होय्सळवंशः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
होय्सळवंशः
ಹೊಯ್ಸಳವಂಶ
साम्राट्
क्रि.श. १०००–क्रि.श. १३४६

Flag

होय्सळसाम्राज्यविस्तारः
राजधानी द्वारसमुद्रम् (हळेबीडु)
भाषाः कन्नडभाषा,
धर्मः सनातनधर्मः
Government एकप्रभुत्वम्
हतिहासः
 - स्तम्भित क्रि.श. १०००
 - Earliest records
 - Disestablished क्रि.श. १३४६
Warning: Value specified for "continent" does not comply

होय्सळवंशः क्रि.सा. १०००तः क्रि.श. १३४६पर्यन्तं दक्षिणभारतस्य कांश्चन प्रदेशान् प्रशासितवान् राजवंशः । होय्सळानां राजधानी द्वारसमुद्रम् एतत् अद्यतनस्य हासनमण्डलस्य हळेबीडुप्रदेशः भवति । जानपदानां विश्वासः यत् होय्सळसाम्राज्यस्य संस्थापकः सळ इति कश्चित् वीरः । चातित्र्यकदृष्ट्या अस्य नाम नृपकामः इति ऊहितम् । होय्सळसाम्राज्यस्य विस्तरणं प्रथमतया विनयादित्यः कृतवान् (क्रि.श. १०४७तः १०९८) होय्सळसाम्राज्यस्य अतिप्रसिद्धः राजा बिट्टिदेवः तस्य प्रसिद्धिः विष्णुवर्धनः इति नम्मा अभवत् । (क्रि.श. १११०-११४२) तस्य प्रशासनकाले होय्सळसाम्राज्यम् अद्यतनं कर्णाटकराज्यस्य बलिष्टं साम्राज्यम् अभवत् । अपि च पाश्वराज्ये अपि विस्तृतम् अभवत् । विष्णुवर्धनस्य काले कलायाः शिल्पकलायः च प्रोत्साहनम् अधिकम् आसीत् । अस्य पत्नी शान्तला ख्याता भरतनृत्यकलावती शिल्पकलासक्ता च । अस्य काले एव होय्सळानां शिल्पकलावैभवम् उत्कर्षं गतम् । अस्मिन् काले एव शिल्पकलायाः अत्युन्नतनिदर्शनानि उद्भूतानि । हळेबीडुप्रदेशस्य होय्सळेश्वरदेवालयं निर्मातुं ८६वर्षाणि उपयुक्तानि । तथैव बेलूरुप्रदेशस्य चेन्नकेशवदेवालयः १०३वर्षाणां तेषां परिश्रमाणां फलम् । होय्सळशिल्पकलायां दक्षिणोत्तभरतस्य शैल्योः मिश्रणं दृश्यते । होय्सळदेवालयेषु सहस्राधिकसुन्दरक्षदनानि सन्ति । देवालयाः होय्सळसाम्राज्यस्य सम्प्रदायः एव । वीरबल्लाळस्य (क्रि.श. ११७२-१३४६) काले होय्सळसाम्राज्यं दक्षिणभारते बलिष्टम् अभवत् । तदनन्तरकले होय्सळसाम्राज्यं विजयनगरसाम्राज्येन, सुल्तानैः सह स्पर्धितुम् आरभत । फलरूपेण होय्सळसाम्राज्यं क्रि.श. १३४६तमवर्षे अन्तमपश्यत् ।

इतिहासः[सम्पादयतु]

होय्सळसाम्राज्यविस्तरणम्

होय्सळचरित्रस्य किंवदन्त्यनुगुणं जैनानां गुरुः सुदत्तः सोसेवूरु इति प्रदेशस्य वासन्तिकादेव्याः मन्दिरे व्याघ्रे आगते तं नियन्त्रयितुं स्वशिष्यं सळं होय् सळ् इति कन्नडभाषया (आक्रमतु इति) आदिष्टवान् । तदा शिष्यः तं व्याघ्रं मारितवान् । अयमेव होय् सळ शब्दस्य मूलम् इति जनपदाः वदन्ति । क्रि.श. १११७तमे वर्षे विष्णुवर्धनस्य शिलाभिलेखे इयं कथा आरम्भे दृश्यते । किन्तु अस्य तथ्यं संशयान्वितम् अतः कल्पितकथायाः रूपेणैव अस्ति । विष्णुवर्धनः तलकाडुप्रदेशे चोळान् युद्धे पराजितवान् । तत्पश्चात् कल्पिता कथा एषा स्यात् इति इतिहासज्ञानाम् अभिप्रायः । होय्सळानां लञ्छनं व्याघ्रं नियन्तुः बालकस्य अस्ति अस्ति अतः एषा ऊहा कृता इति । क्रि.श. १०७८ तथा क्रि.श.१७९०तमवर्षयोः शासनानि होय्सळराजाः यादववंशजाः इति सम्बोधयन्ति । किन्तु दक्षिणस्य होय्सळीयाःइति अवक्तुम् अभिलेखाः न मिलन्ति । होय्सळाः मेषपालजातीयाः इति केचन वदन्ति । एतदेव सत्यसमीपम् अस्ति ।

अर्थव्यवस्था[सम्पादयतु]

होय्सळानां प्रशासनव्यवस्थायाः मुख्यायस्य मूलं कृषिः एव । तेषाम् अर्थव्यवस्था कृष्याधारिता आसीत् । राजोपचारस्य प्रतिफलत्वेन राजानः कृषिक्षेत्राणि यच्छान्ति स्म । पश्चिमाद्रिसानुप्रदेशेषु योग्यवातावरणे पशुपालनं, वाटिकाकृषिः, साम्बारवस्तूनां कृषिः इत्यादीनि कुर्वन्ति स्म । विशलक्षेत्राणां दक्षिणकर्णाटके शालिक्षेत्राणि, यवक्षेत्राणि च अधिकानि भवन्ति स्म । स्थलीयजनाः स्वोपयोगाय लघुजलबन्धान्, सरांसि कुल्याः, वापीकूपान् च नर्मान्ति स्म । बृहज्जलानयनार्थं विष्णुसागरः, शान्तिसागरः, बल्लालरायसागरः, इत्यादयः जलाशयाः राज्ञा निर्मिताः आसन् । कर्णाटकस्य तीरप्रदेशेषु सामान्यजनानां प्रवासार्थम् अपि च अश्वसेनार्थम् अश्वानाम् आयातम् अकुर्वन् । अरण्येषु बहूमूल्याः वृक्षाणां दारवः कृत्वा केरलस्य नौकास्थानकतः निर्यातं कुर्वन्ति स्म । एवम् अश्वानां काष्टानाम् आयातनिर्याताम् एव महावाणिज्योद्यमाः आसन् । चीनादेशे प्राप्तस्य शुङ्गसाम्राज्यस्य अभिलेकानुसारम् उत्तरचीनाभगे भारतस्य वणिजः गोचराः भवन्ति स्म । एतत् सागरोत्तरं सुदृढं वाणिज्यं द्योतयति । दक्षिणभारतस्य वस्त्राणि, साम्बारवस्तूनि, ओषधयः, रत्नानि, मृद्वस्तूनि, लवणम्, आभरणानि, सुवर्णम्, हस्तिदन्ताः, खड्गमृगस्य शृङ्गानि, सुगन्धद्रव्यानि, श्रीगन्धः, कर्पूरः, इत्यादीनि वस्तूनि चीना, धोफर्, एडन्, सिराफ्, ईजिप्त, अरेबिया, पर्शिया, इत्यादिभ्यः देशेभ्यः निर्यातं भवन्ति स्म । वास्तुतन्त्रज्ञाः, शिल्पिनः, शिलाकर्मकराः, रक्षकाः, इत्यादयः मन्दिरनिर्मणकुशलिनः स्वपरिशमेण धनाड्याः भवन्ति स्म । भूकरं सङ्गृहीतुं ग्रामसमितिः इति व्यवस्था आसीत् । भूकरः राजकुलस्य सिद्धायः इति परिगण्यते स्म । विविधव्यापाराणां, व्यवसायानां, विवाहनां, यानारथेभ्यः नीयमानवस्तूनां, पलनजन्तूनां, च विषये करसङ्गृहः भवति स्म । कनकानि, सुगन्धद्रव्यानि, श्रीगन्धदारवः, रज्जुवः, वल्कलानि, गृहाणि, आपणानि, पशुसमूहः, गुडोत्पादनकेन्द्राणि, मरिचिकाः, नागवल्लीदलानि, घृतम्, शालिधान्यानि, साम्बारवस्तूनि, ताडपत्राणि, नारिकेरफलानि, इत्यदिषु वस्तुषु अपि यथेष्ठं करसङ्ग्रहं कुर्वन्ति स्म । सरसः निर्माणेऽपि करसङ्गृहितुं ग्रामसमितीनाम् अधिकारः आसीत् ।

संस्कृतिः[सम्पादयतु]

एकादशशतकस्य आदिभागे चोळराजैः जैनमतावलम्बिनः पश्चिमगङ्गाः पराभवमापन्नाः । द्वादशशतके वीरशैवमतेषु वैष्णवमतेषु च अनुयायिनां सङ्ख्या वर्धते स्म । अनेन जनेषु जैनमतासक्तिः कुण्ठिता अभवत् । कम्बदहळ्ळि तथा श्रवणबेळगोळहोय्सळकाले उल्लेखार्हाणि जैनकेन्द्राणि । अष्टमशातके शङ्करभगवत्पादानां अद्वैतमतप्रसारारेण दक्षिणभारते बौद्धमतस्य अवनतिः आरब्धा । होय्सळानां काले बळ्ळिगावि डम्बळ च द्वे एव बौद्धकेन्द्रे आस्ताम् । विष्णुवर्धनस्य पत्नी शान्तलादेवी जैनमतीया असीत् विष्णुवर्धनस्य कप्पेचेन्निगरायस्य देवालयस्य निर्माणं परमतसहिष्णुभावस्य दृष्टान्तः । राजा विष्णुवर्धनः बसवेश्वरेण (बसवण्णः), रामानुजाचार्येण, मध्वाचार्येण च प्रेरितः त्रिमतस्य संवर्धनार्थम् अवकाशं प्रकल्पितवान् । वीरशैवमतस्य सम्भवः चर्चाविषयः चेदपि क्रि.श. द्वादशसतके बसवेश्वरस्य (बसवण्णस्य) आगमनेन एतन्मतं प्रवर्धितम् । तथापि बसवेश्वरः वीरशैवशारणाः जात्यतीतसमाजं प्रतिपादितवन्तः । स्वकर्मे निधनं श्रेयः इति गीतोक्तिं कार्यमेव कैलासः इति बोधयन् बसवेश्वरः सरलया भाषया जीवनमौल्यानि ज्ञापितवान् । कन्नडभाषासाहित्ये तानि वचनानि इति प्रसिद्धानि । आदिशङ्कराचार्यस्य सिद्धान्तानि अननुमतः मध्वाचार्यः जीवात्मा पर्मात्मा च पृथगेव इति द्वैतसिद्धान्तं प्रतिपादितवान् । कालक्रमेण तस्य अनुयायिनां संङ्ख्या संवर्धिता । मध्वाचर्यः उडुपिपत्तने अष्टमठान् प्रतिष्ठापितवान् । श्रीरङ्गस्य श्रीवैष्णवमठस्य गुरुः रामानुजाचार्यः भक्तिमार्गं बोधितवान् । आदिशङ्कराचर्यस्य अद्वैतसिद्धान्तमवलम्ब्य श्रीभाष्यम् इति भाष्यग्रन्थम् अरचयत् । एते धर्मसिद्धान्ताः तदानीन्तनकालस्य दक्षिणभारतस्य संस्कृतेः, साहित्यस्य, काव्यस्य , शिल्पकलायाः च उपरि प्रभावम् अकरोत् । एतेषां तत्त्वज्ञानिनाम् उपदेशान् अनुसृत्य अग्रिमशतकेषु महत्त्वपूर्णं साहित्यानां काव्यानां च निर्माणम् अभवत् । विजयनगरसाम्राज्यस्य साळ्व, तुळुव, अरवीडु च राजवंशाः वैष्णवाः आसन् । विजयनगरस्य विठ्ठलपुरस्य कस्मिंश्चित् वैष्णवदेवालये रामनुजाचर्यः प्रतिमा अस्ति । अग्रे मैसूरुसंस्थाने राजाश्रयं प्राप्तवन्तः विद्वांसः रामनुजाचार्यस्य सिद्धान्तप्रतिपादकान् ग्रन्थान् व्यरचयन् । होय्सळराजः विष्णुवर्धनः जैनमततः मतान्तरं कृत्वा वैष्णवः अभवत् । पश्चात् अनेकानि वैष्णवमन्दिराणि निर्मितवान् । मध्वाचार्यस्य परम्परयाम् अग्रे अगताः जयतीर्थः, व्यासतीर्थः, श्रीपादरायः, वादिराजतीर्थः, दासपरम्परायाः विजयदासः, गोपालदासः इत्यादयः मध्वाचार्यस्य तत्त्वानि स्वशैल्या प्रसारम् अकुर्वन् । तदनन्तरकालीनाः [[गुजरातराज्यम्|]गुजरातराज्यस्य] वल्लभाचर्यः, बङ्गालराज्यस्य चैतन्यः इत्यादयः मध्वाचार्यतत्त्वैः प्रभाविताः अभवन् । मध्वाचार्याणाम्ं बोधैः प्रभावितः अपरः भक्तिमार्गतरङ्गः १७-१८शतकयोः उद्गताः ।

समृद्धसमाजः[सम्पादयतु]

प्राचीनभारतस्य इतिहासः
दक्षिणेशियाखण्डस्य इतिहासः
पाषाणयुगः ७०,०००-३३०० क्रैस्तपूर्वः
कांस्ययुगः • ७०००-३३०० क्रैस्तपूर्वः
हरप्पा महेञ्जोदरो संस्कृतिः ३३०० -१७०० क्रैस्तपूर्वः
वैदिकयुगः १५००-५०० क्रैस्तपूर्वः
लौहयुगः १२००-३०० क्रैस्तपूर्वः
षोडशमहाजनपदाः • ७००-३०० क्रैस्तपूर्वः
मगधसाम्राज्यम् • ५४५ क्रैस्तपूर्वः
मौर्यसाम्रज्यम् • ३२१-१८४ क्रैस्तपूर्वः
चोलसाम्राज्यम् • २५० क्रैस्तपूर्वः
सातवाहनसाम्राज्यम् • २३० क्रैस्तपूर्वः
कुषाणसाम्राज्यम् • ६०-२४० क्रैस्ताब्दः
गुप्तसाम्राज्यम् • २८०-५५० क्रैस्ताब्दः
पालसाम्राज्यम् • ७५०- ११७४ क्रैस्ताब्दः
राष्ट्रकुटसाम्राज्यम् • ७५३ -९८२ क्रैस्ताब्दः
सुलतानसाम्राज्यम् • १२०६-१५९६ क्रैस्ताब्दः
होय्सळसाम्राज्यम् १०४०-१३४६ क्रैस्ताब्दः
विजयनगरसाम्राज्यम् १३३६-१६४६ क्रैस्ताब्दः
मुघलसाम्राज्यम् १५२६-१८५८ क्रैस्ताब्दः
माराठासाम्राज्यम् १६७४-१८१८ क्रैस्ताब्दः
शिक्खसाम्राज्यम् १७९९-१८४९ क्रैस्ताब्दः
ब्रिटिशभारतम् १८५८–१९४७ क्रैस्ताब्दः
भारतगणराज्यम् १९४७–वर्तमानकालः
राष्ट्रियः इतिहासः
भारतम्भूटानदेशःबाङ्गलादेशः
नेपालदेशःपाकिस्तान्श्रीलङ्कादेशः
प्रादेशिकेतिहासः
असमवङ्गः
हिमाचलप्रदेशः
पाञ्जाबराज्यम्दक्षिणभारतम्तिब्बतदेशः
अस्य फलकस्य: पश्यतु  चर्चा  सम्पादनम्

तस्मिन् काले अङ्कुरितस्य धार्मिकस्य, राजतन्त्रस्य, सांस्कृतिकस्य च परिवर्तनानि होय्सळसमाजः प्रतिबिम्बयति स्म । कालांशेऽस्मिन् समाजः सुसंस्कृतः सम्भूतः । स्त्रीणां स्थानमानेषु व्यत्यासः अभवत् । राजकुलस्य स्त्रियः राज्यप्रशासने भागिन्यः भवन्ति स्म । द्वितीयवीरबल्लालस्य उत्तरप्रदेशानामुपरि सम्भूताक्रमणस्य काले तस्य पत्नी उमादेवी हळेबीडुप्रान्तस्य प्रशासनव्यवस्थाम् अपश्यति इति तत्कालीनाभिलेखाः मिलिताः । साः कैश्चित् विरोधिभिः अधीनराजैः सह प्रयुध्य नियन्त्रितवती इयपि श्रूयते । ललितकलासु स्त्रियः भागं वहन्त्यः आसन् इति अभिलेखाः सन्ति । विष्णुवर्धनस्य सम्राज्ञी शान्तलादेवी नृत्यसङ्गीतकोविदा आसीत् । क्रि.श. द्वादशशतके अक्कमहादेवी इत्यस्याः शिवभक्तायाः वचनानि अद्यापि कन्नडराज्ये विश्रुतानि । देवालयेषु नृत्याङ्गनाः भवन्ति स्म । तासु कासुचित् विद्यावत्यः कलापारङ्गता अपि भवन्ति स्म । अतः दैनन्दिनगृहकृत्येषु मग्नानां महिलानाम् अपेक्षया एतासाम् अधिकं स्वातन्त्र्यम् आसीत् । सतीसम्प्रदायस्य वाराङ्गनावृत्त्याः च अनुमतिः आसीत् । [भारतम्|भारतस्य]] सर्वसामान्यः जातिपद्धतिः अत्रापि अस्मिन् काले आसीत् । पश्चिमसमुद्रस्य तीरस्य नौकानिस्थानद्वारा व्यापारोद्यमः प्रचलति स्म । अरब्बा, यहूदयः, पर्शियाजनाः, चैनीयाः, मलयाद्वीपीयाः, च अनेन मार्गेण आगच्छन्ति स्म । [[होय्सळवंशः|होय्सळानां] राज्यविस्तारकारणेन देशान्तरगतानां जनानां नूतनकलाः संस्कृतिः च प्रसृताः । बृहत्पदेशाः पत्तनम् इति केन्द्रस्थानं नगरम् इति सम्बोधयन्ति स्म । श्रवणबेळगोळसदृशानि मतकेन्द्राणि सप्तमशतके एव प्रसिद्धानि चेदपि वैदेशिकानां धनाढ्यवणिजां कारणेन द्वादशशतके प्रमुखवाणिज्यकेन्द्राणि अपि अभवन् । विष्णुवर्धनस्य चेन्नकेशवदेवालयस्य निर्माणस्य पश्चात् बेलूरु राजमन्यताम् आप्नोत् । बृहद्देवालयानां निर्माणं, धार्मिकसमाजिकन्यास्यस्य द्योतकम् असीत् । राजा प्रत्यक्षदेवता इति वचने जनाः विश्वसन्ति स्म । देवालयस्य निर्माणं न केवलं धार्मिकविधानं किन्तु वाणिज्यव्यवहारस्यापि केन्द्रम् अपि आसीत् । एतत् केवलं कस्यचित् समाजस्य समुदायस्य वा स्थानम् नाभवत् । बेलूरुचेन्नकेशवदेवालस्य निर्माणस्य प्रतिफलवत् शैवव्यापारिणः धनं दत्वा हळेबीडुहोय्सळेश्वरदेवालयस्य निर्मापकाः अभवन् । अनेन मन्दिरेण हळेबिडुप्रदेशस्य प्रतिष्ठा अपि संवर्धिता । होय्सळेश्वदेवालयः जात्यतीतः आसीत् । अत्र सर्वे हैन्दवाः अगत्य पूजां कुर्वन्ति स्म । सोमनाथपुरदेवालयः केवलं वैष्णवसम्प्रदायस्य केन्द्रम् आसीत् । धनाढ्यकृषकैः निर्मिताः देवालयाः तदानीन्तनस्य कृषिप्रधानसमाज्स्य, आर्थिकराजनैतिकसांस्कृतिकधार्मिकानाम् अवश्यकताः पूरयन्ति स्म । प्रोत्साहनम् अतिरिच्य बृहन्मन्दिराणि विविधवृत्तिनिरतानाम् अपि उयोगावकाशान् अकल्पयन् । एव मन्दिराणि स्थलीयसमजस्य आधारस्तम्भानि अभवन् ।

साहित्यकृषिः[सम्पादयतु]

योय्सळानां प्रशासनकाले संस्कृतभाषासाहित्यानि अतीव जनप्रियानि अभवन् । कन्नडभाषाविदुषां राजाश्रयः आसीत् । द्वादशशतके काश्चन साहित्यकृतयः चम्पूशैल्या रचिताः । अन्याः विशिष्टशैल्यः अपि विश्रुताः अभवन् । साङ्गत्यम्, षट्पदी, रगळे इत्याद्याः अधुनिकशैल्यः आगताः । तीर्थङ्कराणां महिमाप्रशंसनं जैनकृतयः अकुर्वन् । कन्नडसाहियपरम्परायाम् अद्यापि विश्रुताः जन्नः, रुद्रभट्टः, नागचन्द्रः, हरिहरः,राघवाङ्कः चेत्यादयः होय्सळराजाश्रयम् आप्नुवन् । क्रि.सा. १२०९तमे वर्षे जैनकविः जन्नः यशोधरचरितम् इति कृतिम् अरचयत् । ग्रामदेवतायै बालकौ बलिं दातुकमस्य राज्ञः कथा अत्र निरूपिता । अस्य ग्रन्थस्य रचनार्थं होय्सळराजः वीरबल्लाळः जन्नकवये कविचक्रवर्ती इति उपाधिम् अयच्छत् । द्वीतीयः विरबल्लाळस्य आस्थानमन्त्री चन्द्रमौलेः आश्रये स्मार्तब्राह्मणः रुद्रभट्टः प्रथमः विप्रकविः । तस्य चम्पूशैल्याः जगन्नातविजयः इति प्रसिद्धा कृतिः विष्णुपुराणाधृता । प्रथमनरसिंहस्य आस्थाने शोभितः कविः हरिहरः (हरीश्वरः इत्यपि नामान्तरम्) प्राचीनजैनचम्पूशैल्या गिरिजाकल्याणम् इति कृतिम् अरचयत् । दशविभागयुतस्य अस्य ग्रन्थस्य कथावस्तु शिवपार्वत्योः परिणयः । वचनसाहित्यस्य परम्परायाः प्रथमवीरशैवकविः हरहरोऽपि अन्यतमः । हळेबीडुप्रदेशस्य करणिकानां कुले जतः हरिहरः हम्पीप्रदेशे अनेकवर्षाणि आसीत् । तत्रैव वसन् शताधिकरगळेसाहित्यानि व्यरचयत् । एतानि हम्पीविरूपाक्षस्य गुणगानं कुर्वन्ति । राघवाङ्कः स्वस्य हरिश्चान्द्रकाव्यम् इति काव्यद्वारा षट्पदीतिशैल्याः परिचयं प्रथमवारं कारितवान् । कन्नडभाषायाः व्याकरणनियमान् कदादित् उल्लङ्घितवान् अपि एषा कन्नडसहित्यस्य श्रेष्ठा कृतिः इति परिगणिता । संस्कृतभाषया मध्वाचार्यः ब्रह्मसूत्राणां भाष्यं रचितवान् । अपि च वैदिकशाखाः विमर्शस्य च लेखान् अपि व्यलिखत् । स्वग्रन्थानां प्रमाणग्रन्थाः इव वेदानां पर्यायेन पुराणानि परिगणितवान् । विद्यातीर्थेन रचितः रुद्रप्रश्नाभाष्यम् होय्सळकालस्य ख्यातग्रन्तः ।

सोमनाथपुरे होय्सळशिल्पम्

शिल्पकलावैभवम्[सम्पादयतु]

होय्सळराजानां साम्राज्यविस्तरणस्य अपेक्षया कलानां शिल्पकलासंवर्धनम् एव प्रधानम् । अस्मिन् विषये आधुनिकसंशोधः बहुमुख्यः भवति । दक्षिणतः पाण्डैः उत्तरतः सेवुणैः च आक्रमणस्य भयम् अस्ति चेदपि होय्सळानां देवालयनिर्माणकार्यं न स्थगितम् । पश्चिमस्य चालुक्यानां शिल्पकलाशैल्याः शाखा इव प्रवर्धिता होय्सळशैली । होय्सळानां मन्दिरशिल्पकलासु सूक्ष्मक्षदनस्य प्रामुख्यम् अस्ति । मन्दिरस्य गोपुरस्य विमाने औन्नत्यस्य स्थौल्यंस्य चापेक्षया कलासूक्ष्मस्य विषये एव आदरः प्रदत्तः । मृदुशिलाः देवालयनिर्माणे उपयोजयन्ति स्म । बेलूरुचेन्नकेशवदेवालयः, (क्रि.शा. १११७) हळेबीडुहोय्सळेश्वरदेवालयः (क्रि.श. ११२१) सोमनाथपुरस्य चेन्नकेश्वदेवालयः (क्रि.श. १२७९) अरसीकेरे (क्रि.श. १२२०) अमृतपुरम् ( क्रि.श. ११९६) यळेशपुरस्य एळ्ळेश्वरदेवालयः (क्रि.श. १२३८) बेळवाडी (क्रि.स. १२००) जुग्गेहळ्ळि (क्रि.सा. १२४६) शिवमोग्गामण्डलस्य सागरोपमण्डलस्य नाडकलसि (क्रि.श. १२१८) मन्दिराणि होय्सळानां शिल्पकलायाः उत्कृष्टोदाहरणानि । हासनमण्डलस्य दोड्डगद्दवळ्ळि महालक्ष्मीदेवालयः महालक्ष्मीदेवालयः, कोरवङ्गलस्य बूचेश्वरदेवालयः, हारनहळ्ळि लक्ष्मीनरसिंहदेवालयः, मोसळे चेन्नकेशवनागेश्वरदेवालयः, इत्यदिषु मन्दिराणां बहिः भारतीयपुर्णाणानां कथाः प्रदक्षिणक्रमेण चित्रिताः ।

भाषाप्रवर्धनम्[सम्पादयतु]

कन्नडभाषायाः, संस्कृतभाषायाः चोपयोगः सर्वत्र भवति स्म । देवालयाः पाठशला इव अपि उपयुज्यन्ते स्म । देवालयेषु विप्राः संस्कृतभाषां, जैनमन्दिरेषु बौद्धविहारेषु च शिष्यविद्यां बोधयन्ति । उच्चविद्याकेन्द्राणां घटिका इति नाम आसीत् । तस्मिन् काले एव प्रवर्धमानमागतस्य भक्तिपन्थः देवतासङ्कीर्तनार्थं कन्नडभाषायाः च उपयोगम् अकरोत् । साहित्यकृतयः ताडापत्रेषु रच्यन्ते स्म । पूर्वशतके जैनसाहित्यकृतयः प्रधानाः चेदपि होय्सळानां काले शैवब्राह्मणकृतयः अधिकाः दृष्टाः । संस्कृतसाहित्ये काव्यानि, व्याकरणम्, विश्वकोशः, पूर्वकृतीनां भाष्यानि, नाटकआनि, गद्यकथाः, इत्यद्याः कृतयः लोकार्पिताः । ताम्राभिलेखाः, शिलाबिलेखाः च कन्नडे संस्कृते च लिखिताः । महाराजानाम् उपाधयः संस्कृते भूदानपत्राणि, सीमाविचारः, स्थलीयप्रसासनपत्रानि, करगृहणपत्राणि अधिकारपत्राणि, कर्तव्यादेशः, साक्षिपत्राणि इत्यादीनि कन्नडे भवन्ति स्म । अनेन प्रशासनवृतान्ताः सामान्यजनानां सुखबोदाय भवन्ति स्म ।

बाह्यानुबन्धाः[सम्पादयतु]

होय्सळशिल्पकलायाः चित्राणि

"http://sa.wikipedia.org/w/index.php?title=होय्सळवंशः&oldid=270957" इत्यस्माद् पुनः प्राप्तिः