काममाश्रित्य दुष्पूरं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१६.१० काममाश्रित्य इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद् गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १० ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद् गृहीत्वा असद्ग्राहान् प्रवर्तन्ते अशुचिव्रताः ॥

अन्वयः[सम्पादयतु]

दुष्पूरं कामम् आश्रित्य दम्भमानमदान्विताः मोहात् असद्ग्राहान् गृहीत्वा अशुचिव्रताः प्रवर्तन्ते ।

शब्दार्थः[सम्पादयतु]

दुष्पूरम् = अशक्यपूरणम्
कामम् = इच्छाविशेषम्
आश्रित्य = अवलम्ब्य
मोहात् = अविवेकात्
दम्भमानमदान्विताः = दम्भाभिमानगर्वसहिताः
असद्ग्राहान् = दुष्टनिश्चयान्
अशुचिव्रताः = अशुद्धकर्माणः
प्रवर्तन्ते = प्रवृत्ताः भवन्ति ।

अर्थः[सम्पादयतु]

ते हि दम्भादिभिः समन्विताः गर्हितं व्रतं चरन्तश्च अमितं विषयाभिलाषम् आश्रित्य अनर्थकरान् निर्णयान् विधाय जगतः नाशाय प्रवर्तन्ते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]