स्वामी भगवदाचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



कविपरिचयः[सम्पादयतु]

स्वामी भगवदाचार्यः (Swami Bhagavadaacharya) १८८० तमे ईशवीयाब्दे स्थलकोटनगरे जनि प्राप्तवान् । सम्प्रति इदं नगरं पाकिस्थाने वर्तते । अयं महात्मगान्धेः सिद्धान्तानामनुयायी आसीत् । भारते स्वतन्त्रे जाते अयम् आफ्रीकादेशे गान्धेः सिद्धान्तानां प्रचारं कृतवान् । अयं रामानन्दस्म्प्रदाये दीक्षित आसीत् । आबूपर्वतस्थं रघुनाथमन्दिरम् अस्य प्रियं निवासस्थानामासीत् ।

कृतिरचना[सम्पादयतु]

अनेन कविना महाकाव्यद्धयं रचितं रामानन्ददिग्विजयं महात्मगान्धिचरितञ्चेति ।

रामानन्ददिग्विजयम्[सम्पादयतु]

अस्मिन् महाकाव्ये रमानन्दीय-वैष्णव-सम्प्रदाय-प्रवर्तकस्य श्रीरामानन्दस्य जीवनचरितं धर्मप्रचारकार्याणि उपदेशाश्च सरलशैल्या वर्णिताः । अस्य प्रकाशनम् आबूपर्वतस्थस्य रघुनाथमन्दिरस्य पीठाधीशेन कृतम् । श्रीरामानन्दोऽत्र धीरप्रशान्तनायकत्वेन वर्णितः ।

महात्मगान्धिचरितम्[सम्पादयतु]

अस्मिन् बृहत्कायमहाकाव्ये महात्मगान्धिनो समग्रं जीवनवृत्तं त्रिषु विभज्य वर्णितम् -

  1. भारतपारिजातम् - अस्मिन् प्रथमे भागे २५ सर्गाः सन्ति ।अत्र नायकस्य महात्मगान्धिः प्रारम्भिक –जिवनस्य घटना वर्णितः ।
  2. पारिजातापहारः - अत्र २९सर्गाः सन्ति ।अत्र र्राष्ट्स्य स्वतन्त्रतयै कृतानि कार्याणि वर्णितानि ।
  3. पारिजातसौरभम् - अयं भगः २९ सर्गेषु रचितः । अत्र नायकेन जिवनस्य अन्तिमावस्थायां विहितानि कार्याणि वर्णितानि ।

काव्यशैली[सम्पादयतु]

भगवदाचार्यस्य शैल्यां स्वाभाविकता चारुता च सन्ति । अस्य काव्यं सहृदयेभ्यः प्रेरणास्रोतः । आदर्शक्षत्रियस्य कर्त्तव्यवर्णनं यथा भारत पारिजाते -

यो नो बिभेति मरणाद्विदितात्मतत्वः ।
स क्षत्रियः स्वजनिभूमिसुतः स एव ॥
सम्प्राप्य युद्धफलमाशु महायशस्वि
स्वं च स्वदेशमपि कीर्तिभुजं विधत्ते ॥

अस्य सूक्तिषु धर्मनित्यादिविषयकतत्वानि निविष्टानि , तद्यथा-

१) बन्धुता हि समये परीक्ष्यते ।(श्रीरमा ४/३०)
२) शीलशैलं समारोहन् जनो वन्धो भवेत्सदा (श्रीरामा २०/५४)
३) प्राणंस्त्यजेयुर्नहि मानमीश्वराः । (भा.पा ५/७)
४) स्वातन्त्रयं जीवनं प्रोक्तम् ।(पारिजातांहारः१८/८०)

कविः देशस्य समकालिकपरिस्थितिनां यथार्थचित्रणं सावधान जागारुकश्च। अस्य युगचेतना अनेकत्र विविधरुपेषु व्यक्ता । पराधीनतायां लक्शण कर्वेरनुभूर्तिं सम्यग्व्यनक्ति -

किञ्चित्कर्तुं समीहैव साधनावतो यदि ।
शक्यते चेन्न कर्तुं वै तदास्वातन्त्र्यमिष्य्ते ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्वामी_भगवदाचार्यः&oldid=419477" इत्यस्माद् प्रतिप्राप्तम्