१८.५३ अहंकारं बलं दर्पं कामं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिपञ्चाशत्तमः(५३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य निर्ममः शान्तः ब्रह्मभूयाय कल्पते ॥

अन्वयः[सम्पादयतु]

विशुद्धया बुद्ध्या युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च विविक्तसेवी लघ्वाशी यतवाक्कायमानसः नित्यं ध्यानयोगपरः वैराग्यं समुपाश्रितः अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य शान्तः निर्ममः ब्रह्मभूयाय कल्पते ।

शब्दार्थः[सम्पादयतु]

अहङ्कारम् = अहम्भावम्
बलम् = दार्ढ्यम्
दर्पम् = गर्वम्
परिग्रहम् = स्वीकारम्
विमुच्य = त्यक्त्वा
निर्ममः = ममताशून्यः
ब्रह्मभूयाय = ब्रह्मभावाय
कल्पते = शक्नोति ।

अर्थः[सम्पादयतु]

यः सात्त्विकबुद्ध्या युक्तो भवति, धृतिमान् भवति, चित्तं नियमयति, शब्दादीन् विषयान् त्यजति, रागद्वेषौ दूरीकरोति, निर्जने प्रदेशे वसति, मितं भुङ्क्ते, शरीरेन्द्रियमनांसि नियच्छति, सततं ध्यायन् वैराग्यं प्राप्नोति, अहङ्कारादि-दोषं च विमुञ्चति सः शान्तः ममताशून्यश्च ब्रह्मत्वं प्रतिपद्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]