स्वामी रामतीर्थः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
स्वामी रामतीर्थः
जन्मतिथिः October 10, 1873(1873-10-10)
जन्मस्थानम् गुज्रन्वालमण्डलम्, पञ्जाबराज्यम्, भारतम्
मृत्युतिथिः 10 March 1906(1906-03-10) (aged 43)
तत्त्वचिन्तनम् वेदान्तः

स्वामी रामः इत्यपि प्रसिद्धः स्वामी रामतीर्थः (अक्टोबर् २२, १८७३ - अक्टोबर् २७, १९०६) कश्चन वेदान्तबोधकः हिन्दुधर्मगुरुः । अमेरिकादेशे हिन्दुधर्मं बोधितवत्सु प्रसिद्धेषु बोधकेषु अन्यतमः अस्ति अयम् । अयं १९०२ तमे वर्षे अमेरिकाप्रवासम् अकरोत् । ततः पूर्वं १८९३ तमे वर्षे स्वामी विवेकानन्दः, एतस्य अनन्तरं १९२० तमे वर्षे परमहंसः योगानन्दः च अमेरिकादेशे अबोधयन् । तदीये अमेरिकाप्रवासे स्वामी रामतीर्थः प्रायोगिकवेदान्तविषये, भारतीययुवानां शिक्षणविषये च पौनःपुन्येन प्रस्तावम् अकरोत् । भारतीयछात्राणां कृते छात्रवृत्तिः अपि तेन बहुधा व्यवस्थापिता ।

जीवनम्[सम्पादयतु]

विक्रमसंवत्सरस्य दीपावलीदिने तन्नाम १८७३ तमस्य वर्षस्य अक्टोबर्मासस्य २२ तमे दिनाङ्के रामतीर्थः पञ्जाबराज्यस्य (अद्यत्वे पाकिस्थाने विद्यते) गुज्रन्वालमण्डले मुरलिवालग्रामे जन्म प्राप्नोत् । पिता पण्डित हिरानन्दगोस्वामी । जन्मनः अनन्तरं केषुचित् एव दिनेषु माता दिवङ्गता । ज्येष्ठभ्राता गोसैन् गुरुदासः एव रामतीर्थम् अपालयत् । लाहोरस्य सर्वकारमहाविद्यालयतः गणितशास्त्रे स्नातकपदवीं प्राप्य लाहोरस्य फार्मन् क्रिश्चियन् महाविद्यालये गणितप्राध्यापकत्वेन नियुक्तः जातः । १८९७ तमे वर्षे स्वामी विवेकानन्देन सह मेलनाय अवसरः प्राप्तः । तस्मात् नितरां प्रभावितः सः मया संन्यासिना भवितव्यम् इति निर्णीतवान् ।

नवदशशतकस्य अन्तिमभागे सः स्वस्य वक्तृत्वशक्तेः कारणतः पञ्जाबराज्ये प्रसिद्धः जातः । सः कृष्णस्य विषये अग्रे अद्वैतवेदान्तविषये च बोधनं करोति स्म । १८९९ तमे वर्षे दीपावलीदिने सः स्वस्य प्राध्यापकत्वं, पत्नीं पुत्रान् च परित्यज्य संन्यासं स्वीकृतवान् । तेह्रिमहाराजः कीर्तिशाह् बहादूर्वर्यः स्वामिनः रामतीर्थास्य जपान्-प्रवासाय व्यवस्थां परिकल्पितवान् । जपानतः सः १९०२ तमे वर्षे अमेरिकासंयुक्तसंस्थानं प्रति अगच्छत् । तत्र वर्षद्वयं स्थित्वा हिन्दुधर्मस्य अन्येषां मतानां च सारम् अबोधयत् । इदं सः प्रायोगिकवेदान्तः इति कथयति स्म ।

अधिकतया सः भारतस्य जातिव्यवस्थायाः असमानताविषये, महिलानां बालानाञ्च शिक्षणविषये च वदति स्म । महिलानां बालानां कर्मकराणां च शिक्षणविषये उपेक्षाभावः नोचितः । सः व्यवहारः राष्ट्ररूपिणः वृक्षस्य मूलाधारे कुठाप्रहारः इव इति वदति स्म रामतीर्थः । भारताय मतप्रचारकाः न अपेक्षिताः शिक्षिताः युवानः अपेक्षिताः इति कारणतः अमेरिकाविश्वविद्यालयेषु भारतीयचात्राणां पठनाय अवसरं कल्पयितुं संस्थामेकाम् आरब्धवान् । ततः बहुभिः भारतीयछात्रैः छात्रवृत्तिं कल्पितवान् ।

१९०४ तमे वर्षे भारतं प्रत्यागतवतः तस्य वैभवपूर्णं स्वागतं कृतम् । तस्य भाषणानां श्रवणाय अत्यधिकाः जनाः सम्मिलन्ति स्म । जनादरणात् जुगुप्सितः सः १९०६ तमे वर्षे सार्वजनिकात् जीवनात् सम्पूर्णतया निःसृतवान् । हिमालयपर्वतश्रेणीं प्राविशत् । तत्र प्रायोगिकवेदान्तस्य व्यवस्थितोपस्थापनाय ग्रन्थमेकं रचयितुं सज्जताः अकरोत् । ग्रन्थस्य समाप्तेः पूर्वमेव विक्रमसंवत्सरस्य दीपावलीदिने तन्नाम १९०६ तमस्य वर्षस्य अक्टोबर्मासस्य २७ तमे दिनाङ्के मरणं प्राप्नोत् । बहुभिः विश्वस्यते यत् सः न मृतः तेह्रिस्थाने गङ्गानद्यां जलसमाधिं प्राप्नोत् इति । सः दीपावलीदिने एव जातः, संन्यासग्रहणम् अकरोत्, दीपावलीदिने एव प्राणान् अत्यजत् च ।

जीवनचरितम्[सम्पादयतु]

रामतीर्थस्य आत्मीयौ शिष्यौ पुराणसिङ्गः नारायणस्वामी च तस्य जीवनचरितं लिखितवन्तौ । पुराणसिङ्गेन लिखितं 'स्वामी रामस्य कथा : पञ्जाबस्य कविसंन्यासी' १९२४ तमे वर्षे आङ्ग्लभाषया हिन्दीभाषया च प्रकाशितम् । नारायणस्वामिना लिखितं १९३५ तमे वर्षे 'रामतीर्थस्य सङ्गृहीतानि कार्याणि' इति नाम्ना प्रकाशितम् ।

परमहंसयोगानन्दः रामतीर्थस्य परमाराधकः आसीत् । रामतीर्थेन वङ्गभाषया लिखितानि बहूनि पद्यानि आङ्ग्लभाषां प्रति योगानन्देन अनूदितानि । केषाञ्चन पद्यानां सङ्गीतनिर्देशनम् अपि तेन कृतमस्ति । तदीये पुस्तके अपि रामतीर्थस्य पद्यं योजितम् अस्ति ।

'स्वामी रामतीर्थ मिशिन् आश्रमः' उत्तरखण्डस्य डेह्राडून्समीपस्थे कोटल्गान् राज्पुर्समीपे विद्यते । अत्र तस्य उपदेशाः नियततया अभ्यस्यते ।

न्यूतेह्रिप्रदेशे बाद्शाहि तौल्मध्ये विद्यमानस्य हेमावती नन्दन् बहुगुण गर्हवाल् सेण्ट्रल् विश्वविद्यालयस्य छात्रावासः स्वामी रामतीर्थपरिसरः इति नामाङ्कितः अस्ति । रामतीर्थस्य प्रपौत्रः हेमन्तगोस्वामी चण्डीगढे सामाजिककार्यकर्ता अस्ति ।

आधाराः[सम्पादयतु]

बाह्यशृङ्खला[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=स्वामी_रामतीर्थः&oldid=284304" इत्यस्माद् पुनः प्राप्तिः