः एतं भगवान् इति भावयन्ति । भागवतपुराणम्, स्कन्दपुराणं च अस्य अवतारस्य सङ्केतः इति ते वदन्ति ।[१] | स्वामीनारायणस्य शिक्षापत्री स्वामिनारायण सम्प्रदायस्य मूलग्रन्थः। भारते नैके महापुरुषा अभवन् येषां महानतायाः कारणेन जनाः तान् साक्षात् भगवतः अवतारः इति भावयन्ति । स्वामी नारायणः एतादृशः कश्चत् महात्मा । शा.श.१८३७तमे वर्षे विक्रमसंवत्सरस्य चैत्रशुद्धनवम्यां श्रीरामजन्मभूमौ अयोध्यायायाः समीपे (क्रि.श. १७८१तमेवर्षे एप्रिल् मासस्य तृतीये दिने) छपिया इति ग्रामे अस्य जन्म अभवत् । तद्दिनं रामनवमी इति कारणेन सर्वत्र पर्ववातावरणम् आसीत् । पिता हरिप्रसादः पण्डेयः माता भक्तिदेवी च तस्य नाम घनश्यामः इति कृतवन्तौ । बालकस्य हस्ते पद्मरेखा, पादे वज्ररेखा, ऊर्ध्वरेखा, कमलचिह्नं च आसन् । एतद्दृष्ट्वा ज्योतिष्कः "एषः लक्षाधिजनानां जीवनदिशाः परिवर्तयिश्यति " इति अवदन् ।

बाल्यं शिक्षा च[सम्पादयतु]

पञ्चमे वयसि बालकस्य अक्षराभ्यसः कारितः । अष्टमे वयसि उपनयनसंस्कारः कृतः । बाल्ये एव एषः अनेकेषां शात्राणाम् अध्ययनं कृतवान् । यदा एषः एकादशे वयसि आसीत् तदा मातापित्रोः अकालमृत्युः अभवत् । कालक्रमेण सहोदरेण सह विवादः अभवत् । अतः गृहं त्याक्त्वा सप्तवर्षणि समग्रदेशस्य पर्यटनं कृतवान् । जनाः तं नीलकण्ठवर्णी इति सम्बोधयन्ति स्म । गोपालयोगिना एषः अष्टाङ्गयोगविद्यां प्राप्तवान् । उत्तरे हिमालयपर्यन्तं दक्षिणे काञ्ची, श्रीरङ्गम्, रामेश्वरम् इति क्षेत्राणां पर्यन्तम् अगच्छत् । एतत्पश्चात् नासिकनगरद्वारा पण्ढरापुरं गत्वा गुजरात् नगरम् आगच्छत् । कदाचित् नीलकण्ठवर्णी मङ्गरोलस्य समीपे लोज् इति ग्रामम् आगतः । तत्र तस्य परिचयः स्वामिनः रामानदस्य शिष्यस्य स्वामिनः मुक्तानन्दस्य परिचयः अभवत् । नीलकण्ठवर्णी स्वामिनः रामानन्दस्य दर्शनाकाङ्क्षी आसीत् । तत्र रामानन्दः श्वशिष्यैः वदति स्म यत् अहं तु केवलं ढक्कावादकः वास्तवे नटः इदानीम् अगच्छति । अस्य सन्दर्शस्य पश्चात् रामानन्दः नीलकण्ठवर्णीं मुक्तानन्देन सह उषितुम् अवदत् । नीलकण्ठवर्णी अस्य आदेशं शिरसा अवहत् । तेषु दिनेषु मुक्तानन्दः कथां कथयति स्म । कथाः श्रोतुं महिलाः पुरुषाः च आगच्छन्ति स्म । नीलकण्ठवर्णी दृष्टवान् यत् कथाश्रवणावसरे साधूनां लक्ष्यं महिलानां दिशि चलति स्म । अतः सः पुरुषमहिलयोः कथाश्रवणव्यवस्थां पृथक् कृतवान् । क्रमेण प्रयासपूर्वकं महिलाकथावाचिकानां निर्माणम् अपि कृतवान् । सन्न्यासिभिः तेषाकृते कृतनियमानां पालनम् अनिवार्यतया करणीयम् इति अस्य मतमासीत् ।

दीक्षा पर्यटनं च[सम्पादयतु]

केषुचित् दिनेषु गच्छात्स्य स्वामी रामानन्दः नीलकण्ठवर्णिनं पिपलाणाग्रामं नीत्वा तत्र तस्मै सन्न्यासदीक्षां दत्वा तस्मै सहजानन्दः इति मम अकरोत् । एकसंवत्सरानन्तरं जयपुरे स्वसम्प्रदायस्य आचार्यपदमपि दत्तवान् । कञ्चित्कालपश्चात् रामानन्दस्य देहान्तः अभवत् । क्रमेण सहजानन्दः ग्रामात् ग्रामं गत्वा जनान् स्वामिनारायणमन्त्रं जप्तुम् सूचितवान् । निर्धनानां सेवाम् एव आद्यं कर्तव्यम् इति मत्वा सर्ववर्गजनान् अत्मना सह योजितवान् । अनेन अस्य ख्यातिः इतोप्यतिशयेन वर्धिता । सः पञ्चव्रतं पालयितुं स्वशिष्यान् सूचयति स्म । तन्नाम् मांसस्य मदिरायाः, चौर्यस्य व्यभिचारस्य च त्यागः स्वधर्मपापनम् इति । स्वकृतान् नियमान् प्रथमं स्वयं पालयति स्म । एषः हिंसायज्ञं, बलिप्रथा, कन्याहत्या, सतीप्रथा, भूतबाधा इत्यादीनि अनिष्ठानि निषेधितवान् । अस्य कार्यक्षेत्रं विशेषतः गुजरात्राज्यम् आसीत् । प्राकृतिकविपत्तिषु भेदभावं विना सर्वेषां सहायतां करोति स्म । एतादृशं सेवाभावं दृष्ट्वा जनां तं भगवतः अवरारः इत्येव मन्यन्ते स्म । एष अनेकानि मन्दिराणि निर्मितवान् । निर्माणवसरे स्वयं श्रमदानं करोति स्म । जनेषु धर्मस्य विषये एवमेव श्रद्धाभावं जागरयन् स्वामी क्रि.श. १८३०तमे वर्षे देहत्यागम् अकरोत् । अद्य अस्य अनुयायिनः विश्वे सर्वत्र सन्ति । एते मन्दिराणि सेवाज्ञानकेन्द्राणि कृत्वा कार्याणि कुर्वन्ति । गुजरातस्य देहलीनगरस्यअक्षरधाम स्थापत्यकलायाः अनुपमः दृष्टान्तः ।

उल्लेखाः[सम्पादयतु]

  1. {{#ifeq:|none |Williams 2001 | [[#CITEREFWilliams2001|Williams 2001
"http://sa.wikipedia.org/w/index.php?title=स्वामी_नारायणः&oldid=268431" इत्यस्माद् पुनः प्राप्तिः