हुब्बळ्ळी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

हुब्बळ्ळी (Hubballi) (कन्नड: ಹುಬ್ಬಳ್ಳಿ) -कर्णाटकराज्ये धारवाडमण्डले विद्यमानं प्रमुखं नगरम् एतत् । प्रसिद्धः श्री सिद्धरूढस्वामिमठः मूरुसाविरमठः, मुरुघामठः, नृपतुङ्गबेट्ट, श्रीसाईबाबामन्दिरं, केदारलिङ्गज्योतिनां मन्दिरं, वरुरुप्रदेशे (१६ कि.मी) जैनानां नवग्रहतीर्थक्षेत्रं, भवानीशङ्करदेवालयः (२९ कि.मी दूरे ) दर्शनीयानि सन्ति । शिवरात्रिसमये सिद्धारूढमठे उत्सवः प्रचलति । अत्र श्री सिद्धारूढस्वामिनः स्मारकम् अस्ति । हुब्बळ्ळीतः ३५ कि.मी दूरे अण्णिगेरे स्थले श्री अमृतेश्वरदेवालयः अस्ति । शिलादेवालये ७६ स्तम्भाः सन्ति । प्राकारे देवानां पौराणिकविषयानां च चित्रणम् अस्ति । होय्सल-चालुक्य-विजयनगर -आदिलषाहीशासनम् अत्र आसीत्।

"http://sa.wikipedia.org/w/index.php?title=हुब्बळ्ळी&oldid=237294" इत्यस्माद् उद्धृतम्