हासनमण्डलम्
| हासनमण्डलम् ಹಾಸನ |
|
|---|---|
| — मण्डलम् — | |
|
कर्णाटकराज्ये हासनमण्डलम् |
|
| राष्ट्रम् | |
| राज्यम् | कर्णाटकराज्यम् |
| केन्द्रम् | हासननगरम् |
| उपम्ण्डलानि | हासन, होलेनरसीपुरम्, अरकलगूडु, चन्नरायपट्टणाम्, सकलेशपुरम्, बेलुरु,आलूरु, अरसीकेरे |
| सर्वकारः | |
| • MP | एच्. डी. देवेगौडः |
| भारतीयसाअमन्यकालमानम् (UTC+5:30) | |
| PIN | 573201 |
| दूरवाणिसंज्ञा | 08172 |
| वाहनपञ्जीकरणम् | KA-13/KA-46 |
| जालस्थानम् | www.hassan.nic.in |
कर्णाटकस्य दक्षिणभागे विद्यमानं किञ्चन मण्डलम्। एतस्य मण्डलस्य केन्द्रं हासननगरम् ।
अद्यतनकर्णाटकराज्यस्य अष्टममण्डलरुपेण हासनमण्डलम् अस्तित्वे आगतम्। निसर्गसौन्दर्यकारणात् दरिद्राणाम् ‘ऊटी’ इत्यपि नाम प्राप्तम् अस्ति । शिल्पकलासौन्दर्यस्यपि आश्रयः इति कारणतः अनेक देशविदेशयोः यात्रिजनाः अत्रत्यानि देवस्थानानि द्रष्टुम् आगच्छन्ति ।कर्णाटकराज्यस्य सुसमृद्धमण्डलेषु एतत् अन्यतमम् अस्ति । अस्य मण्डलस्य पूर्वतनं नाम सिंहासनपुरी इति आसीत् । अत्र हासनाम्बा इति देवीमन्दिरम् अस्ति । एवं कालक्रमेण हासन इति नाम प्राप्तम् । मण्डलस्य तथा मण्डलकेन्द्रस्य च नाम हासन इति अस्ति ।
अन्तर्विषयाः |
स्थानम् [सम्पादयतु]
हासनमण्डलम् ईशान्यभागे तुमकूरुमण्डलेन, आग्नेयभागे मण्ड्यमण्डलेन, दक्षिणे मैसूरुमण्डलेन नैरुत्यभागे कोडगुप्रदेशेन, पश्चिमभागे दक्षिणकन्नडमण्डलेन पश्चिमे चिक्कमगळूरुमण्डलेन च परिवृत्तम् अस्ति । बेङ्गलूरुतः २२२ कि.मी
विस्तीर्णता [सम्पादयतु]
६८१४ च.कि.मी मिता ।
उपमण्डलानि [सम्पादयतु]
हासन, अरसीकेरे, चन्नरायपट्टणं, होळेनरसीपुरम्, अरकलगूडु बेलूरु हळेबीडु आलूरु च।
नद्यः [सम्पादयतु]
इतिहासः [सम्पादयतु]
हासनमण्डलस्य इतिहासः क्रि.श. पञ्चमशतकात् आरब्धः इति ज्ञायते । कन्नडभाषया लिखितः प्रथमशिलाशासनलेखः हल्मिडि एव अस्य आधारः । एकादशे शतके होय्सळसाम्राज्यम् अस्मिन् एव मण्डले निर्मितम् । एकादशशतकात् १४शतकपर्यन्तं शासनं कृतवतां होय्सळानां राजधानी द्वारस्मुद्रः आसीत् । ईदानीम् अपि अस्मिन् मण्डले स्थिते हळेबीडु-प्रदेशे साक्षीभूतान् अवशेषान् पश्यामः । होय्सळराजाः आरम्भे जैनमतावलम्बिनः आसन् । होय्सळनृपाः मण्डलेऽस्मिन् शिवविष्णुदेवालयान् निर्मितवन्तः । अतः ते हैन्दवधर्मप्रोत्साहिनः आसन् इति ज्ञायते । हासनमण्डलस्य हल्मिडि इति ग्रामे एव लब्धः कन्नडस्य सर्वप्रथमशिलाशासनलेखः हल्मिडिशासनम् इत्येव ख्यातः । अस्य मण्डलस्य श्रवणबेळगोळ इति प्रदेशे अत्यधिकतया शिलालेखाः प्राप्ताः सन्ति।
भौगोलिकता [सम्पादयतु]
हासनमण्डले भौगोलिकतया भिन्नं भागद्वयम् अस्ति । एकः मलेनाडु (पर्वतप्रदेशः) इति पश्चिमाद्रिप्रदेशः, अपरः बयलुसीमे इति दक्षिणकर्णाटकस्य सानुप्रदेशः । अस्य मण्डलस्य प्रमुखा जीवस्रोता हेमावतीनदी अस्ति । अग्रे प्रवहन्ती सा कावेरीनद्या सङ्गच्छति । मलेनाडुप्रदेशः निबिडारण्येन परिवृत्तः, बयलुसीमेप्रदेशः रक्तमृत्तिकया युक्तः सस्यसमृद्धः च अस्ति ।
कृषिः [सम्पादयतु]
काफी अत्र अधिकतया संवर्ध्यमानं सस्यम् । प्रथमकाफीवाटिका अत्र क्रि.श. १८४२तमे वर्षे निर्मिता आसीत् ।
उपमण्डलानि [सम्पादयतु]
हासन मण्डलं प्रशासनानुकूलार्थं ८ उपमण्डलैः विभक्तम् । यथा- हासन, अरसीकेरे, चन्नरायपट्टण, अरकलगूडु, बेलूरु, सकलेशपुर, आलूरु इति ।
प्रेक्षणीयस्थानानि [सम्पादयतु]
बेलूरु, हळेबीडु श्रवणबेळगोळ, हासन, अरसीकेरे, दोड्डुगद्धवल्लि, मोसळे कोरमंगल, गोरुरु रामनाथपुरं हासन, अरसीकेरे, दोड्डुगद्धवल्लि, मोसळे कोरमंगल, गोरुरु रामनाथपुर, भारतीयम् अन्तरिक्षसंशोधन केन्द्रम् (इसरो), यळ्ळेशपुर, बेलूरु, श्रीरामदेवरकट्टे, हिरेकडलूरु, जेनुकल्लु सिद्धेश्वरस्वामी, हारनहळ्ळिसमीपे नागेनहळ्ळि ग्रामे महदेश्वरस्वामी, श्रीरामलिङ्गस्वामी मन्दिरे च प्रसिद्धानि दर्शनीयक्षेत्राणि सन्ति ।
१) रामनाथपुरम् [सम्पादयतु]
एतत् द्वितीयम् रामेश्वरं वासवापुरं रामेश्वरपुरम् इत्यपि प्रख्यातं क्षेत्रम् अस्ति । पुराणानुसारम् शिवः पार्वतीसहितः अत्र स्थितवान् प्रदेशे इति विश्वासः अस्ति । हनुमता आनीतस्य शिवलिङ्गस्य प्रसन्नरामेश्वरः इति नाम अस्ति । एषः देवालयः अपूर्वशिल्पकलया पूर्णः अस्ति । अग्निपुष्करिणी अत्र प्रसिद्धम् सरः । अगस्त्येश्वरदेवालयोऽपि अत्र प्रसिद्धः अस्ति । अत्रत्यः शिवलिङ्गः चतुर्युगमूर्तिः इति प्रख्यातः। लक्ष्मेश्वर-लिङ्गदेश्वर नाम लिङ्गौ अत्र स्तः । कावेरीनद्यां गायत्री शिला अस्ति। अत्र एकं गायत्रीजपं करोति चेत तस्य द्वादशसहस्रप्रमाणकम् अधिकं फलं विन्दति इति विश्वासः अस्ति ।नद्यां गोगर्भम् इति स्थलमस्ति । मेनकशिला रुद्रपादः, हनूमन्तनगोवु यमतीर्थम् इति अन्यानि क्षेत्राणि सन्ति । अस्मिन् क्षेत्रे स्थितम् अन्यदेकम् पुण्यस्थलं नाम पट्टाभिरामदेवालयः । अत्र पट्टाभिषिक्तः श्रीरामः स्वाङ्के सीतादेवीं प्रतिष्ठाप्य अपूर्वभङ्गौ विराजमानः अस्ति । प्रसन्नसुब्रह्मण्येश्वरदेवालयः अन्यदेकं पवित्रस्थानमस्ति रामनाथपुरे। एषः प्रदेशः प्रशान्तः सुन्दरः च अस्ति । प्रकृतिप्रियानां अत्रत्यं नदीपात्रं स्वच्छन्दं विहारे मग्नानि मीनसमूहानि सन्तोषं जनयन्ति ।
- मार्गः अरकलगूडुतः २९ कि.मी
- सालिग्रामतः ३० कि.मी
- बेङ्गलूरुतः १९० कि.मी
हासनतः ४८ कि.मी हासन, होळेनरसीपुरपर्यन्तम् रेलयानम् अस्ति । ततः बसयानम् अस्ति।
- वसतिः -सुब्रह्मण्यमठम् दूरभाषा - ०८२५२-५९०२३
२)माविनकेरे -(होळेनरसीपुरम्) [सम्पादयतु]
एतत् पुरातनं क्षेत्रमस्ति । अत्रत्यम् लक्ष्मीरङ्नाथदेवालयम् गन्तुम् सोपानानि सन्ति । वाहनमार्गः अपि अस्ति । अनेन सुलभतया गन्तुं शक्यम् । मैसूरु-हासनरेलमार्गे होळेनरसीपुर- निस्थानम् अस्ति । बसयानेन गमनसमये हळेकोटे निस्थानकेन गन्तुं शक्यम् अस्ति ।
३)श्रवणबेळगोळ [सम्पादयतु]
श्रवणबेळगोळ प्रन्तीयभाषया बिळियकोळ बेळगोळ इति प्रसिद्धम्। श्रमण नाम संन्यासी । पूवम् अत्र शतशः जैनसन्यासिनः आसन् अतः एव एतन्नाम स्यात् । अस्य क्षेत्रस्य देवरबेळगोळ श्वेतबेळगोळ गोम्मटपुरम् इति च नामानि सन्ति । श्रवणबेळगोळक्षेत्रे पर्वतद्वयम् अस्ति । लघुपर्वतः चन्द्रगिरिः, बृहत्पर्वतः इन्द्रगिरिः द्वयोरपि जैनमन्दिराणि गुहाः दुर्गं शिला- शासनानि च सन्ति ।चन्द्रगिरेः प्रमुखाकर्षणं जिनालयेषु अत्यन्तं सुन्दरं चावुण्डरायबसदि इति । अत्र श्रीनेमिनाथस्य पञ्चपादपरिमितोन्नतः विग्रहः शिल्पकलादृष्टया च अतिसुन्दरः अस्ति ।
इन्द्रगिरिः पवित्रतया यात्रिजनान् आकर्षति । उपरि गन्तुम् ६५० सोपानानि सन्ति । मार्गे जारुबण्डेदेवालयः ओदगलबसदि त्यागदकम् च दर्शनयोग्यानि। अग्रे गत्वा महाद्वारम् प्रविश्य गोमटेश्वरस्य दर्शनं प्राप्तुं शक्यते । गोमटेश्वरस्य प्रतिमा ५८ पादपरिमिता अस्ति । गङ्भीरा नग्नमूर्तिः क्रिस्ताब्दे ९८१-९८२ तमे वर्षे गङ्गराजस्य राचमल्लस्य सेनानी चावुण्डरायः निर्माणं कारितवानिति इतिहासः। अस्याः मूर्तेः कलात्मकता विश्वे कुत्रापि नास्ति ।गोम्मटेश्वरमूर्तेः द्वादशवर्षेषु एकवारं महामस्तकाभिषेकः प्रचलति । तदा दर्शकानाम् आनन्दानुभवः रोमाञ्चनकारी अनुभवः भक्तिभावोद्रेकः च भवति।
- मार्गः -बेङ्गळूरुतः १५७. कि.मी.
- चेन्नरायपट्ट्णतः १२ कि.मी.
- हासनतः ५१ कि.मी.
- मैसूरुतः ६४ कि.मी.
स्वाकीयं वाहनम् अस्ति चेत् अनुकूल्यम् अधिकम् ।
- वसतिः- जैनमठं, यात्रीनिवासः
४)बेलूरु [सम्पादयतु]
एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धम् अस्ति । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशव देवालयः अनुपमः बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५*३९६ पादपरिमितः अस्ति । महाराजः विष्णुवर्धनः अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः । अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति। अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम्। अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।
देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव ”’चेन्नकेशव”’ इत्यपि कथयन्ति । मूर्तेः भावः स्री इव अस्ति। मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति । देवालयस्य बाहयशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । यगचिनदीतीरे एषः सुन्दरदेवालयः विराजते ।
- मार्गः -समीपे मङ्गलूरु, बेङ्गलूरु विमानस्थानके स्थः।
रेलयानेन हासननिस्थानकं समीपेऽस्ति ।
- वाहनमार्गः हासनतः ४० कि.मी । बेङ्गलूरुतः २२२ कि.मी मङ्गलूरुतः १२४ कि.मी । मैसूरतः १४९ कि.मी
- होसपेटेतः ३३० कि.मी । हळेबीडुतः १६ कि.मी
- वसतिः -होटेलवेलापुरी, श्रीराघवेन्द्र टूरिस्टहोम्
५)हळेबीडु [सम्पादयतु]
होय्सलराजानां राजधानी आदौ सोसेवूरु इति नाम आसीत् । ततः द्वारावती द्वारसमुद्रं हळेबीडु इति नाम प्राप्तमस्ति । एकादशशतकतः १४ शतकपर्यन्तं होय्सळानां राजधानी एषा नगरी वैभवेण दुर्गराजगृहादिभिः पूर्णा आसीत्। होय्सळेश्वरदेवालयः महोन्नतः द्विकूटदेवालयः अस्ति । नक्षत्राकारे आधाराङ्णे पूर्वाभिमुखम् अयं देवालयः शिलया निर्मितः अस्ति ।
विस्तृते अङ्गणे मण्डपद्वयम् अस्ति । तत्र नन्दीशस्य बृहत् विग्रहः लघुनन्दीविग्रहश्च स्तः । एकः होय्सळेश्वरः अपरः शान्तलेश्वरः । बाह्यावरणे विविधस्तरेषु प्राकारेषु निर्मितेषु- शिल्पेषु रामायणमहाभारतयोः कथानां विविधसन्निवेशानां चित्रणं कृतम् अस्ति। विविधशिलास्तरेषु गजानां सिंहानां अश्वानाम् उष्ट्राणां, लतानां च शिल्पाणि सन्ति । न केवलं तावत् भागवतकथाः शिवपुराणकथाः मकराणां हंसानां पङ्क्तयः अपि विराजन्ते । देवालयस्य अन्तर्भागे स्तम्भेषु मदनिकाविग्रहाः सन्ति । महाम्मदीयानाम् आक्रमणानन्तरमपि श्रेष्ठाशिल्पकला मनोनन्दिनी अस्ति । पूर्वं वैभवोपेताः केदारेश्वरदेवालयः वीरभद्रदेवालयश्च भग्नावस्थायां विद्येते ।
- मार्गः -हासनरेलनिस्थानतः २७ कि.मी
- बाणावरतः ३२ कि.मी
- लोकयानम् -बेलूरुतः २६ कि.मी
- मैसूरुतः २५० कि.मी
- बेङ्गळूरुतः २१४ कि.मी.
- वसतिः -कर्णाटकसर्वकारवसतिगृहम्, होटेलमयूर
बाह्यसम्पर्कतन्तुः [सम्पादयतु]
- bright channarayapatna
- Hassan History
- History of Shravanabelagola
- History of Karnataka, Arthikaje
- hoysalatourism
- Census India
- Protected Monuments of Hassan
- Some pictures of Bisle area of Hassan district