अहिंसा समता तुष्टिः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.५ अहिंसा समता.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अहिंसा समता तुष्टिः तपः दानं यशः अयशः भवन्ति भावाः भूतानां मत्तः एव पृथग्विधाः ॥ ५ ॥

अन्वयः[सम्पादयतु]

बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावः भयं च अभयम् एव च अहिंसा समता तुष्टिः तपः दानं यशः अयशः पृथग्विधाः भावाः भूतानां मत्तः एव भवन्ति ।

शब्दार्थः[सम्पादयतु]

बुद्धिः = सूक्ष्मग्राहित्वम्
ज्ञानम् = वस्तुज्ञानम्
असम्मोहः = व्याकुलत्वाभावः
क्षमा = सहनम्
सत्यम् = यथार्थवचनम्
दमः = बाह्येन्द्रियनिग्रहः
शमः = अन्तःकरणनिग्रहः
सुखम् = आह्लादः
दुःखम् = सन्तापः
भवः = उवः
अभावः = विनाशः
भयं च = भीतिः च
अभयम् एव च = भीतिराहित्यम् अपि
अहिंसा = अपीडनम्
समता = साम्यम्
तुष्टिः = सन्तोषः
तपः = नियमपूर्वकं शरीरपीडनम्
दानम् = वितरणम्
यशः = कीर्तिः
अयशः = अपकीर्तिः
पृथग्विधाः = एवं नानाप्रकाराः
भावाः = चित्तवृत्तयः
भूतानाम् = प्राणिनाम्
मत्तः एव = ईश्वरात् एव
भवन्ति = सम्पद्यन्ते ।

अर्थः[सम्पादयतु]

सूक्ष्मग्राहित्वम्, वस्तुज्ञानम्, विवेकः, सहनम्, यथार्थवचनम्, बाह्येन्द्रियनिग्रहः, अन्तःकरणनिग्रहः, आह्लादः, सन्तापः, उवः, विनाशः, भीतिः, भीतिराहित्यम्, अहिंसा, साम्यम्, सन्तोषः, तपः, दानम्, कीर्तिः, अपकीर्तिः - एवं नानाप्रकाराः चित्तवृत्तयः प्राणिनां मत्तः एव सम्पद्यन्ते ।

रामानुजभाष्यम्[सम्पादयतु]

एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनं विरोधिनिरसनादेवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्यं स्वैश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिवृद्धिप्रकारमाह—

बुद्धिर्मनसो निरूपणसामर्थ्यम्, ज्ञानं चिदचिद्वस्तुविशेषविषयं निश्चयम् । असंमोहं पूर्वगृहीताद्रजतादेर्विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिम् । क्षमा मनोविकारहेतौ सत्यप्यविकृतमनस्त्वम् । सत्यं यथादृष्टविषयं भूतहितरूपं वचनम्, तदनुगुणा मनोवृत्तिमिहाभिप्रेता, मनोवृत्तिप्रकरणात। दमो बाह्यकरणानामनर्थविषयेभ्यो नियमनम् । शमोऽन्तम्करणस्य तथा नियमनम् । सुखमात्मानुकूलानुभवम् । दुम्खं प्रतिकूलानुभवम् । भवो भवनम् । अनुकूलानुभवहेतुकं मनसो भवनम् । अभावं प्रतिकूलानुभवहेतुको मनसोऽवसादम् । भयमागामिनो दुम्खस्य हेतुदर्शनजं दुम्खम्, तन्निवृत्तिरभयम् । अहिंसा परदुम्खाहेतुत्वम् । समता आत्मनि सुहृत्सु विपक्षेषु चार्थानर्थयों सममतित्वम् । तुष्टिं सर्वेष्वात्मसु दृष्टोषु तोषस्वभावत्वम् । तपं शास्त्रीयो भोगसंकोचरूपं कायक्लेशम् । दानं स्वकीयभोग्यानां परस्मै प्रतिपादनम् । यशो गुणवत्ताप्रथा, अयशं नैर्गुण्यप्रथा, [कीर्त्यकीर्त्यनुगुणमनोवृत्तिविशेषौ तथा उक्तौ, मनोवृत्तिप्रकरणात्] । तपोदाने च तथा । एवमाद्यां सर्वेषां भूतानां भावां प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्संकल्पायत्ता भवन्ति ॥१०.४।५॥

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अहिंसा_समता_तुष्टिः...&oldid=418455" इत्यस्माद् प्रतिप्राप्तम्