शरीरं यदवाप्नोति...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१५.८ शरीरं यदवापोति…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

शरीरं यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ ८ ॥

अन्वयः[सम्पादयतु]

ईश्वरः यत् शरीरम् अवाप्नोति, यत् च अपि उत्क्रामति वायुः आशयात् गन्धान् इव एतानि गृहीत्वा संयाति ।

शब्दार्थः[सम्पादयतु]

ईश्वरः = जीवः
अवाप्नोति = लभते
उत्क्रामति = निर्गच्छति
आशयात् = आधारात् कुसुमादेः
गन्धान् इव = सौरभम् इव
गृहीत्वा = स्वीकृत्य
संयाति = गच्छति ।

अर्थः[सम्पादयतु]

सुषुप्तौ प्रलये वा समाप्ते सविशिषे ब्रह्मणि लीनः जीवः पूर्वस्मात् शरीरात् निर्गत्य स्वकर्मवशात् शरीरान्तरं यदा प्राप्नोति तदा वायुः पुष्पात् गन्धमिव पूर्वस्मात् शरीरात् सर्वाण्यपि इन्द्रियाणि गृहीत्वैव शरीरान्तरं प्रविशति । ततश्च सविशेषे ब्रह्मणि लीनस्यैव संसारं प्रति पुनरागमनम्, न पुनः उपाधिभूतस्य शरीरस्य अनाशात् निर्विशेषे ब्रह्मणि लीनस्य इति मन्तव्यम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शरीरं_यदवाप्नोति...&oldid=418826" इत्यस्माद् प्रतिप्राप्तम्