पञ्चैतानि महाबाहो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.१३ पञ्चैतानि महाबाहो इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पञ्च एतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥

अन्वयः[सम्पादयतु]

महाबाहो ! साङ्ख्ये कृतान्ते सर्वकर्मणां सिद्धये प्रोक्तानि एतानि पञ्च कारणानि मे (वचनात्) निबोध ।

शब्दार्थः[सम्पादयतु]

सांख्ये = वेदान्ते
कृतान्ते = कर्मसमाप्तिविशिष्टे
सर्वकर्मणाम् = सकलक्रियाणाम्
सिद्धये = प्राप्तये
प्रोक्तानि = निर्दिष्टानि
निबोध = जानीहि ।

अर्थः[सम्पादयतु]

अर्जुन ! सर्वेषां कर्मणां यत्र परिसमाप्तिः भवति तादृशे वेदान्ते सर्वकर्मणां सिद्धये निर्णीतानि पञ्च कारणानि मम वचनात् जानीहि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पञ्चैतानि_महाबाहो...&oldid=418648" इत्यस्माद् प्रतिप्राप्तम्