अदेशकाले यद्दानम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.२२ अदेशकाले यद्दानं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अदेशकाले यत् दानम् अपात्रेभ्यः च दीयते असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ २२ ॥

अन्वयः[सम्पादयतु]

अदेशकाले असत्कृतम् अवज्ञातं च अपात्रेभ्यः यत् दानं दीयते तत् तामसम् उदाहृतम् ।

शब्दार्थः[सम्पादयतु]

अदेशकाले = अनुचिते प्रदेशे समये च
असत्कृतम् = सत्काररहितम्
अवज्ञातम् = परिभवसहितम्
अपात्रेभ्यः = अनर्हेभ्यः ।

अर्थः[सम्पादयतु]

अयोग्ये देशे काले च शमविद्यादिगुणरहिताय अनादरेण तिरस्कारेण च यत् दानं क्रियते तत् तामसमिति भण्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अदेशकाले_यद्दानम्...&oldid=418388" इत्यस्माद् प्रतिप्राप्तम्