हळेबीडु

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हळेबीडु
—  नगरम्  —
होय्सलेश्वरमन्दिरम् हळेबीडौ
Coordinates: 13°12′57″N 75°59′29″E / 13.2157°N 75.9914°E / 13.2157; 75.9914
राष्ट्रम् भारतम्
ऱाज्याणि कर्णाटकराज्यम्
मण्डलम् हासनमण्डलम्
औन्नत्यम्
हळेबीडु
जनसङ्ख्या (2001) ८,९६२
भारतीय सामान्यकालमानम् (UTC+5:30)
पत्रालयकूतटसंख्या
दूरवणीसंख्या 08172
प्रमुखदेवालयस्य अलङ्कृता बाह्यभित्तिः

हळेबीडु (Halebidu)कर्णाटकराज्यस्य हासनमण्डले विद्यमानं प्रसिद्धं प्रेक्षणीयस्थानम् । एषा नगरी होय्सलराजानां राजधानी आसीत् । आदौ सोसेवूरु इति नाम आसीत् । ततः द्वारावती द्वारसमुद्रं हळेबीडु इति नाम प्राप्तमस्ति । एकादशशतकतः १४ शतकपर्यन्तं होय्सळानां राजधानी एषा नगरी वैभवेण दुर्गराजगृहादिभिः पूर्णा आसीत् । होय्सळेश्वरदेवालयः महोन्नतः द्विकूटदेवालयः अस्ति । नक्षत्राकारे आधाराङ्णे पूर्वाभिमुखम् अयं देवालयः शिलया निर्मितः अस्ति ।

परिचयः[सम्पादयतु]

पूर्वम् एतत् द्वारसमुद्रं, दोरसमुद्रम् इत्यादिभिः नामभिः प्रसिद्धं होय्सळानां राजधानी आसीत् । होय्सळराजानः साहित्यपोषकाः कलाराधकाः च आसन् । ते राजानः धार्मिकश्रद्धावन्तः कलासक्ताः इति कारणेन अनेकदेवालयान् निर्मितवन्तः । तेषां प्रोत्साहेन जडवस्तुनि पुष्पविकसनमिव सौन्दर्यदर्शनम् अभवत् इत्यस्य हळेबीडु एकं प्रत्यक्षम् उदाहरणम् अस्ति ।

होय्सळराजैः निर्मिते ८.९कि.मी.मिते दीर्घे दुर्गे प्रति १८० पादपरिमिते स्थले एकं दर्शनगोपुरम् अस्ति । दुर्गस्य चत्वारि द्वाराणि सन्ति । किन्तु सर्वाणि महम्मदीयानाम् आक्रमणैः नष्टाणि अभवन् ।

इदानीं राजधान्यां होय्सळेश्वरदेवालयः शान्तलेश्वरदेवालयः च स्तः । द्वयोः देवालययोः सङ्गमस्थानं नक्षत्राकारके पञ्चपादपरिमितोन्नते आधारप्राङ्गणे अस्ति । देवालयौ पूर्वाभिमुखौ । पुर्वदिशि द्वारद्वयम् । उत्तरे दक्षिणे च एकैकम् द्वारमस्ति । मध्ये भवनमस्ति नवरङ्गादन्तः गर्भगृहे होय्सळेश्वरशान्तलेश्वरयोः लिङ्गे स्तः । नवरङ्गे सुन्दरशिल्पानि सन्ति । उपरितन शिल्पाच्छादने भुवनेश्वरीचित्राणि सन्ति । स्तम्भेषु भित्तिषु शिल्पानि सन्ति । प्रशान्तं मन्दिरम् अस्ति एतत् । अत्र शिवलिङ्गयोः दर्शनेनैव हि मनसः सन्तोषः भवति । पुरतः नन्दीश्वरौ विराजेते । विशाले उन्नते सुन्दरे मण्डपे नन्दीश्वरौ स्तः ।

ल्क्ष्मीनारायणयोः विग्रहः

अत्र देवालयस्य बहिर्भागे भित्तिषु अनेकस्तराः सन्ति । अष्टपङ्क्तिषु विविधानि शिल्पानि सन्ति । अनेकानि सूक्ष्मसंवेदिचित्राणि अपूर्वाणि शिलासु रूपितानि सन्ति । चित्रपट्टिकासु सिंहपङ्किः गजपङ्क्तिः, लताविन्यासाः, उष्ट्रानां पाड्क्तिः, अश्वानां पाङ्क्तिः , लताः च सन्ति ।

अन्यस्मिन् शिलास्तरे रामायण-महाभारत-भागवत- पुराणादीनां कथाचित्रणं सुन्दरतया उत्कीर्णम् अस्ति । तेषु प्रह्लादः, बलिः, समुद्रमथनं, शिवपुराणकथाः हंसाः देवालयौ परितः सन्ति । एषा पाङ्क्तिः प्रायः ६१० पादपरिमितदीर्घा अस्ति । द्विसहस्रसङ्ख्याकाः गजाः अतीवसुन्दराः सन्ति ।

देवालययोः पृष्ठभागे १६६ स्त्रीविग्रहाः, १०४ पुरुषविग्रहाः च सन्ति । विविधदेवतानां शिल्पानि अपि अत्र सन्ति । स्त्रीशिल्पेषु वस्त्रालङ्कारः, आभूषणानि, केशालङ्कारः च आधुनिकलक्षणयुक्ताः सन्ति । पुरुषाणां शिल्पेषु रथचक्राणि पादरक्षाविन्यासाः च नवीनतया चित्रिताः सन्ति ।

नन्दीमण्डपे अपि अतीव सुन्दरे स्तः । एकः मण्डपः विशालः अस्ति तत्र दशपादपरिमितोन्नतः नन्दीविग्रहः अस्ति । अन्यस्मिन् मण्डपे त्रयोदशपादपरिमितोन्नतः नन्दिविग्रहः अस्ति । तृतीयः देवालयः केदारेश्वरदेवालयः अपि दुःस्थितौ अस्ति । तत्र अष्टशतवर्षपूर्वं निर्मितं दोरसमुद्रतटाकं प्रमुखाकर्षकं स्थानमस्ति । देवालयस्य अन्तर्भागे स्तम्भेषु मदनिकाविग्रहाः सन्ति । महाम्मदीयानाम् आक्रमणानन्तरमपि श्रेष्ठाशिल्पकला मनोनन्दिनी अस्ति । पूर्वं वैभवोपेताः केदारेश्वरदेवालयः वीरभद्रदेवालयश्च भग्नावस्थायां विद्येते ।


सर्वम् इदानीं प्राच्यवस्तुसंशोधनविभागस्य वशे अस्ति । बेलूरुतः समीपे एव एतत् क्षेत्रमस्ति ।

मार्गः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

समीपे हासन, बाणावर निस्थानके स्तः । हासनरेलनिस्थानतः २७ कि.मी । बाणावरतः ३२ कि.मी ।

वाहनमार्गः[सम्पादयतु]

बेङ्गळूरुतः २२४ कि.मी ।
बेलूरुतः १० कि.मी.।
मैसूरुतः १५० कि.मी । हासनतः २७ कि.मी । बेलूरनगरे हळेबीडुनगरे च वसतिः कर्तुं शक्यते ।

Horizontal moldings in Hoysaleshvara Temple at Halebidu.jpg|होय्सळेश्वरदेवालयः


वसतिः[सम्पादयतु]

कर्णाटकसर्वकारवसतिगृहं, होटेलमयूर

वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=हळेबीडु&oldid=264701" इत्यस्माद् पुनः प्राप्तिः