हव्यकब्राह्मणाः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

हव्यकाः ब्राह्मणेषु अन्यतमाः । स्मार्तब्राह्मणपरम्परायाम् आगतस्य कृषिं कुर्वतः लघुविप्रसमूहस्य हव्यकेतिख्यातस्य समाजस्य कर्णाटकम् एव कर्मभूमिः। हव्यं = हवनीयं द्रव्यं कर्म च , कव्यं= पितृदेवतानां प्रियम् अन्नं श्राद्धादिकर्म च । एवं हव्ये कव्ये च निष्णाताः एव हव्यकाः इति कथ्यन्ते । राज्यस्य उत्तरकन्नडदक्षिणकन्नडशिवमोग्गामण्डलेषु कासरगोडुप्रान्ते च इयं जनसन्ततिः अस्ति । किन्तु कालक्रमेण उद्योगान्वेषिभिः सुशिक्षितैः देशविदेशस्य महानगरेषु वासः कृतः ।

हव्यकेतिहासः[सम्पादयतु]

पूर्वं कर्नाटकस्य बनवासिप्रदेशे कृतराज्यभारः कदम्बराजः मयूरवर्मा सप्तगोत्रान् हव्यकान् महाराष्ट्रात् आनीय स्वस्य मन्त्रिपदेषु, ग्रामाधिकारे, स्वराज्ये देवालयेषु अर्चकत्वे, छात्रेषु पाकक्रियार्थं च नियॊजयामास । ये च कृषिकार्येऽपि निष्णाताः आसन्निति कृत्वा तेषां कृते कृष्यर्थं भूमिमपि दत्तवानासीत् । एवं पूर्वं राजाश्रयेण सन्तुष्टाः हव्यकजना अद्यापि स्वस्वकर्मसु निमग्नाः नवनागरिकताप्रवाहे प्राचीनसंस्कृतिं रक्षन्तः स्वदेशे विदेशेषु च विराजन्ते ।

हव्यकमठौ[सम्पादयतु]

शिवमोग्गे विद्यमानस्य होसनगरस्य कारणगिरिसमीपे श्री रामचन्द्रापुरमठः राजते, एवम् उत्तरकन्नडे विद्यमाने शिरसि-उपमण्डले सोन्दाइति प्रदेशे स्वर्णवल्लीमठः शोभते, एतौ द्वावपि हव्यकसमाजस्य प्रमुखमठौ । हव्यकाः अदिशङ्कराचार्यप्रतिपादिताद्वैतसिद्धान्तानुयायिनः । हव्यकसमाजे पूर्वजाः प्रधानतया वैदिककार्ये पूगकृषिकार्ये न निपुणा आसन् । अस्मिन् दशके तु अनेककायक्षेत्रे योजिताः । स्वतन्त्र्यसंग्रामे कर्नाटके हव्यकानां पात्रं महत्त्वपूर्णम् आसीत् । एते लवणसत्याग्रहे तथा असहकारान्दोलनकार्येऽपि भागं गृहीतवन्तः ।

शब्दोत्पत्तिः[सम्पादयतु]

हव्यक इति पदं हवीग (हवीक) अथवा हव्यग पदादागतमिति ऊहां कृतवन्तः । अस्यार्थः वर्तते हव्यकव्य, नाम देवता एवं पितृणांकृते होमहवनादिकार्यकर्तारः इति । पूर्वकालदारभ्य राजकार्ये उत्तमतां प्राप्तुं होमहवनादिकार्यकर्तारः हव्यकाः आसन् । अधुनातन उत्तरकन्नडजिल्ला यत्र वर्तते तस्य प्रदेशस्य प्राचीननाम आसीत् “ हैव” इति । अतः हैग इति पदस्य उपयोगः जातं स्यात् । अधुनातनकालेऽपि हव्यकान् उद्धिश्य “हैगाः” इति वदन्ति । हैगुन्द इति प्रदेशस्य नाम एव ‘हव्यक’ इति कालक्रमेणागतं स्यात् । हव्यकानां वार्तालापस्य भाषायाः नाम एव हव्यककन्नडः । एतत्तु कन्नडस्य उपभाषा ।

हव्यकानां मूलः[सम्पादयतु]

हव्यकानां मूलस्थविषये कुत्राऽपि निरूपितं नास्ति । एते प्रायः ३ शतमाने आगताः ब्राह्मणसमूहः । कन्नडास्य प्रथमराजपरिवारस्थापकः मयूरवर्मा । तस्य राज्यभारसमये ब्राह्मणानाम् अभावात् धर्मिककार्याणाम् आचरणं क्लिष्टतरमासीदिति, अतः सः होमहवनादिकार्यनिर्वहणार्थं केचन हव्यककुटुम्बान् “अहिध्च्रत” इति प्रदेशात् आह्वानं कृत्वा कर्नाटके उषितुं ग्राममपि दत्वा, अत्रैव जीवनं यापयितुम् अवकाशं कल्पितवान् इति केचन संशोधका वदन्ति । अस्य विषयस्य उल्लेखः सागरोपमण्डले विद्यमानस्य वरदहळ्ळि प्रदेशास्य शिलाशासने वर्तते । ते एव हव्यकाः बनवासि इति पदेशे वासं कृत्वा कालान्तरे सर्वत्र प्रसृताः ।

अद्यतनहव्यकाः[सम्पादयतु]

एतेषां जीवनाधाराः प्रारम्भतः कृषिकार्यम् । एते पूगं, नारिकेलं तण्डुलम् इत्यादीन् उत्पाद्य जीवनं यापयन्ति स्म । तथैव अनेके पौरोहित्यमपि वृत्तिरूपेण कुर्वन्ति स्म । अद्याऽपि कृषिं मुख्योध्योगरूपेणा कुर्वन्ति, तथापि अद्यतनदिवसे हव्यकाः विविधकार्यक्षेत्रे भागं गृहीतवन्तः, धार्मिककार्ये हव्यकजनाः शङ्कराचार्याणाम् अद्वैतसिद्धान्तस्य अनुष्ठानार्थं स्वर्णवल्लिमठं तथा रामचन्द्रापुरमठम् आश्रयन्ति ।

जनसंख्या[सम्पादयतु]

विश्वे हव्यकानां जनसंख्या २२,००,०००, इति ऊह्यते ।

उपनाम[सम्पादयतु]

हव्यकसमाजे अधिकतया दृश्यते भट्ट, हेगडे च । उपाध्याय, उपाध्य, हेब्बार्, शास्त्री, शर्मा, भागवत, राव्, पण्डित, सभाहित, जोयस, गांवकर, पुरोहित, पुराणिक, जोशि इत्यादयः । एतानि सर्वाणि अपि नामानि तेषाम् उद्योगान् सामाजिकस्थानानि च द्योतयन्ति । कर्कि, दोड्डेरि, नडहळ्ळि इत्यादयः ग्रामाकारणतः आगतानि नामानि उपनामरूपेण योजितं भवति ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=हव्यकब्राह्मणाः&oldid=283884" इत्यस्माद् पुनः प्राप्तिः