यो मामेवमसम्मूढो...
(१५.१९ योमामेवमसम्मूढो…. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः[सम्पादयतु]
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
- स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः[सम्पादयतु]
यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् सः सर्ववित् भजति मां सर्वभावेन भारत ॥
अन्वयः[सम्पादयतु]
भारत ! यः असम्मूढः मां पुरुषोत्तमं जानाति सः सर्ववित् सर्वभावेन भजति ।
शब्दार्थः[सम्पादयतु]
- असम्मूढः = विवेकी
- सर्ववित् = सर्वज्ञः
- सर्वभावेन = सर्वात्मना ।
अर्थः[सम्पादयतु]
अर्जुन ! यः मानवः विवेकी सन् एवं मां पुरुषोत्तमं वेत्ति सः मानवः सर्वज्ञः । सः सर्वप्रकारेण मामेव सेवते ।