स्वामी रामतीर्थः
| स्वामी रामतीर्थः | |
|---|---|
| जन्मतिथिः | October 10, 1873 |
| जन्मस्थानम् | गुज्रन्वालमण्डलम्, पञ्जाबराज्यम्, भारतम् |
| मृत्युतिथिः | 10 March 1906 (aged 43) |
| तत्त्वचिन्तनम् | वेदान्तः |
स्वामी रामः इत्यपि प्रसिद्धः स्वामी रामतीर्थः (अक्टोबर् २२, १८७३ - अक्टोबर् २७, १९०६) कश्चन वेदान्तबोधकः हिन्दुधर्मगुरुः । अमेरिकादेशे हिन्दुधर्मं बोधितवत्सु प्रसिद्धेषु बोधकेषु अन्यतमः अस्ति अयम् । अयं १९०२ तमे वर्षे अमेरिकाप्रवासम् अकरोत् । ततः पूर्वं १८९३ तमे वर्षे स्वामी विवेकानन्दः, एतस्य अनन्तरं १९२० तमे वर्षे परमहंसः योगानन्दः च अमेरिकादेशे अबोधयन् । तदीये अमेरिकाप्रवासे स्वामी रामतीर्थः प्रायोगिकवेदान्तविषये, भारतीययुवानां शिक्षणविषये च पौनःपुन्येन प्रस्तावम् अकरोत् । भारतीयछात्राणां कृते छात्रवृत्तिः अपि तेन बहुधा व्यवस्थापिता ।
अन्तर्विषयाः |
जीवनम् [सम्पादयतु]
विक्रमसंवत्सरस्य दीपावलीदिने तन्नाम १८७३ तमस्य वर्षस्य अक्टोबर्मासस्य २२ तमे दिनाङ्के रामतीर्थः पञ्जाबराज्यस्य (अद्यत्वे पाकिस्थाने विद्यते) गुज्रन्वालमण्डले मुरलिवालग्रामे जन्म प्राप्नोत् । पिता पण्डित हिरानन्दगोस्वामी । जन्मनः अनन्तरं केषुचित् एव दिनेषु माता दिवङ्गता । ज्येष्ठभ्राता गोसैन् गुरुदासः एव रामतीर्थम् अपालयत् । लाहोरस्य सर्वकारमहाविद्यालयतः गणितशास्त्रे स्नातकपदवीं प्राप्य लाहोरस्य फार्मन् क्रिश्चियन् महाविद्यालये गणितप्राध्यापकत्वेन नियुक्तः जातः । १८९७ तमे वर्षे स्वामी विवेकानन्देन सह मेलनाय अवसरः प्राप्तः । तस्मात् नितरां प्रभावितः सः मया संन्यासिना भवितव्यम् इति निर्णीतवान् ।
नवदशशतकस्य अन्तिमभागे सः स्वस्य वक्तृत्वशक्तेः कारणतः पञ्जाबराज्ये प्रसिद्धः जातः । सः कृष्णस्य विषये अग्रे अद्वैतवेदान्तविषये च बोधनं करोति स्म । १८९९ तमे वर्षे दीपावलीदिने सः स्वस्य प्राध्यापकत्वं, पत्नीं पुत्रान् च परित्यज्य संन्यासं स्वीकृतवान् । तेह्रिमहाराजः कीर्तिशाह् बहादूर्वर्यः स्वामिनः रामतीर्थास्य जपान्-प्रवासाय व्यवस्थां परिकल्पितवान् । जपानतः सः १९०२ तमे वर्षे अमेरिकासंयुक्तसंस्थानं प्रति अगच्छत् । तत्र वर्षद्वयं स्थित्वा हिन्दुधर्मस्य अन्येषां मतानां च सारम् अबोधयत् । इदं सः प्रायोगिकवेदान्तः इति कथयति स्म ।
अधिकतया सः भारतस्य जातिव्यवस्थायाः असमानताविषये, महिलानां बालानाञ्च शिक्षणविषये च वदति स्म । महिलानां बालानां कर्मकराणां च शिक्षणविषये उपेक्षाभावः नोचितः । सः व्यवहारः राष्ट्ररूपिणः वृक्षस्य मूलाधारे कुठाप्रहारः इव इति वदति स्म रामतीर्थः । भारताय मतप्रचारकाः न अपेक्षिताः शिक्षिताः युवानः अपेक्षिताः इति कारणतः अमेरिकाविश्वविद्यालयेषु भारतीयचात्राणां पठनाय अवसरं कल्पयितुं संस्थामेकाम् आरब्धवान् । ततः बहुभिः भारतीयछात्रैः छात्रवृत्तिं कल्पितवान् ।
१९०४ तमे वर्षे भारतं प्रत्यागतवतः तस्य वैभवपूर्णं स्वागतं कृतम् । तस्य भाषणानां श्रवणाय अत्यधिकाः जनाः सम्मिलन्ति स्म । जनादरणात् जुगुप्सितः सः १९०६ तमे वर्षे सार्वजनिकात् जीवनात् सम्पूर्णतया निःसृतवान् । हिमालयपर्वतश्रेणीं प्राविशत् । तत्र प्रायोगिकवेदान्तस्य व्यवस्थितोपस्थापनाय ग्रन्थमेकं रचयितुं सज्जताः अकरोत् । ग्रन्थस्य समाप्तेः पूर्वमेव विक्रमसंवत्सरस्य दीपावलीदिने तन्नाम १९०६ तमस्य वर्षस्य अक्टोबर्मासस्य २७ तमे दिनाङ्के मरणं प्राप्नोत् । बहुभिः विश्वस्यते यत् सः न मृतः तेह्रिस्थाने गङ्गानद्यां जलसमाधिं प्राप्नोत् इति । सः दीपावलीदिने एव जातः, संन्यासग्रहणम् अकरोत्, दीपावलीदिने एव प्राणान् अत्यजत् च ।
जीवनचरितम् [सम्पादयतु]
रामतीर्थस्य आत्मीयौ शिष्यौ पुराणसिङ्गः नारायणस्वामी च तस्य जीवनचरितं लिखितवन्तौ । पुराणसिङ्गेन लिखितं 'स्वामी रामस्य कथा : पञ्जाबस्य कविसंन्यासी' १९२४ तमे वर्षे आङ्ग्लभाषया हिन्दीभाषया च प्रकाशितम् । नारायणस्वामिना लिखितं १९३५ तमे वर्षे 'रामतीर्थस्य सङ्गृहीतानि कार्याणि' इति नाम्ना प्रकाशितम् ।
परमहंसयोगानन्दः रामतीर्थस्य परमाराधकः आसीत् । रामतीर्थेन वङ्गभाषया लिखितानि बहूनि पद्यानि आङ्ग्लभाषां प्रति योगानन्देन अनूदितानि । केषाञ्चन पद्यानां सङ्गीतनिर्देशनम् अपि तेन कृतमस्ति । तदीये पुस्तके अपि रामतीर्थस्य पद्यं योजितम् अस्ति ।
'स्वामी रामतीर्थ मिशिन् आश्रमः' उत्तरखण्डस्य डेह्राडून्समीपस्थे कोटल्गान् राज्पुर्समीपे विद्यते । अत्र तस्य उपदेशाः नियततया अभ्यस्यते ।
न्यूतेह्रिप्रदेशे बाद्शाहि तौल्मध्ये विद्यमानस्य हेमावती नन्दन् बहुगुण गर्हवाल् सेण्ट्रल् विश्वविद्यालयस्य छात्रावासः स्वामी रामतीर्थपरिसरः इति नामाङ्कितः अस्ति । रामतीर्थस्य प्रपौत्रः हेमन्तगोस्वामी चण्डीगढे सामाजिककार्यकर्ता अस्ति ।
आधाराः [सम्पादयतु]
- Bromley, David G; Larry D. Shinn (1989). Krishna Consciousness in the West. Bucknell University Press. ISBN 083875144X.
- Brooks, Douglas Renfrew (2000). Meditation Revolution: A History and Theology of the Siddha Yoga Lineage. India: Motilal Banarsidass Publishing. ISBN 812081648X.
- Frawley, David (2000). Vedantic Meditation: Lighting the Flame of Awareness. North Atlantic Books. ISBN 1556433344.
- Khular, K. K. (November 1999). Swami Ram Tirath:The Unfettered Thinker. India Government Ministry of External Affairs. दिनांकः 2008-03-05.
- Rinehart, Robin (1999). One Lifetime, Many Lives: The Experience of Modern Hindu Hagiography. United States: Oxford University Press. ISBN 0788505556.
- Satyananda, Swami (2006). "Yogananda Sanga", from A Collection of Biographies of 4 Kriya Yoga Gurus. iUniverse, Inc.. ISBN 978-0595386758.
- Singh, Puran (1924). The Story of Swami Rama: The Poet Monk of the Punjab. Madras: Ganesh & Co..
- Sivananda, Swami (2005). Swami Rama Tirtha (1873-1906). Life of Saints. Divine Life Society. दिनांकः 2008-07-29.
- Yogananda, Paramahansa (1974). Cosmic Chants. Self-Realization Fellowship Publishers. ISBN 978-0876121313.
बाह्यशृङ्खला [सम्पादयतु]
- Biography of Swami Rama Tirtha by Puran Singh - free download
- Official Swami Rama Tirtha website
- Indian Postage Stamp on Swami Rama Tirtha, 1966
|
||||||||||||||||