ऊर्ध्वमूलमधःशाखम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१५.१ ऊर्ध्वमूलमधश्शाखं…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवानुवाच-

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहुः अव्ययम् छन्दांसि यस्य पर्णानि यः तं वेद सः वेदवित् ॥ १ ॥

अन्वयः[सम्पादयतु]

यस्य छन्दांसि पर्णानि (तादृशम्) अश्वत्थम् ऊर्ध्वमूलम् अधःशाखम् अव्ययं प्राहुः । यः तं वेद सः वेदवित् ।

शब्दार्थः[सम्पादयतु]

ऊर्ध्वमूलम् = ऊर्ध्वस्थितपरमात्ममूलम्
अधःशाखम् = नीचस्थितकार्योपाधिशाखम्
अश्वत्थम् = संसारवृक्षम्
अव्ययम् = अनाद्यन्तम्
प्राहुः = वर्णयन्ति
छन्दांसि = वेदाः
पर्णानि = पत्राणि
वेद = विजानाति
वेदवित् = वेदज्ञः ।

अर्थः[सम्पादयतु]

अयं संसारः कश्चित् अश्वत्थवृक्षः । तस्य मूलं पुरुषोत्तमः । सः ऊर्ध्वं वर्तते । कार्योपाधयः हिरण्यगर्भादयः तस्य शाखाः अधः वर्तन्ते । तस्य पर्णानि वेदाः । तादृशः अश्वत्थवृक्षः नश्वरोऽपि प्रवाहवत् अनश्वरः । ईदृशं वृक्षं यः सम्यक् वेत्ति सः वेदज्ञः इति कथ्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऊर्ध्वमूलमधःशाखम्...&oldid=418495" इत्यस्माद् प्रतिप्राप्तम्