हैदराबाद् मण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(हैदराबाद्(भारतम्) इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
हैदराबाद्
City of Pearls
—  महानगरम्  —
नगरस्य प्रधानानि क्षेत्राणि
हैदराबाद्
Location of Hyderabad in India
निर्देशाङ्काः

17°21′58″N 78°28′34″E / 17.366°N 78.476°E / 17.366; 78.476

देशः भारतम्
राज्यम् आन्ध्रप्रदेशः
Founded 1591 AD
Mayor
City Police Commissioner Abdul Khayum Khan
Members of Parliament Asaduddin Owaisi, Anjan Kumar Yadav, Sarve Satyanarayana
जनसङ्ख्या

महानगरम्

 (4th) (2011)

 (6th) (2011)

व्यावहारिकभाषा(ः) तेलुगुभाषा अपि च उर्दुभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

औन्नत्यम्
• तीरप्रदेशः


५३६ metres ( ft)
० kilometres (0 mi)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Aw (कॊप्पेन्)

     ६०३ mm (. in)
     २६.० °C (. °F)
     ३५.९ °C (. °F)
     २ °C ( °F)

जालस्थानम् www.ghmc.gov.in

हैदराबाद् मण्डलम् आंध्रप्रदेशराज्ये स्थितम् एकम् मण्डलम् । अस्य मण्डलस्य केन्द्रः हैदराबाद् नगरम् ।

अन्तर्विषयाः

[सम्पादयतु] इतिहासः

१५९१ तमे वर्षे कुलीकुतुब् षा इत्याख्येन राज्ञा स्वसख्याः भागमत्याः स्मृत्यर्थं हैदराबाद् नाम नगरं निर्मितवान् । शातवाहनैः, चालक्यैः, काकतीयैः बहमनीसुल्तानजनैः च पालितमिदं मण्डलम् । औरङ्गजेबः इदं प्रान्तं १६८७ तमे वर्षे अजयत् । असब्जाहीवंशजाः १७२४ वर्षतः पर्यपालयन् इदं हैदराबादनगरम् । १८०३ तमे वर्षे सिकिन्दर्जा इत्यस्य पालने सिकिन्द्राबाद् नगरं निर्मितम् । निजांनवाबजनाः १९४८ तमवर्षपर्यन्तं प्रान्तमिदम् अपालयन् । १९४८ तमे वर्षे इदं भारतदेशे विलीनं जातम् । १९५६ तमे वर्षे सीमान्ध्रप्रान्तैः संयोज्य आन्ध्रप्रदेशराज्यं च आविष्कृत्य तस्य राजधानीत्वेन भाग्यनगरं उद्घोषितम् ।

[सम्पादयतु] भौगोलिकम्

अस्य प्राच्यां नल्गोण्ड-मण्डलम्, पश्चिमे कर्णाटकराज्यम्, उत्तरे मेदक्-मण्डलम्, दक्षिणे च महबूबनगर मण्डलं वर्तन्ते । अत्र जनानाम् उपाधिः व्यवसायेतरक्षेत्रेषु लभ्यते ।

[सम्पादयतु] वाणिज्यम्

भाग्यनगरपरिसरेषु केन्द्र-राज्यसर्वकारीयाणां स्वायत्तीयसंस्थानां कर्मागाराणि स्थापितानि ।मादापूर्-समीपे L&T, मौक्रोसाफट्, I.B.M., गूगुल् इत्यादयः स्वीयसङ्गणकान्तर्गतकेन्द्राणि प्रास्थापयन् । मण्डलेस्मिन् उस्मानिया-विश्वविद्यालयः, केन्द्रीय-विश्वविद्यालयः, पोट्टिश्रीरामुलू-तेलुगु- विश्वविद्यालयः, अम्बेडकर-दूरविद्या-विश्वविद्यालयश्च वर्तन्ते । मूसी, मञ्जीरा, होल्दिया इत्याद्युपनदीनां द्वारा पेयजलम् उपलभ्यम् ।

[सम्पादयतु] वीक्षणीयस्थलानि

चार्मिनार्, सालार्जङ्ग-प्रदर्शनशाला, शासनसभा, हुस्सेनसागरस्थः बुध्दविग्रहः, इन्दिरा- उद्यानानि, गोलकोण्ड-दुर्गम्, सार्वजनिक-उद्यानानि, नेह्रू-जन्तुप्रदर्शनशाला, बिर्लामन्दिरम्, अन्तरिक्षशाला, रवीन्द्रभारती, रामोजी-फिल्म्-सिटी इत्यादीनि दर्शनीयस्थलानि बहूनि विद्यन्ते । विभिन्नमतानां, संस्कृतीनां च सङ्गमक्षेत्रमिदं मण्डलं भारतदेशे तथा विश्वस्तरे च विशिष्टस्थानं प्राप्नोति ।

[सम्पादयतु] तालूकाः

सिकिन्दराबाद् मुषीराबाद् गोलकोण्ड चार्मिनार् तिरुमलगिरिः अमीर् पेट
खैरताबाद् षेकपेट् मारेड्पल्लि हिमायतगरम् आसिफनगरम् नाम्पल्लि
अम्बरपेट् बहदूरपुरम् बण्ड्लगूड् सैदाबाद्

[सम्पादयतु] बाह्यसम्पर्कतन्तु

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु