प्रवृत्तिं च निवृत्तिं च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१६.७ प्रवृत्तिं च निवृत्तिं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

प्रवृत्तिं च निवृत्तिं च जनाः न विदुः आसुराः न शौचं न अपि च आचारः न सत्यं तेषु विद्यते ॥ ७ ॥

अन्वयः[सम्पादयतु]

आसुराः जनाः प्रवृत्तिं च निवृत्तिं च न विदुः । तेषु शौचं न विद्यते । आचारः अपि न, सत्यम् अपि न।

शब्दार्थः[सम्पादयतु]

आसुराः = असुरगुणसम्पन्नाः
प्रवृत्तिम् = प्रवर्तनम्
निवृत्तिम् = निवर्तनम्
विदुः = जानन्ति
शौचम् = शुद्धिः
आचारः = सदाचारः
सत्यम् = यथार्थकथनम् ।

अर्थः[सम्पादयतु]

असुरगुणसम्पन्नाः जनाः धर्मे प्रवृत्तिं न जानन्ति, अधर्मात् च निवृत्तिम् । कायिकं वाचिकं मानसिकं चेति यत् त्रिविधं शौचं तत् तेषु न सम्भवति । नापि च यथार्थवादित्वम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]