हरिदासाः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

हरिदासाः (Haridasa) नाम हरेः दासाः। हरिः नाम भगवान् भगवदः दास्य भावः येषु जागरितः भवति ते हरिदासाः भवन्ति । भारतस्य दक्षिणे विद्यमाने कर्णाटकराज्ये काचित् विशिष्टा परम्परा अस्ति हरिदासपरम्परा इति । दैवभक्तिं जागरयन्तः अनेन मार्गेण एव इहपरयोः आनन्दः प्रप्तुं साध्यः अनेन मार्गेणैव सायुज्यमपि प्राप्तुं शक्यते इति दर्शितवन्तः । एते भक्तिमार्गस्य प्रवर्तकाः इति एव ख्याताः । एतत् हरिदासभक्ताः अन्दोलनेन भारतस्य सांस्कृतिकेतिहासस्य श्रेष्ठं परिवर्तनम् आनीतवन्तः । ६शतककाले सन्तः योगिनः विशेषतः दक्षिणभारते संस्कारस्य प्राचीनतत्त्वस्य कलायाः च निरूपणे अधिकं सहाय्यं समाचरन् । एते हरिदासाः दक्षिणभारतस्य राज्यानि प्रशसितानां शसने अपि प्रभावं कृतवन्तः । [१] अयं हरिदासपथः १३-१४तमशतकेषु आन्दोलनस्य रूपम् अवाप्नोत् । तदा कर्णाटके विजयनगरसाम्राज्यस्य प्रशासनस्य ऊर्जितः कालः । अस्य आन्दोलनस्य प्रधानः उद्देशः मध्वाचार्यस्य तत्त्वशास्त्रं सामान्यजनेषु दाससाहित्यरूपेण प्रसरणम् । [२] श्रीपादरायः व्यासतीर्थः पुरन्दरदासः कनकदासः इत्यादयः प्रमुखाः हिन्दुधर्मस्य तत्त्वज्ञानिनः, कवयः, विद्वासः महत्तमं पात्रम् निरवहन् । [२] आन्दोलनमेतत् कर्णाटकराज्ये आरब्धं दक्षिणभारतस्य अन्यराज्येषु अपि विकीर्णं चेदपि क्रि.श.१२शतके बसवण्णः इत्यादिभिः आरब्धस्य वीरशैवान्दोलनस्य, क्रि.श.दशमशतकस्य तमिळुनाडुराज्यस्य आळ्वार् सताम् आन्दोलनस्य च फलम् एव । [३][४] अग्रे वल्लभाचार्यः गुरुः चैतन्य मध्वाचार्यः इत्यादीनां बोधनैः प्रभाविताः जनाः । तस्य भक्ताः विश्वे सर्वत्र इस्कान्(ISKCON) हरिभक्त्यान्दोलनम् आरब्धम् । [५] हरिदाससन्तः अधिकाः परिव्राजः गायकाः च भवन्ति स्म । इदमान्दोलनं ब्राह्मणैः एव आरब्धा चेदपि समाजस्य सर्ववर्गीयानं योगदानम् अत्र अस्ति । .[६] कन्नडभक्तिसाहित्यक्षेत्रे हरिदासान्दोलनस्य योगदानं तु अपरिमितम् अस्ति ।[७]

आरम्भः[सम्पादयतु]

हरिदासान्दोलनस्य मूलं समीचीनतया निश्चेतुं नैव शक्यते । क्रि.श.नवमशतके अस्य आन्दोलनस्य आरम्भः इति केचन वदन्ति । किन्तु क्रि.श.त्रयोदशशतके उडुपीक्षेत्रे मध्वाचार्यस्य आश्रयेण (क्रि.श.१२२८तः क्रि.श.१३१७पर्यन्तम्) दासकूटः इति नाम्ना वैष्णवान्दोलनं कर्णाटाकराज्ये समाराभत । [३] अस्मिन् कालखण्डे आन्दोलनमेतत् प्रबला धार्मिकी शक्तिः अभवत् । अनेन दक्षिणभारते हैन्दवभावः नवचैतन्ययुक्तः अभवत् । तदानीमेव उत्तरभारतं मुसल्मानविप्लवकारिभिः आक्रान्तम् आसीत् । हरिदासपरम्परा विजयनगरसाम्राज्येन पोषिता ।[८]व्यासतीर्थः कृष्णदेवरायस्य गुरुः इति प्रतीतिः अस्ति ।[९][१०][११] हरिदासाः हिन्दुधर्मस्य वैष्णवभक्ताः विष्णोः अवतारस्य विठ्ठलस्य श्रीकृष्णस्य च पूजां कुर्वन्ति स्म । [१२]हरिदासानां महाराष्ट्रस्य पण्डरपुरस्य भीमानद्याः तीरस्य विठ्ठलस्य मन्दिरम्, कर्णाटकस्य हम्पीमध्ये विद्यमानः विठ्ठलस्वामिनः देवालयः अपि च आन्ध्रप्रदेशराज्यस्य तिरुमलस्य श्रीनिवासदेवालयः अतिपवित्रस्थानानि भवन्ति ।

बोधकाः[सम्पादयतु]

हरिदासाः सामान्यतः कर्णाटकीयाः आसन् । जयतीर्थाचार्यः केवलं महाराष्ट्रस्य पण्डरपुरस्य समीपे विद्यमानस्य मङ्गळ्वेधे स्थानीयः आसीत्, [१३] अपि च श्री नरहरितीर्थः इति दासः मध्वाचार्यस्य भक्तः आन्ध्रप्रदेशस्य दासः आसीत् । [१४]

विजयनगरसाम्राज्यकालस्य प्रसिद्धाः हरिदासाः[सम्पादयतु]

प्रसिद्धिः[सम्पादयतु]

हरिदासान्दोलने श्रीपादरायः व्यासतीर्थः वादिराजः इति त्रीन् दासान् यतित्रयः इत्येव कथयन्ति स्म । किन्तु वैष्णवत्रिमूर्तयः इत्युक्ते श्रीपादराजः , पुरन्दरदासः, कनकदासः च इति ख्यतिः । .[१५]

कन्नडसाहित्ये योगदानम्[सम्पादयतु]

हरिदासान्दोलनेन तु कन्नडसाहित्यक्षेत्राय महत् योगदानम् कृतम् । भक्तिपथेन जातं साहित्यं दाससाहित्यम् अथवा दासरपदगळु (दासानां पद्यानि) इति कथयन्ति । जगन्नाथदासः , विजयदासः, गोपालदासः च कन्नडसाहित्यसमृद्धिं कृतवन्तः अन्यदासकवयः सन्ति ।[१६][१७]

  • एतेषां लेखनानि त्रिधा विभक्तुं शक्यते ।
  • काव्यम् ।
  • तत्त्वम् ।
  • सार्वत्रिकरूपम् ।

पद्याङ्कितनामानि[सम्पादयतु]

प्रत्येकं हरिदासः स्वस्य कीर्तनेषु अथवा पद्येषु स्वस्य काव्याङ्कितं लिखति स्म । केषाञ्चन प्रसिद्धहरिदासानां काव्याङ्कितनामानि एवं सन्ति । [१८]

कर्णाटकसङ्गीताय योगदानम्[सम्पादयतु]

हरिदासान्दोलनेन कर्णाटकसङ्गीतक्षेत्रं हिन्दुस्तानीसङ्गीतात् पृथक् संवर्धितम् । अनेन भारतीयसङ्गीतक्षेत्रे नूतनस्य शास्त्रीयसङ्गीतस्य उदयः अभवत् । अतः पुरन्दरदासं कर्णाटकसङ्गीतस्य पितामहः इति ख्यतिः अस्ति । [१९][२०][२१]तस्य कृतिषु पदगळू कृतिः, उगाभोगः, सुळदिः, व्रुत्तनाम, दण्डकः, त्रिपदिः, षट्पदिः, साङ्गत्यम् इति भेदाः सन्ति ।[२२] ಹಾಗು ರಗಳೆ .

बाह्यानुबन्धाः[सम्पादयतु]


  1. Sharma (1961), p514
  2. २.० २.१ Kamath (2001), p155
  3. ३.० ३.१ Madhusudana Rao CR. "History of Haridasas". Dvaita Home Page. Retrieved 2007-05-30. 
  4. Krishna Rao M.V. Dr. in Arthikaje. /historyofkarnataka37.htm "Haridasa Movement-Part1". History of Karnataka. outKarnataka.com. Retrieved 2007-06-02. 
  5. Kamath (2001), p156
  6. According to some accounts, Kanakaದಾಸ came from a family of hunters (beda ) ಹಾಗು from other accounts, from a family of Shepherds (kuruba ) (Sastri 1955, p365)
  7. Sastri (1955), p381
  8. Kamath (2001), p178
  9. Pujar, Narahari S.; Shrisha Rao and H.P. Raghunandan. "Sri Vyasa Tirtha". Dvaita Home Page. Retrieved 2006-12-31. 
  10. Krishnadevaraya was highly devoted to व्यासतीर्थः (Kamath 2001), p178)
  11. व्यासतीर्थः was highly honoured by King Krishnadevaraya (Nilakanta Sastri 1955, p324)
  12. Kamat, Jyotsna. "Dasa Sahitya or Slave Literature". History of Kannada literature. Kamat's Potpourri. Retrieved 2007-05-31. 
  13. Pujar, Rao and Budihal. "Sri Jaya Tirtha". Online Webpage of Haridasa (dvaita.org). Retrieved 2007-05-31. 
  14. Mahushudhana Rao C R. "Sri Narahari Tirtha". Online Webpage of Haridasa (dvaita.org). Retrieved 2007-05-31. 
  15. Kamat, Jyotsna Dr. "Dasa Sahitya or Slave Literature". History of Kannada Literature. Kamat's Potpourri. Retrieved 2007-06-02. 
  16. Madhusudana Rao CR. "Haridasa Lineage". Dvaita Home Page (www.dviata.org). Retrieved 2007-06-01. 
  17. Madhusudana Rao CR. "Yathidasa Lineage". Dvaita Home Page (www.dviata.org). Retrieved 2007-06-01. 
  18. Mahushudhana Rao C R. "Ankitha". Online Webpage of Haridasa (dvaita.org). Retrieved 2007-05-31. 
  19. Owing to his contributions to ಕರ್ನಾಟಕ ಸಂಗೀತ, ಪುರಂದರದಾಸ is known as Karnataka Sangita Pitamaha Dr. Jytosna Kamat. "Purandara Dasa". Kamats Potpourri. Retrieved 2006-12-31. 
  20. Madhusudana Rao CR. "Sri Purandara Dasaru". Dvaita Home Page. Retrieved 2006-12-31. 
  21. S. Sowmya, K. N. Shashikiran. "History of Music". Srishti's Carnatica Private Limited. Retrieved 2006-12-31. 
  22. Sangatya composition is meant to be sung to the accompaniment of a Sangeetal instrument (Sastri 1955, p359)

उल्लेखाः[सम्पादयतु]

  • Sharma, B.N.K (1981,2000) [1961]. History of Dvaita school of Vedanta and its Literature. Bombay: Motilal Banarasidass. ISBN 81-208-1575-0. 
  • Nilakanta Sastri, K.A. (2002) [1955]. A history of South India from prehistoric times to the fall of Vijayanagar. New Delhi: Indian Branch, Oxford University Press. ISBN 0-19-560686-8. 
  • Kamath, Suryanath U. (2001) [1980]. A concise history of Karnataka : from pre-historic times to the present. Bangalore: Jupiter books. OCLC 7796041. फलकम्:LCCN. 
  • Iyer, Panchapakesa A.S. (2006) [2006]. Karnataka Sangeeta Sastra. Chennai: Zion Printers. 
  • Arthikaje. "The Haridasa Movement - Part 1". History of karnataka. OurKarnataka.Com. Retrieved 2006-12-31. 
  • Arthikaje. "The Haridasa Movement - Part 2". History of karnataka. OurKarnataka.Com. Retrieved 2006-12-31. 
  • Rao, Madhusudana C.R. "History of Haridasas". Haridasas of Karnataka. Haridasa@dvaita.net. Retrieved 2007-05-30. 
  • Aralumallige Parthasarathy ಹರಿದಾಸ ಸಾಹಿತ್ಯ Books
"http://sa.wikipedia.org/w/index.php?title=हरिदासाः&oldid=255093" इत्यस्माद् पुनः प्राप्तिः