हरिश्चन्द्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हरिश्चन्द्र इत्यस्मात् पुनर्निर्दिष्टम्)

हरिश्चन्द्रः सूर्यान्वयस्य राजा । त्रिशङ्कुः अस्य पिता सत्यव्रता माता । अस्य पत्नी चन्दमतिः पुत्रः रोहितः । त्रिशङ्कुः पितुः कारणेण राज्याधिकारं नष्टवान् । किन्तु हरिश्चन्द्रः त्रिशङ्कोः जीवितकाले एव राज्यं पुनः प्राप्तवन् । हरिश्चन्द्रः नारदस्य उपदेशानुसारं पुत्रः जायते चेत् तं पुत्रमेव यज्ञपशुत्वेन उपयुज्य यज्ञं करिष्यामि इति वरुणं सम्प्रार्थ्य रोहितः इति पुत्रं प्राप्नोत् । वरुणः आगत्यं पूर्ववचनं स्मारितवान् किन्तु हरिश्चन्द्रः पुत्रस्य दन्ताः आगच्छन्तु पश्चात् पश्यामः श्वः परश्वः अग्रे इति वदन् कालं यापितवान् ।

वरुणशापः[सम्पादयतु]

हरिश्चन्द्रपुत्रः रोहितः भीतः धनुः गृहीत्वा अरण्यं गत्वा इन्द्रस्य सूचनानुगुणं वर्षचतुष्टयं वने अभ्रमत् । पश्चात् ऋतीकमुनेः पुत्रं शुनश्शेपं स्वपत्तनम् आनीय स्वपर्यानेन शुनश्शेपं यज्ञे उपयोजयतु इति पितरम् अवदत् । एतन्मध्ये एव वरुणस्य शपात् हरिश्चन्द्रः जलोदररोगेण पीडितः । शुनशेपं गृहीत्वा नरमेधयागं कृत्वा वरुणं तर्पयित्वा जलोदररोगेण मुक्तः अभवत् ।

विश्वामित्रविवादः[सम्पादयतु]

हरिश्चन्द्रः विश्वामित्रस्य कारणेण राज्यभ्रष्टः सपुत्रकलत्रं काशीपुरं गत्वा दारिद्र्यवशात् पत्नीं कालकौशिकः इति विप्राय विक्रीय स्वयं वीरबाहुः इति चाण्डालाय विक्रीय असह्यकष्टानि बहुकालम् अनुभूतवान् । धनिकस्य कर्मकररूपेण वसन् पुत्रः रोहितः सर्पदशनेन मृतः । किन्तु सत्यपरिपालनेन कालक्रमेण परमेश्वरस्य कृपया पुत्रकलत्रं राज्यं च प्राप्य सुखेन न्यवसत् ।‎

"https://sa.wikipedia.org/w/index.php?title=हरिश्चन्द्रः&oldid=479294" इत्यस्माद् प्रतिप्राप्तम्