अहङ्कारं बलं दर्पं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१६.१८ अहङ्कारं बलं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः माम् आत्मपरदेहेषु प्रद्विषन्तः अभ्यसूयकाः ॥

अन्वयः[सम्पादयतु]

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ते दम्भेन अविधिपूर्वकं नामयज्ञैः यजन्ते । अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः आत्मपरदेहेषु मां प्रद्विषन्तः अभ्यसूयकाः भवन्ति ।

शब्दार्थः[सम्पादयतु]

आत्मसम्भाविताः = आत्मनैव पूज्यत्वं प्रापिताः
स्तब्धाः = धृष्टाः
धनमानमदान्विताः = वित्तमानगर्वसहिताः
दम्भेन = आत्मनो धार्मिकतया ख्यापनेन
अविधिपूर्वकम् = अशास्त्रीयम्
नामयज्ञैः = नाममात्रेण यज्ञैः
यजन्ते = देवान् पूजयन्ति
संश्रिताः = अवलम्बितवन्तः
आत्मपरदेहेषु = स्वकीयान्य - शरीरेषु
प्रद्विषन्तः = खेदयन्तः
अभ्यसूयकाः = असहमानाः ।

अर्थः[सम्पादयतु]

ते हि आत्मानं पूज्यत्वेन प्रचारयन्ति, अविनीताः भवन्ति, धनमानमदैः उपेताः भवन्ति, तादृशाः ते सोमयाजिप्रभृतिभिः शब्दैः आत्मनः व्यपदेशम् इच्छन्तः अश्रद्धया अशास्त्रीयक्रमेण च कथञ्चित् यागं कुर्वन्ति, तेषु अहङ्कारबलदर्पादयः निवासं कुर्वन्ति । एतादृशाः ते असूयापराः सर्वेषु शरीरेषु अन्तर्यामितया वर्तमानं मां खेदयन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अहङ्कारं_बलं_दर्पं...&oldid=435066" इत्यस्माद् प्रतिप्राप्तम्