अभिसन्धाय तु फलं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.१२ अभिसन्धाय तु इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अभिसन्धाय तु फलं दम्भार्थम् अपि च एव यत् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥

अन्वयः[सम्पादयतु]

भरतश्रेष्ठ ! फलं तु अभिसन्धाय दम्भार्थम् अपि च एव यत् इज्यते तं यज्ञं राजसं विद्धि ।

शब्दार्थः[सम्पादयतु]

अभिसन्धाय = उद्दिश्य
दम्भार्थम् = धर्मादिगुणवत्त्वेन आत्मनः ख्यापनार्थम्
राजसम् = रजोगुणसम्बन्धिनम् ।

अर्थः[सम्पादयतु]

अर्जुन ! फलम् अपेक्ष्य धार्मिकतया आत्मानं ख्यापयितुं यः यज्ञः क्रियते सः राजसः इति जानीहि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अभिसन्धाय_तु_फलं...&oldid=418422" इत्यस्माद् प्रतिप्राप्तम्