तस्माच्छास्त्रं प्रमाणं ते...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१६.२४ तस्माच्छास्त्रं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तंकर्म कर्तुमिहार्हसि ॥ २४ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तंकर्म कर्तुम् इह अर्हसि ॥

अन्वयः[सम्पादयतु]

तस्मात् कार्याकार्यव्यवस्थितौ ते शास्त्रं प्रमाणम् । शास्त्रविधानोक्तंकर्म ज्ञात्वा इह कर्तुम् अर्हसि ।

शब्दार्थः[सम्पादयतु]

कार्याकार्यव्यवस्थितौ = कर्तव्याकर्तव्यव्यवस्थायाम्
शास्त्रम् = अबाधितार्थप्रतिपादकं वाक्यम्
प्रमाणम् = ज्ञानसाधनम्
शास्त्रविधानोक्तम् = शास्त्रविहितम्
ज्ञात्वा = विदित्वा ।

अर्थः[सम्पादयतु]

तस्मात् यदा तव कार्ये अकार्ये वा विषये सन्देहो भवति तदा तव शास्त्रं प्रमाणम् । तत्र स्थितेन वाक्येन यत् प्रतिपाद्यते तदेव कार्यं कर्तुमर्हसि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]