अनन्तश्चास्मि नागानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.२९ अनन्तश्चास्मि.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवविंशतितमः(२९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अनन्तः च अस्मि नागानां वरुणः यादसाम् अहम् पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥ २९ ॥

अन्वयः[सम्पादयतु]

नागानां च अनन्तः अस्मि । यादसाम् अहं वरुणः । पितॄणां च अर्यसा अस्मि । संयमतां यमः अहम् ।

शब्दार्थः[सम्पादयतु]

नागानां च = विषरहितानाम् उरगाणाम्
अनन्तः अस्मि = अनन्तः अस्मि
यादसाम् = जलचराणाम्
अहं वरुणः = अहं वरुणदेवः
पितॄणां च = पितृदेवतानाम्
अर्यमा = अर्यमा नाम पितृराजः
संयमताम् = संयमवताम्
यमः = अन्तकः ।

अर्थः[सम्पादयतु]

सर्पविशेषेषु नागराजः अनन्तः अहम् अस्मि । जलचरेषु अहं तदधिपतिः वरुणः अस्मि । पितृदैवतेषु अर्यमा अस्मि । संयमनं कुर्वत्सु अन्तकः अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]