सर्गाणामादिरन्तश्च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.३२ सर्गाणामादिरन्तः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥३२॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वात्रिंसशत्तमः(३२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन। अध्यात्मविद्या विद्यानाम् वादः प्रवदताम् अहम्॥३२॥

अन्वयः[सम्पादयतु]

अर्जुन सर्गाणाम् आदिः मध्यं च अन्तः च एव अहम्, विद्यानाम् आध्यात्मविद्या, प्रवदतां वादः अहम्।

शब्दार्थः[सम्पादयतु]

अर्जुन = हे पाण्डव!
अहम् = अहम्
एव = हि
सर्गाणाम् = सृष्टीणाम्
आदिः = उत्पत्तिः
अन्तः = लयः
मध्यम् च = स्थितिः च
विद्यानाम् = सर्वासां विद्यानाम्
अध्यात्मविद्या = आत्मज्ञानम्
अहम् = अहम्
प्रवदताम् = प्रवक्तृभिः वादः जल्पः वितण्डा च इति प्रयुक्तानाम् एतेषां त्रिप्रकाराणां वदनभेदानाम्
वादः= अर्थनिर्णयहेतुः अस्मि

अर्थः[सम्पादयतु]

हे अर्जुन! अहमेव कृत्स्नानां सृष्टीणां मूलः स्थितिः लयः च अस्मि। अहं विद्यासु अध्यात्मविद्या अर्थात् आत्मज्ञानं अस्मि तथैव वक्तृद्वारा वादः जल्पः वितण्डा च इति प्रयुक्तानां एषां त्रिप्रकाराणां वदनभेदानां अर्थनिर्णयहेतुः वादः अस्मि अहम्।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्गाणामादिरन्तश्च...&oldid=418859" इत्यस्माद् प्रतिप्राप्तम्