हितोपदेशः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
हितोपदेशः व्यावहारिक-नैतिक-राजनैतिकज्ञानेः पूर्णः लघुकथानां हृदयग्राही सङ्ग्रह अस्ति। सुकुमार
हितोपदेशः पञ्चतन्त्रस्य परिष्कृता काचित् आवृत्तिः चेदपि स्वतन्त्रग्रन्थत्वेन एव तस्य ख्यातिः अस्ति। तस्य हितोपदेशस्य रचयिता नारायणभट्टः (नारायणपण्डितः)। एषः वङ्गदेशीयः। एषः धवलचन्द्र्स्य आश्रये आसीत्। एतस्य् कालः क्रि श १० इति पण्डिताः अभिप्रयन्ति। यद्यपि पञ्चतन्त्रस्य आधारेण एषः ग्रन्थः रचितः, तथापि अन्यग्रन्थेभ्यः अपि अत्र कथाः स्वीकृताः। महाभारतात् स्वीकृता मुनिमूषककथा, वेतालपञ्चविंशतितः स्वीकृता वीरवरकथा इत्यादीनि अत्र उदाहरणानि। हितोपदेशस्य भाषा अतीव सरला। संस्कृतभाषाबोधनं नीतिबोधनं च एतस्य लक्ष्यम् इति कविः स्वयम् उक्तवान् अस्ति। संस्कृताभ्यासिनः सर्वे प्रायः एतं ग्रन्थं पठन्ति एव।
ग्रन्थोऽयं कथादृष्ट्या चतुर्षु भागेषु विभक्तोऽस्ति। यथा -
- मित्रलाभः
- सुहृद्भेदः
- विग्रहः
- सन्धिः