हिङ्गोलादेवी (कराची)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



हिङ्गोलादेवी ( कराची )

पाकिस्तानस्य कराचीमण्डले कराचीतः २५० की.मी.दूरे हिङ्ग्लाज् देवालयः एव शक्तिपीठम् अस्ति ।

सम्पर्कः[सम्पादयतु]

कराची-क्वेट्टाराष्ट्रियमार्गे झीरोपायिण्ट् स्थानतः पश्चिमदिशि ल्यारिनगरस्य 'आशापुर सरि’ इत्यत्र विराजमानः अस्ति एषः देवालयः । अस्मिन् मार्गे प्राचीना काचित् ज्वालामुखी अस्ति । अतः समीपे विद्यमानेन पङ्कमयमार्गेण गमनं कष्टकरम् ।

वैशिष्ट्यम्[सम्पादयतु]

एषः देवालयः कस्याञ्चित् नैसर्गिकगुहायाम् अस्ति । एतां देवीं हिन्दवः मुसल्मानाः च पूजयन्ति । मुसल्मानाः बीबी नानी इति नाम्ना आराधयन्ति । अत्रत्यसरसः सर्वदा बुद्बुद्बुदाः उत्पद्यन्ते । अस्मिन् स्थाने देव्याः ब्रह्मरन्ध्रम् अथवा मस्तिष्कं पतितम् ऐतिह्यम् अस्ति । अत्रत्या सतीदेवी कोट्टारी इति पूज्यते । अत्रत्यः शिवः भीमलोचननाम्ना पूज्यते । एतस्य स्थानस्य विषये स्थलपुराणम् एकं प्रसिद्धम् अस्ति ।

स्थलपुराणम्[सम्पादयतु]

बहुपूर्वम् अन्धकासुरस्य पीडनं सोढुम् अशक्ताः देवाः शिवं प्रार्थयन्ति । शिवः तान् पार्वत्याः समीपे प्रेषयति । अन्धकासुरः देवान् तिरस्कारदृष्ट्या पश्यति स्म । कदाचित् सः मन्दारगिरिम् आगतवान् । तत्र तेन पार्वती दृष्टा । तस्याम् अनुरक्तः सः ताम् आनेतुं स्वस्य सैन्यं मन्दारगिरिं प्रेषितवान् । तदा शिवः 'अवश्यं चेत् पार्वतीं नयतु । मन्दारगिरिं त्यजतु’ इति सूचितवान् । शिवस्य अभिलाषाम् अवगतवती पार्वती 'शिवं पराजित्य एव मां नयतु’ इति अन्धकासुरस्य निर्बन्धं कृतवती । अन्धकासुरेण सह शिवस्य युद्धम् आरब्धम् । शिवद्वारा एव अन्धकसुरेण विशिष्टाशक्तिः वरदानरूपेण प्राप्ता आसीत् । तस्य शरीरात् पतितात् एकैकरक्तबिन्दोः अपि एकैकः अन्धकासुरः उत्पद्यते स्म । अन्धकासुरेण सह युद्धं कृत्वा शिवः श्रान्तः। श्रान्तस्य तस्य ललाटात् कश्चन स्वेदबिन्दुः पतितः । ततः मङ्गला चर्चिका नामिके द्वे देवते उद्भूते । ते द्वे अन्धकासुरस्य सहस्रशः रूपाणि निगीर्णवत्यौ । ततः शिवः तृतीयनेत्रम् उद्घाट्य अन्धकासुरं द्ग्धवा संहृतवान् । अनन्तरम् आदिशक्तिरूपेण मानवानां पूजां स्वीकर्तुं चर्चिकां वरेण अनुगृहीतवान्। मङ्गलायै नवग्रहेषु स्थानं कल्पितवान्। एवं चर्चिकायाः स्थानम् एव इदानीन्तनं हिङ्ग्लाज्। हिङ्ग्लाजपदस्य स्थानीयभाषया अर्थः एवम् अस्ति-रक्तवर्णः अथवा रक्तसिन्धूरम् । अपरा काचित् त्रेतायुगीया कथा एवम् अस्ति । कस्यचित् चन्द्रवंशस्य राज्ञः द्वौ पुत्रौ हिङ्गोलः सुन्दरः च । एतौ प्रजापीडकौ आस्ताम् । दुःखिताः प्रजाः शिवंप्रार्थितवत्यः । शिवः गणेशं सम्प्रेष्य सुन्दरस्य मारणं कारितवान् । एतेन कुपितः हिङ्गोलः शिवम् उद्दिश्य तपः आचरितवान् । यदा शिवः प्रत्यक्षः अभवत् तदा हिङ्गोलः 'आयुधेन वा मनुष्यैः वा प्राणिभिः वा मरणं न स्यात्’ इति वरम् अपेक्षितवान् । तदा 'तथास्तु’ इत्युक्त्वा शिवः 'किन्तु सूर्यस्य प्रकाशः यत्र न पतति तत्र एतत् वरं फलितं न भवति’ इति असूचयत् । हिङ्गोलः अङ्गीकृतवान् । परितः विद्यामानानि राज्यानि जित्वा सोऽपि प्रजापीडकः अभवत् । तदा देवी उपायेन तं गुहाम् आगन्तुं सूचितवती । यदा हिङ्गोलः तत्र आगतवान् तदा देवी त्रिशूलधारिणी सती तत्र स्थितवती आसीत् । शिवस्य वरदानं निष्प्रयोजकम् इति अवगत्य हिङ्गोलः देव्याः शरणं गतः । एतत् स्थानं मम नाम्ना प्रसिद्धं भवतु इति प्रार्थितवान्। देवी तत् स्थानं हिङ्गोलतीर्थम् इति प्रसिद्धं भवतु इति अनुगृहीतवती ।

"https://sa.wikipedia.org/w/index.php?title=हिङ्गोलादेवी_(कराची)&oldid=406545" इत्यस्माद् प्रतिप्राप्तम्