हुम्नाबाद्
| हुम्नाबाद् ಹುಮ್ನಾಬಾದ್ |
|||
|---|---|---|---|
| — नगरम् — | |||
|
Location in Karnataka, India |
|||
| Coordinates: 17°46′N 77°08′E / 17.77°N 77.13°ECoordinates: 17°46′N 77°08′E / 17.77°N 77.13°E | |||
| देशः | |||
| राज्यम् | कर्णाटकम् | ||
| मण्डलम् | बीदर | ||
| सर्वकारः | |||
| • अङ्गः | Humnabad Town Municipal Council | ||
| विस्तीर्णम् | |||
| • Total | १८ Square km (६.९ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2001) | |||
| • Total | ३६,५११ | ||
| भाषाः | |||
| • अधिकृताः | कन्नड | ||
| IST (UTC+5:30) | |||
| Civic agency | Humnabad Town Municipal Council | ||
कर्णाटके किञ्चन प्रमुखं मण्डलम् अस्ति बीदरमण्डलम् । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति हुम्नाबाद्। अस्य केन्द्रम् अपि हुम्नाबाद् एव । राष्ट्रियराजमार्गसङ्ख्ज्या ९ तथा राज्यराजमार्गसङ्ख्या २१८ एतत् नगरं सम्पर्कयतः । हुम्नाबाद् उपमण्डलं वीरभद्रेश्वरमन्दिरद्वारा तथा माणिकनगरकारणतः प्रसिद्धम् अस्ति । प्रसिद्धौ राजकारणिनौ रामचन्द्रवीरप्पः, बसवराजपाटीलः च अत्रत्यौ ।
भौगोलिकता[सम्पादयतु]
अस्य नगरस्य निर्देशाङ्कौ १७.७७° उ ७७.१३°पू.[1] । समुद्रस्तरतः ६३८मीटरोन्नते स्थाने (२०९३फीट्) अस्ति । इतः सामान्यतः ४०कि.मीयावत् गमनेन पूर्वभागे आन्ध्रप्रदेशः, पश्चिमभागे महाराष्ट्रं च प्राप्यते ।
इतरविवरणानि[सम्पादयतु]
२००१तमवर्षस्य जनगणनानुसारम् एतस्य नगरस्य जनसङ्ख्या ३६,५११। एतेषु ५२% पुरुषाः, ४८% महिलाः । साक्षरता प्रमाणं ६४%(राष्ट्रियसाक्षरताप्रमाणस्य ५९.५% अपेक्षया अधिकम्) अस्ति । पुरुषाणां साक्षरताप्रमाणं ७१% , महिलानां च ५५% । १६% साक्षराः ऊनषड्वर्षियाः। कन्नड तथा उर्दु भाषे व्यापकतया व्यवहारे स्तः । तेलुगुभाषा, मराठीभाषा च अल्पप्रमाणेन व्यवहारे स्तः ।