हर्मन् जोसेफ् म्यूल्लर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हर्मन् जोसेफ् म्यूल्लर्
जननम् Did not recognize date. Try slightly modifying the date in the first parameter.
New York City, New York City
मरणम् फलकम्:Death-date
Indianapolis, Indiana, US
देशीयता United States
कार्यक्षेत्राणि Genetics, molecular biology
संशोधनमार्गदर्शी Thomas Hunt Morgan
शोधच्छात्राः H. Bentley Glass
विषयेषु प्रसिद्धः The genetic effects of Radiation
प्रमुखाः प्रशस्तयः

1946 Nobel Prize in Physiology or Medicine
Linnean Society of London's Darwin-Wallace Medal (1958).
Fellow of the Royal Society[१]


1963 Humanist of the Year (American Humanist Association)
धर्मः Atheist[१]


इण्डियाना मध्ये विद्यमानं हर्मन् जोसेफ् म्यूल्लरस्य गृहम्

(कालः २१. १२. १८९० तः १९६७)

अयं हर्मन् जोसेफ् म्यूल्लर् (Hermann Joseph Muller) आनुवंशिकविज्ञानस्य प्रवर्तकः । अयं प्रौढशालायाम् अध्ययनावसरे एव न्यूयार्कप्रदेशस्य ब्राङ्क्स् इति स्थाने प्रथमं "विज्ञानसङ्घम्” (सैन्स् क्लब्) आरब्धवान् आसीत् । तदवसरे एषः हर्मन् जोसेफ् म्यूल्लर् "मारिस्" नामिकायां प्रौढशालायाम् अध्ययनं कुर्वन् आसीत् । १८९० तमे वर्षे डिसेम्बर्- मासस्य २१ तमे दिनाङ्के जातः अयं हर्मन् जोसेफ् म्यूल्लर् १९०७ वर्षे विद्यार्थिवेतनं प्राप्य 'कोलम्बिय'-विश्वविद्यालयं प्राविशत् । तत्र द्वितीयस्य वर्षस्य अध्ययनस्य अवसरे इ.बि.विल्सन् नामकः अध्यापकः अस्मिन् जीवविज्ञाने आसक्तिम् अजनयत् । १९१० तमे वर्षे एषः हर्मन् जोसेफ् म्यूल्लर् स्नातकपदवीं प्राप्नोत् । तेन हर्मन् जोसेफ् म्यूल्लरेण स्नातकपदव्याः प्राप्तेः अनन्तरवर्षे एव थामस् हण्ट् मार्गनस्य स्त्रीमक्षिकाणां (ड्रासोफिल) विषये लिखितः पबन्धः प्रकटितः । अग्रे तस्यैव थामस् हण्ट् मार्गनस्य सहायकः अभवत् एषः हर्मन् जोसेफ् म्यूल्लर् । आनुवंशिकक्रमस्य विषये थामस् हण्ट् मार्गनेन यः ग्रन्थः "दि मेकानिसम् आफ् मेण्डिलियन् हेरिडिटि” नामकः लिखितः तस्य साहाय्यार्तृषु त्रिषु अयं हर्मन् जोसेफ् म्यूल्लर् अपि अन्यतमः । एषः हर्मन् जोसेफ् म्यूल्लर् १९११ वर्षे यदा थामस् हण्ट् मार्गन्नेन सह कार्यम् आरब्धवान् तदा स्त्रीमक्षिकासु जायमानम् उत्परिवर्तनम् अपश्यत् । तासां मक्षिकाणां शीघ्रसन्तानोत्पत्तेः सामर्थ्यस्य कारणतः आनुवंशिकविज्ञानस्य विज्ञानिभिः उत्परिवर्तनस्य दर्शनार्थं बहुकालं यावत् निरीक्षा करणीया नास्ति इति अभासत ।


अनन्तरम् अयं हर्मन् जोसेफ् म्यूल्लर् स्वयम् एव संशोधनम् आरब्धवान् । तदवसरे सः उत्परिवर्तनस्य वेगस्य वर्धने उत्सुकः अभवत् । उदाहरणार्थं शाखस्य वर्धनेन उत्परिवर्तनस्य संख्याम् अपि वर्धयितुं शक्नुमः इति संशोधितवान् । १९१९ वर्षे संशोधितेन क्ष-किरणैः वर्णतन्तुषु जीविनां स्थानपरिवर्तनं भवति । तेन उत्परिवर्तनम् अतिशीघ्रं भविष्यति इत्यपि ज्ञापितवान् । एवं सः हर्मन् जोसेफ् म्यूल्लर् उत्परिवर्तनं रासायनिकपरिवर्तनस्य दृष्ट्या निरूपितवान् । तदर्थं १९४६ तमे वर्षे सः हर्मन् जोसेफ् म्यूल्लर् शरीरविज्ञाने तथा वैद्यविज्ञाने च "नोबेल्” पुरस्कारेण सम्मानितः अपि । एषः हर्मन् जोसेफ् म्यूल्लर् १९३३ तमे वर्षे रष्यादेशम् अगच्छत् । किन्तु तत्रत्यः आनुवंशिकविज्ञानसम्बद्धः लैसेङ्को-सिद्धान्तः तस्मै न अरोचत । तस्य तस्य सिद्धान्तस्य विरोधम् अपि अकरोत् । ततः सः स्काट्लेण्ड्-देशम् अगच्छत् । १९४० तमे वर्षे अमेरिकादेशम् एव प्रतिनिवृत्य पुनः अध्यापकवृत्तिम् एव आश्रितवान् ।

अस्य हर्मन् जोसेफ् म्यूल्लरस्य मतानुसारम् उत्परिवर्तनम् अपायकरम् एव । कदाचित् तत् उपयुक्तं भवति तावदेव । क्ष-किरणस्य परीक्षाः चिकित्साः वा अधिकतया न कारणीयाः । तेन उत्परिवर्तनं सञ्जायते । ततः जीवकोशाः क्यान्सर्-रोगेण पीडिताः भवन्ति । शरीरे क्ष-किरणानां प्रसरणावरे यदि अण्डाणौ वा वीर्याणौ वा उत्परिवर्तनं भवति तर्हि तत् शिशोः उपरि तीव्रं परिणामं जनयति । परमाणुस्फोटकानां स्फोटनेन यत् उत्परिवर्तनं जायते तेन विकलाङ्गाः, विकृताङ्गाः वा शिशवः जायन्ते । एषः हर्मन् जोसेफ् म्यूल्लर् १९६७ तमे वर्षे इहलोकम् अत्यजत् ।

टिप्पणी[सम्पादयतु]

  1. १.० १.१ doi:10.1098/rsbm.1968.0015
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand उद्धरणे दोषः : <ref> अमान्य टैग है; "frs" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है