इदं शरीरं कौन्तेय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१३.०१ इदं शरीरं कौन्तेय…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवानुवाच-

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

इदं शरीरं कौन्तेय क्षेत्रम् इति अभिधीयते एतत् यः वेत्ति तं प्राहुः क्षेत्रज्ञः इति तद्विदः ॥ १ ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! इदं शरीरं क्षेत्रम् इति अभिधीयते । यः एतत् वेत्ति तं क्षेत्रज्ञ: इति तद्विदः प्राहुः ।

शब्दार्थः[सम्पादयतु]

अभिधीयते = कथ्यते
वेत्ति = जानाति
क्षेत्रज्ञः = क्षेत्रवित्
तद्विदः = क्षेत्रक्षेत्रज्ञवेत्तारः
प्राहुः = वदन्ति ।

अर्थः[सम्पादयतु]

अर्जुन ! एतत् वपुः कर्मफलनिष्पत्तेः आधारत्वात् क्षेत्रम् इति कथ्यते । यः पुरुषः इदं वेत्ति तं पुरुषं क्षेत्रवित् इति क्षेत्रक्षेत्रज्ञयोः वेत्तारः वदन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इदं_शरीरं_कौन्तेय...&oldid=418481" इत्यस्माद् प्रतिप्राप्तम्