न हि देहभृता शक्यं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.११ न हि देहभृता शक्यं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

न हि देहभृता शक्यं त्यक्तुं कर्माणि अशेषतः यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ॥

अन्वयः[सम्पादयतु]

देहभृता अशेषतः कर्माणि त्यक्तुं नहि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

शब्दार्थः[सम्पादयतु]

देहभृता = शरीरधारिणा
अशेषतः = सर्वात्मना
कर्मफलत्यागी = कर्मप्रयोजनपरित्यागी ।

अर्थः[सम्पादयतु]

न हि केनापि पुरुषेण सर्वाणि कर्माणि त्यक्तुं शक्यन्ते । यदि त्यज्यन्ते तर्हि जीवनमेव दुष्करं भवति। तस्मात् कर्मणां फलं यः त्यजति स एव त्यागी, नान्यः इति निर्णयः युक्तः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=न_हि_देहभृता_शक्यं...&oldid=418632" इत्यस्माद् प्रतिप्राप्तम्