हरगोविन्द खुराना

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

(कालः – ०९. ०१. १९२२ तः ०९. ११. २०११)

अयं हरगोविन्द खोरानः (Haragobinad Khorana) सुप्रसिद्धः विज्ञानी, नोबेल्–पुरस्कृतः चापि । भारतस्य मध्यप्रदेशराज्यस्य मुल्तान्–मण्डल्स्य रायपुरे १९२२ वर्षे जनवरिमासस्य ९ दिनाङ्के जन्म प्राप्नोत् । सः यदा मुल्तानस्थायां डि. ए. बि. प्रौढशालायाम् अध्ययनं करोति स्म तदा तस्य शिक्षकाः सर्वे तं “कोमलस्वभाववान् बुद्धिमान् बालः” इति प्रशंसन्ति स्म । तस्य हरगोविन्द खोरानस्य १२ वर्षे वयसि पिता लालागणपतरायः दिवं गतः । तदनन्तरं माता एव तं पालितवती । सः १९४५ तमे वर्षे पञ्जाब्–विश्वविद्यालयतः एम्.एस्सि–पदवीं प्राप्य अर्देशिर्–दलाल्–योजनायाः अनुगुणम् अग्रिमस्य अध्ययनस्य निमित्तं १९४६ तमे वर्षे अमेरिकां प्रति अगच्छत् । अनन्तरम् इङ्ग्लेण्ड्देशं गत्वा तत्रत्यात् लिवर्-पूल्–विश्वविद्यालयात् पि. एच्. डी पदवीम् अपि आप्नोत् । शिक्षणस्य अनन्तरं केम्ब्रिड्ज्–विश्वविद्यालये उद्योगम् अकरोत् । १९५० – १९५२ कालावधौ अलेक्साण्डर् टाड् इत्यनेन सह जीवरसायनविज्ञाने संशोधनम् अकरोत् । ततः ब्रिटिश्–कोलम्बियां गत्वा १९५२ तः १९५९ पर्यन्तं सावयव–रसायनविज्ञानस्य सहप्राध्यापकरूपेण कार्यम् अकरोत् ।


१९६० दशके अस्य हरगोविन्द खोरानस्य संशोधनानां निमित्तं सम्पूर्णः सहकारः अवसरः प्राप्तः । १९६२ तः १९७० पर्यन्तं सः अमेरिकादेशस्य विस्कान्सिन् –विश्वविद्यालये जीवरसायनविज्ञानस्य प्राध्यापकरूपेण तथा एन्जैन्–संशोधन–संस्थायाः सहनिदेशकरूपेण चापि नियुक्तः । तत्रैव सः आनुवंशस्य संशोधनम् अकरोत् । आनुवंशिकानि लक्षणानि एकस्याः वंशश्रेणीतः अन्यां वंशश्रेणीं प्रति नयन्ति कोशिकाबीजे विद्यमानं न्यूक्लियिक्–आम्लम् (डि एन् ए) । तस्मिन् कार्ये आर् एन् ए (रैबोस् न्यूक्लियिक् आसिड्) अपि साहाय्यं करोति । “फ्रोटीन्–संश्लेषणे डि एन् ए (डी आक्सिरैबोस् न्यूक्लियिक् आसिड्) कथं सूचनां ददाति ?” इति विषये एव सः हरगोविन्द खोरानः संशोधनम् अकरोत् । तदवसरे एव मार्षल् नीरेन् बर्ग् तथा राबर्ट् होल्लि अपि तद्विस्षये पृथक् पृथक् एव संशोधनं कृतवन्तौ । त्रयः अपि समानकाले एव उत्तरं प्राप्तवन्तः । तदर्थं १९६८ तमे वर्षे वैद्यविज्ञाने तथा शरीरविज्ञाने च त्रिभिः अपि नोबेल्–पुरस्कारः प्राप्तः । अयं हरगोविन्द खोरानः १९७० तमे वर्षे अमेरिका–संयुक्त–संस्थानस्य केम्ब्रिड्ज्–स्थितायां “म्यासाचुसेट्स् तन्त्रज्ञान–संस्थायां” जीवविज्ञानस्य तथा रसायनविज्ञानस्य प्राध्यापकरूपेण नियुक्तः । तदवसरे एव वाषिङ्ग्ट्न्–नगरस्य “राष्ट्रियविज्ञान-अकादम्याः” तथा “अमेरिकन् असोसियेषन् फार् दि अड्वान्समेण्ट् आफ् सैन्सस्” संस्थायाः च सदस्यरूपेण नियुक्तः । १९७१ तमे वर्षे यु एस् एस् आर् (यूनियन् आफ् सोवियत् सोषियलिस्ट् रिपब्लिक्) इत्यस्य विज्ञान–अकादम्याः विदेशीसदस्यत्वेन नियुक्तः । १९७४ तमे वर्षे “भारतीयरसायनसमाजस्य” (Indian Chemical Sosciety) आननरिफेलोरूपेण अपि चितः ।


अयं हरगोविन्द खोरानः १९७० तमस्य वर्षस्य जून्–मासस्य प्रथमे सप्ताहे ७७ न्यूक्लियोटैड्–युक्तस्य यीस्ट् नामकस्य जीविनः रासायनिकं संश्लेषणं कृत्वा जीवोत्पादनस्य लक्ष्यं प्रति अन्यम् एकं दृढं पदं न्यस्तवान् । सा तस्य जीवनस्य चरित्रात्मिका घटना इत्यपि उच्यते । तस्य रासायनिकस्य संश्लेषणस्य कारणतः आनुवंशिकानां रोगाणं निवारणस्य महत्त्वभूते क्षेत्रे संशोधनानि आरब्धानि । कृतकानं जीविनां सृष्टौ अपि तत् आर् एन् ए इत्यस्य रासायनिकं संश्लेषणं साहायकम् अभवत् । सः हरगोविन्द खोरानः १९५२ तमे वर्षे स्विड्जर्ल्याण्ड्देशस्थाम् एस्तर् नामिकाम् ऊढवान् । तस्य त्रीणि अपत्यानि अपि सन्ति । अयं २०११ वर्षे नवेम्बरमासस्य ९ दिनाङ्के इहलोकम् अत्यजत् ।

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु