धृत्या यया धारयते...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.३३ धृत्या यया धारयते इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥

अन्वयः[सम्पादयतु]

पार्थ ! योगेन अव्यभिचारिण्या यया धृत्या मनःप्राणेन्द्रियक्रियाः धारयते सा धृतिः सात्त्विकी ।

शब्दार्थः[सम्पादयतु]

अव्यभिचारिण्या = अविनाभूतेन
यया धृत्या = येन प्रयत्नेन
मनःप्राणेन्द्रियक्रियाः = चित्तप्राणेन्द्रियव्यापारान्
योगेन = समाधिना
धारयते = धरति
धृतिः = प्रयत्नः
सात्त्विकी = सात्त्विकी

अर्थः[सम्पादयतु]

अर्जुन ! फलनिरपेक्षः पुरुषः समाधिना सहैव वर्तमानया यया बुद्ध्या मनसः प्राणस्य इन्द्रियाणां च व्यापारान् धारयति तस्य पुरुषस्य सा धृतिः सात्त्विकी इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धृत्या_यया_धारयते...&oldid=464177" इत्यस्माद् प्रतिप्राप्तम्