हावेरीमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
हावेरीमण्डलम्
—  मण्डलम्  —
हावेरीमण्डलस्य चौडय्यनपुरे स्त्थितं मुक्तेश्वरमन्दिरम्

कर्णाटकराज्ये हावेरीमण्डलम्

Coordinates: 14°48′N 75°24′E / 14.8°N 75.4°E / 14.8; 75.4Coordinates: 14°48′N 75°24′E / 14.8°N 75.4°E / 14.8; 75.4
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् हावेरीनगरम्
उपमण्डलानि हनगल्, हावेरि, ब्याडगि, हिरेकेरूरु, राणेबेन्नूरु, शिग्गांव, सवणूरु
सर्वकारः
 • Deputy Commissioner आदित्यबिस्वास्
जनसङ्ख्या (2001)
 • Total १४,६७,०००
भाषाः
 • अधिकृतभाषा कन्नडभाषा
भारतीयसामान्यकालमानम् (UTC+5:30)
PIN 581110
दूरवाणिसंज्ञा + 91 (08375)
वाहनपञ्जीकरणम् KA- 27

'हावेरीमण्डलं कर्णाटकराज्यस्य प्रमुखमण्डलेषु अन्यतमं मण्डलम् | हावेरीमण्डलस्य उदयः नूतनतया अभवत् । क्रि.श. १९९७ तमे वर्षे धारवाडमण्डलस्य सप्त उपमण्डलानि पृथक् कृत्वा नूतनमण्डलस्य निर्माणं कृतम् । मण्डलकेन्द्रस्य नाम अपि हावेरी इत्येव अस्ति । कृषिप्रधाने अस्मिन् मण्डले विश्वप्रसिद्धायाः ब्याडगीमरीचिकायाः उत्पादनं भवति।

हावेरीनगरं जिल्लाकेन्द्रम् अस्ति । पूर्वमेतत् नगरं पावारि हावारि इति कथयन्ति स्म । द्वादशशतके निर्मितः पुरसिद्धेश्वरः, सिद्धनाथः अथवा सिद्धेश्वरदेवालयः अत्र अस्ति। देवः स्वयम्भूः । चालुक्यराजानां काले निर्मितः एककूटदेवालयः एषः । जालन्ध्रेषु सुन्दरशिल्पानि सन्ति । हानगलप्रदेशे तारकेश्वरदेवालयः अपि अस्ति । अत्र अनुपमशिल्पानि सन्ति।

अन्तर्विषयाः

विस्तीर्णता [सम्पादयतु]

४६५७ च.कि.मी मिता ।

उपमण्डलानि ७ [सम्पादयतु]

ब्याडगी, हनगल्, हावेरी, हिरेकेरूरु, राणेबेन्नूरु, सवणूरु,शिग्गांव च सप्त उपमण्डलानि सन्ति।

नद्यः [सम्पादयतु]

वरदा, भद्रा ,तुङ्गा, धर्मा, कुमुद्वती

क्षेत्राणि [सम्पादयतु]

हावेरी, कदरमण्दलगि, कर्जगि, होसरिति सवणूरु हानगल्, निळवळ्ळी, रट्टिहळ्ळि, एलगुरु, चिक्केरुरु, कागिनेले, गुत्तल

अबलूरु (हिरेकेरुरु) [सम्पादयतु]

सर्वज्ञकवेः जन्मस्थलम् एतत । कविः वचनकारः एषः दशमशतकीयः । सर्वज्ञः स्वानुभवम् त्रिपदिषु सुन्दरतया वार्णितवान् । तस्य समाजोद्धारकार्यं जीवनानुभवकथनम् द्विसहसवचनेषु द्र्ष्टुं शक्यम् अस्ति । सर्वज्ञः कर्णाटकस्य अपूर्वः कविः। कागिनेले (हिरेकेरुरु)

भक्तः कविः ज्ञानी कनकदासः सर्वविदितः महापुरुषः अस्ति । कागिनेलेक्षेत्रे अदिकेशवदेवालयः विशालः सुन्दरश्च अस्ति । स्तम्भाः सुन्दराः शिल्पान्विताः च सन्ति । कनकदासः ’नळचरित्रे’ ’रामधान्यचरित’ , ’हरिभाक्तिसार’ इति ग्रन्थान् लिखितवान् । अस्मिन् क्षेत्रे तिरुपतौ इव पूजादिकं प्रचलन्ति तिरुपतिं गन्तुम् असमर्थाः अत्रैव स्वधनम् अर्पयन्ति । अस्य क्षेत्रस्य उत्तरकर्णाटकतिरुपतिः इति च कथयन्ति । देवालयस्य आवरणे श्रीलक्ष्मीनरसिंहः, मारुतिः. सरस्वती च सन्ति ।

मार्गः -हावेरीतः २६ कि.मी
ब्याडगितः २५ कि.मी
बेङ्गलूरुतः ३२३ कि.मी

दर्शानीयानि स्थानानि [सम्पादयतु]

राणेबेन्नूरुनगरस्य वन्यप्राणिधाम, कृष्णमृगानाम् अभयराण्यम् , पुरसिद्धेश्वरदेवस्थानं, श्रीहुक्केरीमठः, अबलूरु(सर्वज्ञस्य जन्मस्थानम्) , कागिनेले (कनकदासस्य जन्मस्थानम्), हावनूरु द्यामव्वमन्दिरम्, देवरगुड्ड, गङ्गीभावि, भैरनपाद, श्रीक्षेत्रगुड्डदमल्लापूर, श्री मूकप्पस्वामि श्रीहुच्चेश्वरमहस्वमिनां सन्निध्यम् च अत्र दर्शनीयानि स्थानानि ।

प्रसिद्धाः व्यक्तयः [सम्पादयतु]

सर्वज्ञः, कनकदासः, सु.रम्.एक्कुण्डि, गुद्लप्प हळ्ळिकेरी, गळगनाथः, मैलर महदेवप्प,रमानन्द मन्नङ्गि, जङ्गनकोप्प च अत्र जाताः महाजनाः ।