हैदराबादनगरमण्डलम्, भारतम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(हैदराबाद् इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
हैदराबाद्
City of Pearls
—  महानगरम्  —
हैदराबाद्
भारते हैदराबाद्नगरम्
निर्देशाङ्काः

17°21′58″N 78°28′34″E / 17.366°N 78.476°E / 17.366; 78.476

देशः भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
स्थापनम् 1591 AD
Mayor
City Police Commissioner अब्दुल् खायुम् खान्
जनसङ्ख्या

महानगरम्

 (4th) (2011)

 (6th) (2011)

व्यावहारिकभाषा(ः) तेलुगुभाषा, उर्दुभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

औन्नत्यम्
• तीरप्रदेशः


५३६ metres ( ft)
० kilometres (0 mi)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Aw (कॊप्पेन्)

     ६०३ mm (. in)
     २६.० °C (. °F)
     ३५.९ °C (. °F)
     २ °C ( °F)

जालस्थानम् www.ghmc.gov.in

हैदराबाद् मण्डलम् आन्ध्रप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हैदराबाद्नगरम् ।

अन्तर्विषयाः

इतिहासः [सम्पादयतु]

१५९१ तमे वर्षे कुलीकुतुब् षा इत्याख्येन राज्ञा स्वसख्याः भागमत्याः स्मृत्यर्थं हैदराबाद् नाम नगरं निर्मितवान् । शातवाहनैः, चालुक्यैः, काकतीयैः बहमनीसुल्तानजनैः च पालितमिदं मण्डलम् । औरङ्गजेबः इदं प्रान्तं १६८७ तमे वर्षे अजयत् । असब्जाहीवंशजाः १७२४ वर्षतः पर्यपालयन् इदं हैदराबादनगरम् । १८०३ तमे वर्षे सिकिन्दर्जा इत्यस्य पालने सिकिन्द्राबाद् नगरं निर्मितम् । निजांनवाबजनाः १९४८ तमवर्षपर्यन्तं प्रान्तमिदम् अपालयन् । १९४८ तमे वर्षे इदं भारतदेशे विलीनं जातम् । १९५६ तमे वर्षे सीमान्ध्रप्रान्तैः संयोज्य आन्ध्रप्रदेशराज्यं च आविष्कृत्य तस्य राजधानीत्वेन भाग्यनगरम् उद्घोषितम् ।

भौगोलिकम् [सम्पादयतु]

अस्य प्राच्यां नल्गोण्ड-मण्डलम्, पश्चिमे कर्णाटकराज्यम्, उत्तरे मेदक्-मण्डलम्, दक्षिणे च महबूबनगर मण्डलं वर्तन्ते । अत्र जनानाम् उपाधिः व्यवसायेतरक्षेत्रेषु लभ्यते ।

वाणिज्यम् [सम्पादयतु]

भाग्यनगरपरिसरेषु केन्द्र-राज्यसर्वकारीयाणां स्वायत्तीयसंस्थानां कर्मागाराणि स्थापितानि ।मादापूर्-समीपे L&T, मौक्रोसाफट्, I.B.M., गूगुल् इत्यादयः स्वीयसङ्गणकान्तर्गतकेन्द्राणि प्रास्थापयन् । मण्डलेस्मिन् उस्मानिया-विश्वविद्यालयः, केन्द्रीय-विश्वविद्यालयः, पोट्टिश्रीरामुलू-तेलुगु- विश्वविद्यालयः, अम्बेडकर-दूरविद्या-विश्वविद्यालयश्च वर्तन्ते । मूसी, मञ्जीरा, होल्दिया इत्याद्युपनदीनां द्वारा पेयजलम् उपलभ्यम् ।

वीक्षणीयस्थलानि [सम्पादयतु]

चार्मिनार्, सालार् जङ्ग वस्तुसङ्ग्रहालयः, शासनसभा, हुस्सेनसागरस्थः बुद्धविग्रहः, इन्दिरा- उद्यानानि, गोल्कोण्डदुर्गम्, सार्वजनिक-उद्यानानि, नेहरुमृगालयः, बिर्लामन्दिरम्, अन्तरिक्षशाला, रवीन्द्रभारती, रामोजी-फिल्म्-सिटी इत्यादीनि दर्शनीयस्थलानि बहूनि विद्यन्ते । विभिन्नमतानां, संस्कृतीनां च सङ्गमक्षेत्रमिदं मण्डलं भारतदेशे तथा विश्वस्तरे च विशिष्टस्थानं प्राप्नोति ।

नेहरुमृगालयः [सम्पादयतु]

हैदराबाद् आन्ध्रप्रदेशराज्यस्य राजधानी अस्ति ।अत्र नेहरुमृगालयः अपूर्वः अस्ति । १२० हेक्टर् प्रदेशे व्याप्ते मृगालये विविधा वन्यमृगाः सन्ति । सिंहाः गजाः व्याघ्राः पक्षिणः सन्ति । लघुवाहनेनापि मृगालयदर्शनव्यवस्था अत्र अस्ति सोमवासरे विरामः अस्ति ।

बिर्लामन्दिरम् [सम्पादयतु]

हैदराबाद् समीपे बिर्लामन्दिरम् अथवा बालाजीमन्दिरम् अपूर्वं दर्शनीयमस्ति । उन्नतप्रदेशे स्थितात् मन्दिरात् नगरदर्शनम् अतीव आनन्दं जनयति ।

चारमीनार् [सम्पादयतु]

हैदराबादनगरे चारमीनार् इति स्थलम् केन्द्रस्थाने अस्ति । हिन्दूनर्तक्याः बागमत्याः स्मरणार्थं निमिर्तमेतत् चतुर्गोपुरात्मकम् । क्रिस्ताब्दे १५१३ तमे वर्षे सुल्तान महम्मदबुली कुतुब शाही एतम् निर्मितवान् । विपणिमध्ये एव एतत् विराजते । हैदराबादनगरस्य हृदयभागे विपणिमध्ये अस्ति एतत् चारमीनार् वीक्षकगोपुरस्थानम् । हैदराबाद् नगरस्य प्रमुखम् आकर्षणस्थानम् अस्ति एतत् । क्रिस्ताब्दे १५९३ तमे वर्षे प्लेग् रोगात् मुक्तिः प्राप्ता इत्यस्य स्मरणार्थं नर्तकयाः भागमत्याः स्मरणार्थं च एतम् विशेषशिल्पं महम्मद् कुलीषा निर्मितवान् । अत्र चत्वारि गोपुराणि सन्ति । गोपुराणि ५० मीटर उन्नतानि ३० मीटर् विस्तृतानि च सन्ति । चतुर्षु र्भागेषु तोरणानि सन्ति । एतेषां पार्श्वभागे पाटलपुष्पाणां सुन्दरचित्रणनि , अरेबिकभाषया शासनानि च चित्रितानि सन्ति । उपरि गन्तुं सोपानानि सन्ति । गोपुरशिखरेभ्यः नगरदर्शनम् अतीवानन्दाय भवति । चारमीनारप्रदेशं परितः आपणाः सन्ति । अत्र आभरणानां विपणिः काचकङ्कणानां मौक्तिकानां च वाणिज्यं च सदा प्रसिद्धम् अस्ति । प्रवेशकालः –प्रातः ९ वादनतः सायं ४ वादनं यावत् । सायङ्काले ७ वादनतः ९ वादनपर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति ।

मेक्कामस्जिद् [सम्पादयतु]

हैदराबाद नगरे स्थितम् मेक्कामस्जिद् इति प्रार्थनास्थलम् अतीव बृहदस्ति । अत्र दशसहस्रजनाः उपवेष्टुम् अर्हन्ति । निजामानां मरणोत्तरस्मारकाणि अत्र आवरणे सन्ति ।

सालार् जङ्ग वस्तुसङ्ग्रहालयः [सम्पादयतु]

एषः वस्तुसङ्ग्रहालयः विश्वे एवः प्रसिद्धः अस्ति । भारते तृतीयः बृहत् सङ्ग्रहालयः एषः । एकेन सङ्गृहीतानि वस्तूनि (३५,०००) अत्र सन्ति । सः एव सालारजङ्गः-३I एषः पितुः स्काशात् पितामहस्य सकाशात् च कतिचन वस्तूनि प्राप्तवान् । अनेकानि वस्तूनि स्वयं सङ्गृहीतवान् । कलात्मकानि वस्तूनि अत्र सन्ति । लेखनानां सङ्ग्रहः अपि अत्र अस्ति । ४० वर्षाणां परिश्रमस्य प्रयत्नेन एषः वस्तुसङ्ग्रहालयः सुव्यवस्थितः अभवत् ।

गोल्कोण्डदुर्गम् [सम्पादयतु]

ऐतिहासिकं दुर्गमेतत् पूर्वं वारङ्गलस्य काकतीयैः राजभिः निर्मितम् आसीत् । गोपालकानां प्रदेशः इत्यतः गोल्कोण्ड इति नाम अभवत् । राज्ञा प्रतापेन निर्मितम् एतत् इति केषाञ्चन मतम् । टर्कीदेशस्य सुल्तान क्वालि कुतुब षाह क्रिस्ताब्दे १५१२ तमे वर्षे एतस्य दुर्गस्य नवीकरणं कारितवान् । क्रिस्ताब्दस्य १५९० तम वर्षपर्यन्तम् एतत् बहमनिसाम्राज्यस्य राजधानी आसीत् । अनन्तरम् एष एव दिल्लीसुल्तानसैन्यम् विरुद्ध्य युद्धं कृतवान् ।

हैदराबादनगरात् पश्चिमभागे ४०० पादमितोन्नते स्थले ग्रान्नैटशिलाभिः निर्मितं दुर्गम् ७ कि.मीटर् परीधियुक्तम् अस्ति । तत्र तत्र स्फोटकशतघ्न्यः स्थापिताः आसन् । अत्र तारामती मस्जिद्, जनाना(राज्ञीवासः) रक्षकगोपुरं स्फोटकवस्तुनिर्माणागारः च आसन् ।

नगीनबाग् प्रदेशे राजवंशीयानां स्नानगृहाणि विहारस्थानानि वाटिकाः च आसन् । दुर्गे पर्वतप्रदेशे जल वितरण्व्यवस्था आसीत् । दुर्गस्य चत्वारि द्वाराणि आसन् । तेषु फतेमेक्का बञ्जार बालाहिसार मुख्यानि । प्रवेशद्वारेषु तीक्ष्णानि शूलानि स्थापितानि आसन् ।

प्रवेशद्वारे करताडनपूर्वकं शब्दं कुर्वन्ति चेत् राजसभायां शब्दश्रवणं कर्तुं शक्यते । एतादिशी अद्भुता व्यवस्था दुर्गे अस्ति । प्रवेशद्वारे वर्तुलाघाटकः अस्ति १२० मीटर् उपरिप्रदेशे शब्दश्रवणम् स्पष्टतया भवति । उपरिगन्तुम् ३६० सोपानानि सन्ति ।

इतिहासानुसारम् भद्राचलरामदासस्वामिनः बन्धनम् अत्रैव अभवत् । अनन्तरम् रामदासमहोदयस्य बन्धविमोचनम् अभवत् । अत्र दुर्गे वज्रवाणिज्यं भवति स्म । नाम्पल्लि महामार्गतः कि.मी दूरे एतत् दुर्गम् अस्ति । नवम्बरमासतः फेब्रवरीमासम् यावत् अत्र प्रवेशशुल्कं दत्त्वा प्रतिदिनं राजवैभवं दृष्टुं शक्नुवन्ति । सायम् ध्वनिदीपव्यवस्थापि अस्ति । अत्र अगन्तुं हैदराबादतः नगरवाहनसौकर्यम् अस्ति ।

रामोजी चित्रनगरी [सम्पादयतु]

हैदराबादनगरसमीपे स्थितम् आधुनिकं आकर्षकविहारस्थलं चलच्चित्रनिर्माणकेन्द्रम् एतत् । १८०० हेक्टर् प्रदेशे व्याप्तं मनोरञ्जनास्थानमिदम् । पर्ल् सिटि, सिलिकान् सिटि इति च प्रसिद्धम् अस्ति । एतम् ’प्याराडैस् आन् अर्थ’ इति च कथयन्ति । अत्रत्यं थ्रिल्लर् रैडर्, क्रिपालुगृहा, सीपिपिलैन स्टण्टशो स्थानानि (CPP Line) अतीवाकर्षकाणि सन्ति । प्रकृतिमध्ये मनुष्यनिर्मितम् अद्भुतदर्शनम् अत्र भवति सम्पूर्णतया सुन्दरदृश्याणि निर्मितानि सन्ति । ‘युरेका’ शिल्पं सर्वान् यात्रिजनान् कदाचित् प्राचीनस्य मौर्यसाम्राज्यस्य, कदाचित् अमेरिकादेशेरचितस्य वैल्ड् वेस्ट नगरस्य, पुनः कदाचित् देहलीबादशाहसभायाः वैभवं दर्शयति । युरेका पञ्चतारोपहारवसतिगृहेषु अनेकविधाहारसेवनं साध्यमस्ति । अलम्पना, चाणक्य, हनिमेक फास्टफुड् , गङ्गाजमुना, इत्यादीनि अनेकानि उपाहारगृहाणि अत्र सन्ति । अनेकविधक्रीडास्थानानि सन्ति । अत्र बालानाम् अतीव सन्तोषः भवति । क्रीडासु स्पर्धासु बालाः मग्नाः भवन्ति । हैदराबाद- नगरतः ३५ कि.मी दूरे एतत् स्थलमस्ति । अत्र प्रतिदिनं विविधभाषाचलच्चित्राणां चित्रीकरणं चलत् भवति । नगरतः जम्बोवाहनानि सम्पर्कयोग्यानि सन्ति । दूरवाणीं कृत्वापि वण्डरल्याण्डजम्बोवाहनैः गन्तुं शक्यते । दूरवाणी सङ्ख्या ६२२ ३३७० अस्ति ।

फिल्मसिटि मध्ये लघुवाहनानि सन्ति । हैदराबादनगरतः नगरवाहनानि सन्ति । वसत्याः कृते काचिगुड्डसमीपे वसतिगृहाणि सन्ति । कोठी वाहननिस्थानतः २०५ सङ्ख्याकं वाहनं चलाच्चित्रनगरं गच्छति । रामोजी फिल्मसिटिदर्शनार्थं प्रवेशधनं निर्दिष्टं अस्ति । बालानाम् अर्धव्ययः भवति । एकदिनं यावत् प्रायशः ५०० सप्यकाणि भवन्ति । प्रवेशसमयः प्रातः काले ९ वादनतः सायङ्काले ६ वादनम् । रायल् प्याकेज टूर् व्यवस्था अस्ति ।

मार्गः [सम्पादयतु]

बेङ्गळूरुतः ५७४ कि.मी । चेन्नैतः ७९४ कि.मी। तिरुपतितः ७४१ कि.मी । विजयवाडातः २६० कि.मी मुम्बयी ७३९ कि.मी । अन्यराज्यैः अपि वाहनसम्पर्कः अस्ति । समीपवाहननिस्थानानि जूबिलि, कोठि हाम्लिबिन् । धूमशकटवाहननिस्थानं काचिगुड्डप्रदेशे अस्ति ।

मार्गः [सम्पादयतु]

विमानमार्गः [सम्पादयतु]

हैदराबादनगरम् आगन्तुं बेङ्गळूरु चेन्नै विशाखपट्टणं देहली मुम्बयी तिरुपतिः इत्यादिस्थानेभ्यः बेगम्पेट् विमानस्थानकं प्रति सम्पर्कविमानानि सन्ति ।

धूमशकटनिस्थानानि [सम्पादयतु]

सिकन्दराबाद्, काचिगुडा, नाम्पल्ली स्थलेषु सन्ति ।

वाहनमार्गः [सम्पादयतु]

बेङ्गळूरुतः ५०० कि.मी । चेन्नैतः ७०४ कि.मी। विजयवाडतः २७३ कि.मी ।

उपमण्डलानि [सम्पादयतु]

सिकिन्दराबाद् मुषीराबाद् गोलकोण्ड चार्मिनार् तिरुमलगिरिः अमीर् पेट
खैरताबाद् षेकपेट् मारेड्पल्लि हिमायतगरम् आसिफनगरम् नाम्पल्लि
अम्बरपेट् बहदूरपुरम् बण्ड्लगूड् सैदाबाद्

बाह्यसम्पर्कतन्तु [सम्पादयतु]