गोपालस्वामिपर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हिमवद्गोपालस्वामिपर्वतः इत्यस्मात् पुनर्निर्दिष्टम्)
हिमवद्गोपालस्वामिमन्दिरम्
हिमवद्गोपालस्वामिपर्वतदेवालयः

गोपालस्वामिपर्वतः (Himavad Gopalaswamy Betta)कर्णाटकराज्यस्य चामराजनगरमण्डले गुण्ड्ळुपेटे उपमण्डले विद्यते । मैसूरुनगरतः दक्षिभागे ऊटिगमनमार्गे सामान्यतः ८०कि.मी. दूरे प्रकृततिरमणीयः हिमवद्गोपालस्वामिपर्वतः शोभते । समुद्रतटात् १४५४ मीटरमितोन्नते पर्वतमस्तके श्रीकृष्णस्य देवालयः अस्ति । अयं पर्वतः धेनुः इव अस्ति इति अस्य गोवर्धनगिरिः इति नाम अपि अस्ति । कमलाचलः कामाद्रिः कञ्जगिरि इत्येतानि अन्यानि नामानि सन्ति । वास्तविकरूपेण गोपालस्वामिदेवालयः क्रिस्ताब्दे १३२५ तमे वर्षे श्रीमता माधवगायकवाडमहोदयेन निर्मितः। एतस्य देवालयस्य ७०० वर्षाणाम् इतिहासः अस्ति । दिनस्य २४ घण्टासु अयं पर्वतः हिमावृतः भवति इति अस्य हिमवद् गोपालस्वामिपर्वतः इत्यपि नाम अस्ति । अस्योन्नतिः १४५४ मीटरमिता । पर्वतशिखरात् परितः दर्शनम् असदृशम् अस्ति । अयं प्रदेशः राष्ट्रियोद्यानव्याप्तौ अस्ति इति कारणात् सर्वत्र सञ्चरः निषिद्धः ।

पर्वते सुन्दरः परिसरः

पर्वतगमनाय मार्गः अस्ति किन्तु सः वक्रः दुर्गमः च अस्ति । गोपालपुरतः कुनगनहळ्ळीतः हङ्गळ्ग्रामतः पादचारणेनापि पर्वतारोहणं कर्तुं शक्यम् अस्ति । सः मार्गः केरलराज्यस्य वैनाड-अरण्यस्य दर्शनं कारयति ।

हिमवद्गोपालस्वामिपर्वतमस्तकम्

अत्रत्यः आराध्यदेवता श्रीगोपालस्वामी । एतस्य देवस्य सन्तानगोपालस्वामी इत्यपि नाम अस्ति । स्वामी रुक्मिणीसत्यभामाभ्यां सह अत्र निवसति । महर्षिः अगस्त्यः एतस्य मन्दिरस्य प्रतिष्ठापनं कृतवान् इति ज्ञायते । एतं देवालयं परितः अष्टतीर्थानि सन्ति । ७७ सरांसि अपि सन्ति । तेषु अन्यतमे हंसतीर्थे काकाः स्नानं कृत्वा गतवन्तः इति पुराणानि वदन्ति । एषः प्रदेशः सुन्दरं गिरिधाम अपि । यात्रिकाणां प्रवासप्रियाणां च अतीव प्रियं स्थानं भवति ।

मार्गसूची[सम्पादयतु]

मैसूरुतः ७५ कि.मी. । चामराजनगररेलनिस्थानकं समीपे भवति ।
सम्पर्काय जङ्गमदूरभाषा -९४४८५४३३६१ , ९३४२३६४२०४, दूरभाषा -०८२२१-३२३०९१, २११८३२

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोपालस्वामिपर्वतः&oldid=360967" इत्यस्माद् प्रतिप्राप्तम्