मच्चित्ता मद्गतप्राणा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.९ मच्चिता मद्रतप्राणाः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवमः(९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मच्चित्ताः मद्गतप्राणाः बोधयन्तः परस्परम् कथयन्तः च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥

अन्वयः[सम्पादयतु]

(बुधाः भावसमन्विताः) मच्चित्ताः मद्गतप्राणाः परस्परं मां बोधयन्तः कथयन्तः च नित्यं तुष्यन्ति च रमन्ति च ।

शब्दार्थः[सम्पादयतु]

मच्चित्ताः = मन्मानसाः
मद्गतप्राणाः = मद्गतेन्द्रियाः
परस्परम् = अन्योन्यम्
मां बोधयन्तः = माम् अवगमयन्तः
कथयन्तः च = कीर्तयन्तः च
नित्यम् = सदा
तुष्यन्ति च = सन्तोषं प्राप्नुवन्ति च
रमन्ति च = (मय्येव) विहरन्ति च ।

अर्थः[सम्पादयतु]

येषां चित्तं मयि संलग्नं भवति, येषाम् इन्द्रियाणि मयि सन्ति तादृशाः बुधाः भावसमन्विताः अन्योन्यं मां बोधयन्तः कीर्तयन्तः च सदा सन्तोषं प्राप्नुवन्ति, मय्येव च विहरन्ति ।

रामानुजभाष्यम्[सम्पादयतु]

कथं ? मच्चित्ता मयि निविष्टमनसम्, मद्गतप्राणां मद्गतजीवितां मया विना आत्मधारणमलभमाना इत्यर्थम् । स्वैं स्वैरनुभूतान्मदीयान्गुणान्परस्परं बोधयन्तम्, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तस्तुष्यन्ति च रमन्ति च । वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति, श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते ॥१०.९॥

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]