रागी कर्मफलप्रेप्सुः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.२७ रागी कर्मफलप्रेप्सुर्लुब्धो इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥

अन्वयः[सम्पादयतु]

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।

शब्दार्थः[सम्पादयतु]

रागी = रागवान्
कर्मफलप्रेप्सुः = कर्मफलार्थी
लुब्धः = लोभी
हिंसात्मकः = पीडास्वभावः
अशुचिः = अशुद्धः
हर्षशोकान्वितः = सुखदुःखसहितः
राजसः = रजोगुणयुक्तः
परिकीर्तितः = आख्यातः ।

अर्थः[सम्पादयतु]

यः भार्यापुत्रादिषु प्रीतिमान्, कर्मफलापेक्षी, कृपणः, हिंसाप्रियः, कर्मापेक्षितशुद्धिरहितः, कर्मफलसिद्धौ च सन्तुष्टः असिद्धौ च दुःखितः भवति सः कर्ता राजसः इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]