हनुमप्प सुदर्शन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हनुमप्प सुदर्शन् रेड्डि
डा. सुदर्शन् , एकः प्रख्यातः समाजसेवी गिरिजनसेवी च ।
जन्म (१९५०-२-२) ३०, १९५० (आयुः ७३)[१]
येमालूर्, कर्णाटकराज्यम्, भारतम्
देशीयता भारतीयः
अन्यानि नामानि डा. सुदर्शन् रेड्डी
शिक्षणम् चिकित्साविज्ञानम्
वृत्तिः चिकित्सक, Activist, सहायक प्रोफेसर, सामाजिक कार्यकर्ता edit this on wikidata
कृते प्रसिद्धः जनस्वास्थ्यम्, गिरिजनाधिकारः, समाजसेवा, गान्धीवादी
धर्मः हिन्दुः

डा. हनुमप्प सुदर्शन् रेड्डि (कन्नड: ಡಾ. ಎಚ್. ಸುದರ್ಶನ್) (जन्म- ३० डिसेम्बर् १९५०) कश्चन प्रख्यातः भारतीयसमाजसेवकः । गिरिजनाधिकारविषये अनेन कृतः प्रयासः विशेषेण उल्लेखनार्हः । कर्णाटकराज्यस्य चामराजनगरमण्डले स्थितानां गिरिजनानां (मुख्यतः सोलिगजातिजनानाम्) सामाजिकोन्नतिसाधनार्थं वृत्त्या वैद्येन सुदर्शनमहोदयेन अपूर्वं कार्यं कृतमस्ति । डा. सुदर्शनमहोदयेन रैट् लैवलिवुड् एवार्ड् (Right Livelihood Award) तथा पद्मश्री-पुरस्कारः प्राप्तः अस्ति ।[२][३]

ते एव जीवन्ति ये परोपकारार्थं जीवन्ति, अन्ये जीवन्तः अपि सन्ति मृतप्रायाः इत्येषा एव तस्य जीवनमन्त्रः
तस्य जीवनस्य तत्त्वम् अस्ति - यावत्पर्यन्तं लक्षाधिकाः जनाः बुभुक्षया दारिद्र्येण च बाधिताः भवन्ति, तावत् अहं भावये यत् तेषां योगदानेन प्राप्तशिक्षणाः येषां विषये लेशमात्रेणापि अवधानं न यच्छन्ति ते सर्वे अपि विश्वासद्रोहिणः इति

प्रारम्भिकजीवनम्[सम्पादयतु]

डा. सुदर्शन रेड्डिमहोदयस्य जन्म १९५० तमे वर्षे डिसेम्बर्-मासस्य ३० तमे दिनाङ्के बेङ्गळूरुनगरस्य उपान्ते विद्यमाने येमलूरु नामके ग्रामे अभवत् । तस्य द्वादशे वयसि पिता योग्यचिकित्सायाः अभावात् ग्रामे मरणं प्राप्तवान् । एतस्मादेव सुदर्शनस्य मनसि दृढः सङ्कल्पः जातः यत् तेन वैद्येन सता जनसेवा करणीया इति । जर्मन्-देशस्य वैद्यः आल्बर्ट् स्क्वीझर् अपि अस्य किञ्चन महत् प्रेरणाकेन्द्रम् । सः बेङ्गळूरु-वैद्यकीय-महाविद्यालयतः स्नातकः तथा १९७३ तमे वर्षे वैद्यः अभूत् । एषः इन्दिरागान्धी-मुक्तविश्वविद्यालयस्य संयुक्तः प्राध्यापकोऽपि अस्ति ।[१]

वृत्तिजीवनम्[सम्पादयतु]

विद्याभ्यासस्य अनन्तरं डा सुदर्शनमहोदयः स्वामी विवेकानन्देन स्थापितां रामकृष्ण मिशन् इत्येतां संस्थां प्रविष्टवान् । उत्तरप्रदेशस्य हिमालये, पश्चिमवङ्गराज्यस्य बेलूरुमठे, कर्णाटकस्य पोन्न्म्पेटेप्रदेशे च तेन सेवाकार्यं कृतम् । [४] नगरे वैद्यवृत्तिं कर्तुम् अनिच्छता तेन गिरिजनसमुदाये कार्यं कर्तव्यम् इति निश्चितम् । गिरिजनानां समग्राभिवृद्धै तेन कर्णाटकस्य चामराजनगरमण्डले १९८० तमे वर्षे विवेकानन्द गिरिजन कल्याणकेन्द्रम् आरब्धम् । [२] कर्णाटके अरुणाचलप्रदेशे च ग्रामाभिवृद्धिसाधनाय संस्थापितायाः करुणा ट्रस्ट्संस्थायाः संस्थापकः गौरवाध्यक्षः च अस्ति सुदर्शनमहोदयः । व्यक्तिनिर्माणविषये राष्ट्राभिवृद्धिविषये च तस्य प्रेरणाप्रदाता अस्ति स्मामी विवेकानन्दः । गान्धिवर्यस्य ग्रामोत्थानादर्शं सः श्रद्धया पुरस्करोति । [५]

विवेकानन्द गिरिजन कल्याणकेन्द्रम् (VGKK)[सम्पादयतु]

विवेकानन्द गिरिजन कल्याणकेन्द्रस्य ध्येयम् इदमस्ति यत् न्यायाधारितस्य आरोग्य-विद्याभ्यास-जीवनसंरक्षण-जैविकवैविध्यसंरक्षणस्य द्वारा आदिवासिनाम् अनुमोदिताभिवृद्धिसाधनम् इति । [६]

विवेकानन्द गिरिजन कल्याणकेन्द्रस्य दृष्टिः एवं विद्यते - स्वीयसंस्कृतिसम्प्रदायाधारितः, परिसरस्नेही स्वावलम्बी समर्थः गिरिजनसमाजः ।

डा सुदर्शनमहोदयेन १९८१ तमे वर्षे संस्थापितया अनया संस्थया कर्णाटकस्य चामराजनगर-मैसूरुमण्डलयोः, तमिळनाडुराज्ये, अरुणाचलप्रदेशे, अण्डमान्-निकोबार्-द्वीपेषु च कार्यं कृतमस्ति, विंशतिसहस्राधिकैः जनैः सह सम्पर्कः साधितः वर्तते । अस्याः संस्थायाः अध्यक्षः सर्वदा अपि कश्चन गिरिजनयुवकः एव भवति । अद्यत्वे अध्यक्षः अस्ति जडेद गौड यश्च डा सुदर्शनवर्येण शिक्षितेषु अल्पेषु आदिमबालेषु अन्यतमः । जडेद गौड स्वीयस्नातकोत्तरशिक्षणस्य अनन्तरम् अधुना बेङ्गलूरुनगरस्थे कृषिविश्वविद्यालये विद्यावारिधिं (PhD) कुर्वन् अस्ति । अनया संस्थया बिळिगिरिरङ्गाद्रौ गिरिजनबालानां कृते कश्चन विद्यालयः सञ्चाल्यते यत्र ४५० बालाः नगरप्रदेशे प्राप्यमाणम् उत्तमशिक्षणम् अत्र प्राप्नुवन्ति । गिरिजनाभिवृद्धिसम्बद्धाः परिसरविषयाः, गिरिजनानां मौल्य-संस्कृत्याद्याः विषयाः अपि शिक्षणे अन्तर्भूताः सन्ति । अनया संस्थया वृत्तिशिक्षणकेन्द्रमपि चाल्यते यत्र १६ कुशलकलाः शिक्ष्यन्ते । अस्य गिरिजनकल्याणकेन्द्रस्य प्रयासेन अद्यत्वे ६०% सोलिगगिरिजनाः वर्षे न्यूनं ३०० दिनानि कर्णाटक-अरण्यविभागेन अन्यसंस्थाभिः वा उद्योगं प्राप्नुवन्ति । [३] एतदतिरिच्य संस्थायाः काचित् सहकारिव्यवस्था विद्यते यया गिरिजनानाम् उद्योगव्यवस्था क्रियते । भारतसर्वकारस्य गिरिजनकल्याणविभागेन इयं विवेकानन्द गिरिजन कल्याणकेन्द्रं परिज्ञातमस्ति । उत्तमा बालकल्याणसंस्था इति १९४४ तमे वर्षे कर्णाटकराज्यप्रशस्तिः, डा बाबा साहेब् अम्बेड्कर् प्रशस्तिः (२००२) (कर्णाटकसर्वकारः) च प्राप्ता अस्ति अनया संस्थया ।

करुणा ट्रास्ट्[सम्पादयतु]

१९८६ तमे वर्षे डा सुदर्शनवर्येण आरब्धा संस्था करुणा ट्रस्ट् (भारतम्) । विवेकानन्द गिरिजनकल्याणकेन्द्रेण सम्बद्धायाः अस्याःसंस्थायाः लक्ष्यमस्ति समग्रग्रामाभिवृद्धिः । [७] चामराजनगरमण्डलस्य यळन्दूरुजनपदे कुष्ठरोगस्य प्रसारः यः आसीत् सः एव अस्याः संस्थायाः आरम्भस्य निमित्तम् । अस्याः संस्थायाः प्रयत्नेन यळन्दूरुग्रामे १९८७ तमे वर्षे कुष्ठरोगस्य प्रमाणम् २१.४/१००० इति यत् आसीत् तत् २००५ तमे वर्षे ०.२/१००० जातम् । शिक्षणं जनजीवनस्य उन्नतिश्च अस्याः संस्थायाः अपरं लक्ष्यम् । अनया संस्थया आकर्णाटके अरुणाचलप्रदेशे च ७२ गिरिजन-आरोग्यकेन्द्राणि सञ्चाल्यन्ते । प्राथमिकारोग्यसम्पादनाय इयं संस्था लाभनिरपेक्षदृष्ट्या अन्याभिः सामाजिकसंस्थाभिः सः सहभागं प्राप्य कार्यं निर्वहति ।

अनया संस्थया अद्यत्वे सञ्चाल्यमानानि कार्याणि[सम्पादयतु]

कर्णाटकराज्ये -
  • २६ प्राथमिकारोग्यकेन्द्राणि (प्रतिमण्डलम् एकम्)
  • २ प्राथमिकारोग्यकेन्द्रे - अन्यसंस्थयोः सहयोगेन
  • नेत्रचिकित्सालयः - चामराजनगरमण्डले
  • ७ सञ्चारि आरोग्यकेन्द्रे
  • द्वयोः मण्डलचिकित्सालययोः सहायकेन्द्रम्
  • मण्डलस्य आरोग्यनिर्वहणम् - तुमकूरुमण्डले
अरुणाचलप्रदेशे - ९ प्राथमिकारोग्यकेन्द्राणि
मेघालयराज्ये - ४ प्राथमिकारोग्यकेन्द्राणि
ओरिस्साराज्ये - ५ प्राथमिकारोग्यकेन्द्राणि
आन्ध्रप्रदेशे - २ प्राथमिकारोग्यकेन्द्रे

समलङ्कृतानि स्थानानि[सम्पादयतु]

वृत्तिजीवने डा सुदर्शनवर्येण बहूनि स्थानानि अलङ्कृतानि, तेषु प्रमुखं वर्तते कर्णाटकसर्वकारेण आरचितस्य 'आरोग्य-परिवारकल्याण-विशेषकर्मिगण'स्य आध्यक्ष्यम्, भारतसर्वकारस्य राष्ट्रियग्रामस्वास्थ्यसंस्थया (NRHM) स्वास्थ्यनिर्वहणसंशोधनसंस्थया (बेङ्गलूरु) च आरचितस्य 'सार्वजनिक-स्थानीय-सहभाग-विशेषकर्मिगण'स्य आध्यक्ष्यम् च । [४] विश्वस्वास्थ्यसंस्थया आयोजितस्य 'विस्तृतार्थशास्त्र-स्वास्थ्यविषयकः षष्ठः कार्यगणः' (Working Group 6 on Macro-economics & Health) इत्यस्य सदस्यः आसीत् । भारतस्य एकादश्यां पञ्चवार्षिकयोजनायां परिशिष्टगिरिजनविकासयोजनासमितेः मार्गदर्शकगणसदस्यः आसीत् । कर्णाटकलोकायुक्तस्य अवलोकननिर्देशकरूपेण अपि उत्तरदायित्वं निरूढवान् । अस्य कार्यस्य निर्वहणावसरे तेन नियततया विविधाः सर्वकारीयविभागाः गम्यन्ते स्म यन्निमित्तं तेन विमर्शात्मकानुमोदं प्राप्तम् । [८]

सामाजिककार्याणि[सम्पादयतु]

गिरिजनशिक्षणम्[सम्पादयतु]

डा सुदर्शनः १९८१ तमे वर्षे कस्मिंश्चित् उटजे गिरिजनबालानां शिक्षणम् आरब्धवान् । तदा ६ बालाः तत्र पठन्ति स्म । तेषु ४ अद्यत्वे प्राप्तस्नातकोत्तरपदवीकाः सन्ति । गिरिजनबालानां कृते सवसतिकविद्यालयः आरब्धः अस्ति यस्मिन् ५०० गिरिजनबालकाः बालिकाः च अध्ययनं कुर्वन्ति । प्रथमतः दशमकक्ष्यापर्यन्तम् अत्र शिक्षणं दीयते । पदविपूर्वमहाविद्यालयः अपि चाल्यते विज्ञान-कलाविभागयोः । औद्यमिकशिक्षणम्, अरण्यशास्त्रशिक्षणम्, अनुवैद्यशिक्षणम्, नाटकशिक्षणम् (संवर्धनाय नाटकम्), इन्दिरागान्धिमुक्तविश्वविद्यालयतः दूरशिक्षणञ्च अत्र व्यवस्थापितमस्ति । सोलिगसंस्कृतिम् आचारविचारान् अनुसृत्य एव तेषां भाषया एव पुस्तकानि रचितानि सन्ति । समाप्तसप्तमकक्ष्याबालिकानां कृते अनुवैद्यशिक्षणं प्रदाय सुदूरे स्थितेषु प्राथमिकारोग्यकेन्द्रेषु कार्यकरणाय प्रेष्यन्ते ।

महिलास्वसहायकेन्द्राणि[सम्पादयतु]

२४ गिरिजनमहिलास्वसहायकेन्द्राणि विद्यन्ते । अत्र महिलानां कृते आहारसंस्करणम्, वस्त्रवयनम्, करकागदनिर्माणम्, वनौषधानि, खाद्यनिर्माणम् इत्यादिषु विषयेषु प्रशिक्षणं दीयते येन तासाम् आर्थिकस्थितिः उत्तमा भविष्यति ।

सोलिग अभिवृद्धिसङ्घः[सम्पादयतु]

सोलिगाभिवृद्धिसङ्घाः मण्डल-उपमण्डल-ग्रामस्तरेषु च विद्यन्ते । पञ्चायतराजव्यवस्थायां सक्रियभागवहनम्, भू-अपहरणाक्रमादीनां निवारणं, गिरिजनबालानां शिक्षणे सक्रियभागवहनम् इत्यादिषु विषयेषु यथा सर्वे अवधानं दद्युः तथा शिक्षणं दीयते ।

प्रशस्तयः[सम्पादयतु]

  1. राज्योत्सवप्रशस्तिः (सामाजिककार्याय) (१९८४) - कर्णाटकसर्वकारः [४]
  2. विवेकानन्द सेवा पुरस्कारः (१९९१) - राष्ट्रियप्रशस्तिः
  3. परिसरप्रशस्तिः (१९९२) - कर्णाटकसर्वकारः
  4. डा बि आर् अम्बेड्कर् शताब्दप्रशस्तिः (१९९२) - कर्णाटकसर्वकारः
  5. रैट् लैवलिवुड् एवार्ड् (स्वीडन्, १९९४) (पर्याया नोबेल्-प्रशस्तिः)
  6. अन्ताराष्ट्रियः विशिष्टवैद्यः (AAPI - १९९५)
  7. कर्णाटकज्योतिप्रशस्तिः (१९९७)
  8. बसवश्रीप्रशस्तिः (१९९९)
  9. पद्मश्री-पुरस्कारः (२०००) - भारतस्य राष्ट्रपतिः
  10. मानवाधिकारप्रशस्तिः (२००१)
  11. महावीरप्रशस्तिः (२००१)
  12. कृष्णदेवरायप्रशस्तिः (२००२)

उक्तयः[सम्पादयतु]

  • रोगनिवारणाय दारिद्र्यनिर्मूलनम् अपेक्षितम् । इदं साधयितुं मया अवगतः एकः एव मार्गः नाम - मानवाधिकारसम्पादनाय जनसङ्घटनम् । [३]
  • तथाकथितेन सुसंस्कृतसमाजेन गिरिजनैः ज्ञातव्याः अंशाः सन्ति अनेके । [३]
  • भ्रष्टाचारः अनेकेषु स्तरेषु विद्यते - वैद्यकीयशिक्षणे प्रवेशतः आरभ्य - स्थानं क्रेतुं शक्यं, परीक्षकः क्रेतुं शक्यः, परीक्षाव्यवस्था क्रेतुं शक्या, प्रश्नपत्रिकाश्च । विश्वविद्यालयस्य परिष्काराय क्रियमाणैः प्रयत्नैः अद्यत्वे भ्रष्टाचारः यद्यपि न्यूनः जायमानः अस्ति तथापि मौखिक-प्रायोगिकपरीक्षासु च अद्यत्वे अपि जनाः धनदानेन उत्तीर्णतां प्राप्नुवन्तः सन्ति । किमिदम् अस्माभिः अवरुद्धं न ज्ञायते । [९]
  • दारिद्र्यनिवारणाय नोपलभ्यन्ते गुलिकाः ।

टिप्पणी[सम्पादयतु]

  1. १.० १.१ Bio-data of Dr. Sudarshan from the website of Karuna Trust DOC Archived २०११-०७-२६ at the Wayback Machine
  2. २.० २.१ Roll of Honour for Dr. Sudarshan on his receiving the Right Livelihood Award is presented by "Roll of Honour". Online Webpage of the Right Livelihood Awards Organisation. Right Livelihood Awards Organisation. आह्रियत 2007-04-17. 
  3. ३.० ३.१ ३.२ ३.३ A biography of Dr. Sudarshan is provided by "Dr. H Sudarshan". Online Webpage of Vivekananda Girijana Kalyana Kendra(VGKK). © 2006, Vivekananda Girijana Kalyana Kendra. आह्रियत 2007-04-17. 
  4. ४.० ४.१ ४.२ A biodata of Dr. Sudarshan is presented by "Bio-data". Online Webpage of the Institute of Health Systems. Institute of Health Systems. Archived from the original on 2007-10-09. आह्रियत 2007-04-17. 
  5. Urs, R. "On an untrodden path" Archived २००७-१०-२८ at the Wayback Machine The Hindu, Bangalore, August 26th 2005.
  6. Overview of Vivekananda Girijana Kalyana Kendra is provided by "Vivekananda Girijana Kalyana Kendra". Online Webpage of the Vivekananda Girijana Kalyana Kendra. 2006, Vivekananda Girijana Kalyana Kendra. Archived from the original on 2019-04-18. आह्रियत 2007-04-17. 
  7. Overview of Karuna trust is provided by "Karuna Trust". Online Webpage of the Karuna Trust. 2006, Karuna Trust. आह्रियत 2007-04-17. 
  8. Lokayukta's surprise visits "Article on Lokayukta raids". From website of Our Karnataka. Archived from the original on 2007-10-29. आह्रियत 2007-10-22. 
  9. Interview with Dr. Sudarshan by "Public health being revamped". Online webpage of IndiaTogether.org, June 2002. IndiaTogether.org. आह्रियत 2007-04-17. 

अपि पश्य[सम्पादयतु]

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हनुमप्प_सुदर्शन्&oldid=485396" इत्यस्माद् प्रतिप्राप्तम्