ध्यानेनात्मनि पश्यन्ति...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१३.२४ ध्यानेनात्मनि. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ध्यानेन आत्मनि पश्यन्ति केचित् आत्मानम् आत्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन च अपरे ॥ २४ ॥

अन्वयः[सम्पादयतु]

केचित् ध्यानेन आत्मनि आत्मना आत्मानं पश्यन्ति । अन्ये साङ्ख्येन योगेन, अपरे कर्मयोगेन ।

शब्दार्थः[सम्पादयतु]

केचित् = केचित् जनाः
ध्यानेन = आत्माकारप्रत्ययावर्तनेन
आत्मनि = देहे
आत्मना = अन्तःकरणेन
आत्मानम् = सर्वात्मानम्
साङ्ख्येन योगेन = प्रकृतिपुरुषविवेकरूपेण ज्ञानयोगेन
कर्मयोगेन = फलनिरपेक्षकर्मणा ।

अर्थः[सम्पादयतु]

केचन आत्माकारप्रत्ययावर्तनरूपेण ध्यानेन देहे वर्तमानम् आत्मानं मनसा पश्यन्ति । अपरे प्रकृति - पुरुषविवेकरूपेण ज्ञानयोगेन अन्ये पुनः निष्कामकर्माचरणरूपेण कर्मयोगेन ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]