हरिनामामृतव्याकरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ग्रन्थेऽस्मिन् चतुरशीतिः श्लोकाः द्विनवत्यधिकैकशताधिकत्रिसहस्रं (३१९२) सूत्राणि सप्त प्रकरणानि च सन्ति। तानि तावत् १. संज्ञासन्धिप्रकरणम्, २. विष्णुपदप्रकरणम्, ३. आख्यातप्रकरणम्, ४. कारकप्रकरणम्, ५. कृदन्तप्रकरणम्, ६. समासप्रकरणम्, ७. तद्धितप्रकरणञ्चेति। तत्र मङ्गलाचरणे चत्वारः श्लोकाः वर्तन्ते। संज्ञासन्धिप्रकरणे नव श्लोकाः सप्तचत्वारिंशदधिकैकशतं (१४७) सूत्राणि च विद्यन्ते। विष्णुपदप्रकरणे चतुर्दश श्लोकाः अष्टादशाधिकद्विशतं (२१८) सूत्राणि च विलसन्ति। आख्यातप्रकरणे नवदश श्लोकाः षडशीत्यधिकपञ्चशतं (५८६) सूत्राणि च विराजन्ते। कारकप्रकरणे चतुर्दश श्लोकाः पञ्चसप्तत्यधिकद्विशतं (२७५) सूत्राणि च सन्ति। कृदन्तप्रकरणे चत्वारः श्लोकाः षट्षष्ट्यधिकचतुश्शतं (४६६) सूत्राणि च राजन्ते। समासप्रकरणे नव श्लोकाः त्रिसप्तत्यधिकत्रिशतं (३७३) सूत्राणि च विद्यन्ते। तद्धितप्रकरणे चत्वारः श्लोकाः सप्तविंशत्यधिकैकशताधिकैकसहस्रं (११२७) सूत्राणि च वर्तन्ते। ग्रन्थोपसंहारे च एकः श्लोकः विद्यते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हरिनामामृतव्याकरणम्&oldid=410478" इत्यस्माद् प्रतिप्राप्तम्